ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 189, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १६१
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक्कामरूपिणी ॥ २०२ ॥
रूपेषु सर्वदा । निरुद्धेन्धनरूपेषु परमार्थात्मनि स्थिरे । निर्व्युत्थानविलापस्तु परहोमः
समीरिता’इति । मन्त्रपारायणान्तर्गतमन्त्रविशेषः परापरेत्युच्यते । देव्यपि त्रिविधा
पराऽपरा परापरा चेति । तदुक्तं वराहपुराणे त्रिमूर्ति प्रकृत्य ‘तत्र सृष्टिः परा प्रोक्ता
श्वेतवर्णस्वरूपिणी । या वैष्णवी विशालाक्षी रक्तवर्णस्वरूपिणी । अपरा सा समा-
ख्याता रौद्री चैव परापरा । एतास्तिस्रोऽपि सिध्यन्ति यो रुद्रं वेत्ति तत्वत’ इति ।
अत्र परापरपदयोर्विभजनेन सप्तदशार्थमेलनेन तु पञ्चेति द्वाविंशतिः । अन्येपि
यथालाभं योजनीयाः ॥ २०१ ॥ सत्यं ज्ञानमानन्दश्च रूपं यस्याः । ‘सत्यं ज्ञानम-
नन्तं ब्रह्म’ । ‘नित्यं विज्ञानमानन्दं ब्रह्मेति’ श्रुतेः । ‘सती सद्विद्या तद्विषये अज्ञा
अनभिज्ञा ये तेषामनानन्दमानन्दभिन्नं दुःखमेव रूपयति ददातीति । ‘अन्धं तमः
प्रविशन्ति येऽविद्यामुपासत’इति बृहदारण्यक ईशावास्ये च श्रवणात् । अविद्यामिति
पदकाराणां पदपाठः । ‘विद्यान्योपासनामेवं निन्द्यारण्यकश्रुति’रिति ब्रह्माण्डपुराणे
उपबृंहणं च । यद्वा । सत्याविद्या देव्या अज्ञानं येषां ते सत्यज्ञानाः तेषामानन्दाख्यान्
लोकान् रूपयतीति आरण्यक एवोक्तश्रुतेः परतस्तथा श्रवणात् । ‘अनन्दा नाम ते
लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधा जना’इति । समो
न्यूनानधिको रसो ययोस्तयोः शिवशक्त्योर्भावः सामरस्यमेव परमयनं स्थानं यस्याः ।
उक्तं चाभियुक्तैः ‘परस्परतपःसंपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती
स्तुम’इति । ‘भोक्तृभोग्यकरणोर्मिसंक्षये सामरस्यरसदोहिनी शिवे’त्यादिकालीदासो-
क्तिश्च । ‘समप्रधानौ समसत्वौ ॰मो तयोरि’ति श्रुतिश्च । अमरैः सहितस्य सामरस्य
लोकस्य परायणमाश्रयो वा । रस्यन्ते गीयन्त इति रस्यानि सामानि च तानि रस्यानि
च तानि परायणानि अभीष्टानि यस्या वा । बहुलग्रहणान्न विशेषणस्य पूर्वनिपातः ।
‘परायणमभीष्टं स्यात्तत्पराश्रययोरपी’ति विश्वः । कपर्द इत्यधिकृत्य ‘भूमनिन्दाप्रशंसासु
नित्ययोगेऽतिशायन’इति सूतसंहिताटीकाकारैर्लिखितात्स्मरणाद्बाहुल्यप्रशंसादिमती । वरा-
टकमालाभूषिता वा । मैलारावतारस्य शिवस्याङ्गना महालसानाम्नी वराटकालंकारैव
‘पर्व पूर्तौ’वितिधातोर्भावे क्तिपि राल्लोपे च परशब्दः पूर्तवाची । अन्तर्भा-
वितण्यर्थात्कर्तरि वा क्तिपि पूरवाची । कस्य गङ्गाजलस्य पूरं प्रवाहं दापयति
शोधयतीति कपर्दः । ‘दैप् शोधन’इति धातोः सुप्युपपदे ‘आतो धातोः’ ‘सुपि
स्थ’इति योगविभागात्कः । गङ्गाया अपि पाविका यज्जटा इत्यर्थः । ‘कपर्दः
खण्डपरशोर्जटाजूटे वराटके’इति विश्वः । ‘आर्भक्ष्या शशिखण्डमण्डितजटाजूटा’मिति
लघुस्तवोक्तरूपवती वा । कपर्दिनामकस्य शिवस्य पत्नी वा । देवीपुराणेऽष्टषष्टिशिव-
क्षेत्रगणनावसरे छगलाण्डे कपर्द्दिनमिति स्मरणात् । कलानां चतुःषष्ट्यादिरूपाणां माला