ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 192, कुल 272 में से
संदर्भ में पढ़ें'६४ ललितासहस्रनाम ।
मूर्तामूर्ता नित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ॥ २०५ ॥
प्रयोगः । परिमिति मान्तमव्ययमित्याहुः । परमा च साण्वी च 'वोतो गुणवचना'दिति
विविधैवैकल्पिकत्वात् ङीबभावः । 'अणोरणीया'निति श्रुतिः । दुर्ज्ञेयेत्यर्थः ।
तार्किककल्पिताः पीलवोऽप्यस्या एव रूपमिति वा । परम उत्कृष्टोऽणुर्मन्त्रो वा ।
परादुत्कृष्टाद्ब्रह्मविष्णुरुद्रादपि परा श्रेष्ठतरा । यद्वा ब्रह्मायुःपरिमाणं परमित्युच्यते
तस्मात्परा तादृशसंख्यापरिच्छेदरहिता । तत्र परंधामत्वं परमाणुत्वं च हेतुः ।
तथैव च दर्शितं कालीपुराणे 'तस्य ब्रह्मस्वरूपस्य दिवारात्रं च यद्भवेत् । तत्परं नाम
तस्यार्धे परार्धमभिधीयते । स ईश्वरस्य दिवसस्तावती रात्रिरुच्यते । स्थूलात्स्थूल-
तमः सूक्ष