सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 181, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 181

सौभाग्यभास्करव्याख्या । १५३
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १९५ ॥
महेश्वरी महाकाली महाग्रासा महाशना ।
तान् जीवयतीति यावत् । पापापहानि कर्माणि प्रथयतीत्यर्थः । तदुक्तं ब्रह्माण्डे 'कृतस्या-
खिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तं परं प्रोक्तं पराशक्तेः पदस्मृति'रिति ।
तत्रैवाध्यायान्तरे 'इदं च शृणु देवेन्द्र रहस्यं परमं महत् । सर्वेषामेव पापानां
यौगपद्येन नाशनम् । भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः । अष्टोत्तरसहस्रं
तु जपेत्पञ्चदशाक्षरीम् । आराध्य परमां शक्तिं मुच्यते सर्वकिल्बिषै'रित्यादि ।
दौर्भाग्यमेव तूलं कार्पासं तस्य वातूल इव वात्येव दूरं निरासिकेति यावत् । 'वातूलः
पुंसि वात्याया'