सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 179, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 179

सौभाग्यभास्करव्याख्या । १५१
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १९२ ॥
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
कोरको वा । 'कलिका कोरकः पुमा'निति कोशः । प्रेम स्नेहो भक्तिरेव स्वरूपं
यस्याः । आयुर्घृतमितिवद्रूपाभिव्यक्तिजनकेपि रूपपदप्रयोगः । प्रियं करोतीति प्रियं-
करी अआईईत्यारभ्य क्षःक्षा इत्यन्तानि भगवत्या नामानि । अकार एकः ककारादयः
पञ्चत्रिंशच्चेत्येवं षट्त्रिंशदक्षराणि । षट्त्रिंशद्धर्मरूपाणि तेष्वेकैकस्य षोडशभिः स्वरैर्योगे
क्रमेण तावन्तो मासाः । तेन षट्सप्तत्युत्तराणि पञ्चशतानि वर्णानि भवन्ति । एतानि
प्रथमाक्षराणि । एष्वेकैकं प्रथमं कृत्वा द्वितीयवर्णस्थाने षट्त्रिंशत् क्रमेण निक्षिपेत् ।
अन्ते च आई इति पल्लवं योजयेत् । ततश्च विंशतिसहस्राणि सप्तशतानि षट्त्रिंशच्च
नामानि भवन्ति । तदुक्तं 'आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः कादिक्षान्तगतैः
खरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगोप्यानि
ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नम' इति । देवीभागवतेऽपि तृतीय-
स्कन्धे 'अकारादिक्षकारान्तैः स्वरैर्वर्गैश्च योजितैः । असंख्येयानि नामानि भवन्ति
रघुनन्दने'ति । तेषां च पारायणं पञ्चधोक्तं कादिमते 'दिनतो वारतः पक्षान्मासात्षट्-
त्रिंशता दिनै'रित्यादिना । तदिदं नामपारायणाख्यं कर्म । सहस्रनामपाठेपि च
तथा । योगरूढ्या पूर्वस्यैव यौगिकवृत्त्या परस्याप्युपस्थितेः । ताभ्यां प्रीता । 'मामर्च-
यतु वा मा वा विद्यां जपतु वा नवा । कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदे'ति वचनात् ।
नन्दिनो नन्दिकेश्वरस्य विद्या तदुपासितविद्या नटेश्वरस्य चिदम्बरनटस्येयं तदनुकारिणी ।
यदाहुरभियुक्ताः 'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तका-
भाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । भर्तुर्नृत्तानुकारे जयति निजतनूस्वच्छलावण्यवापी-
संभूताम्भोजशोभां विदधदभिनवोद्दण्डपादो भवान्या' इति ॥ १९२ ॥ मिथ्यारूपस्य
जगतोऽधिष्ठानं भानाधिकरणं रजतस्येव शुक्तिः । 'मायामात्रमिदं द्वैतमद्वैतं परमा-
र्थतः' । 'नेह नानास्ति किंचने'त्यादिश्रुतेः । 'सर्वं खल्विदमेवाहं नान्यदस्ति सनात-
न'मिति देवीभागवतात् । 'यत्र त्रिसर्गो मृषे'ति विष्णुभागवताच्च । गुणत्रयापचय-
विवक्षया स्त्रीलिङ्गम् । यद्वा अधिष्ठानशब्द एवाधिष्ठानपरः । ततश्च जगदधिष्ठानरूपं
ब्रह्मैव अनः प्राणो यस्या इति विग्रहः । यद्वा अधिष्ठानशब्दो मत्वर्थीयाच्प्रत्यये-
नाधेयपरः । तेन मिथ्याजगदधिष्ठानमधिष्ठितं यस्या इति विग्रहः । वस्तुतस्तु जगतो
ब्रह्मपरिणामकत्वं स्वीकुर्वतां तान्त्रिकाणां मते जगतः सत्यत्वमेव मृद्धटयोरिव ब्रह्म-
जगतोरत्यन्ताभेदेन ब्रह्मणः सत्यत्वेन जगतोऽपि सत्यत्वावश्यंभावात् भेदमात्रस्य
मिथ्यात्वस्वीकारेणाद्वैतश्रुतीनामखिलानां निर्वाहः । भेदस्य मिथ्यात्वादेव भेदघटि-
ताधाराधेयभावसंबन्धोऽपि मिथ्यैव । तावन्मात्रेणैवाविरोघे सर्वस्य जगतो मिथ्यात्व-
कल्पनं तु वेदान्तिनामनर्थकमेवेति शांभवानन्दकल्पलतायां विस्तरः । ततश्च मिथ्या-