कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १३१ )
अरालपक्ष्मणः are Adjectives of चक्षुषः । अस्य—of this,
i. e., yours चिरं—for a long time लक्ष्यं—दर्शनविषयम्
target or object of sight i. e., does not bring him to
the view of your eyes. Some books read the third line
as 'करोति लक्ष्यं रविमस्य चक्षुषः' makes the sun the
mark for your eyes, i. e., makes you practise the
पञ्चाग्नि penance 49.
Change of Voice:—(मया) तव प्रियः सौभाग्यमदेन
वञ्चितः अवेद्यते (अव + ईयते), येन आत्मीयं वक्त्रं चतुराव-
लोकिनः अरालपक्ष्मणः अस्य चक्षुषः चिरं लक्ष्यं न क्रियते॥ ४६ ॥
Hindi Translation:—(मैं) तेरे प्यारे को (उसकी)
सुन्दरता के गर्व से ठगा हुआ समझता हूँ, जो कि अपने चेहरे
को सुन्दर चितवन तथा टेढ़े रोमवाली इन (तेरी) आँखों का
निशाना नहीं बनाता ॥ ४६ ॥
English Translation —I regard (thy) lover to
be cheated by the pride of his beauty, who does not,
for a long time, make his face the target for (thy)
eyes of lovely glances and curved eye-lashes. 49
Purport in Sanskrit:—त्वया काङ्क्षितो जनस्तु सत्य-
मेव विचित्रचरित्रवान् । स निजसौन्दर्यदर्पेण वृथैवात्यन्तं गर्वितो
दृश्यते—अनेन कारणेनैव स तव प्रार्थनां प्रतीक्षमाणस्तव सम्मुखं
नायाति। यदि हि स अत्रागमिष्यत् तर्हि तव मधुरालोकनयुक्ते
सुन्दररोमसहिते च नेत्रे विलोक्य नूनमेव हतदर्पोऽभविष्यत्
यथार्थसौभाग्यसुखञ्चाप्स्यत् । असत्येन सौभाग्यमदेन तस्येदं
वास्तविकं सौभाग्यं प्रतिरुद्धमिति स वञ्चित एव मया
मन्यते ॥ ४६ ॥
( १३२ )
कियच्चिरं श्राम्यसि गौरि विद्यते
ममापि पूर्वाश्रमसंचितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं
वरं तमिच्छामि च साधु वेदितुम् ॥ ५० ॥
कियदति । हे गौरि । कियत् किं प्रमाणकम् । चिरं श्राम्यसि
तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमसंचितं पूर्वा-
श्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपः विद्यते ।
तदर्धभागेन अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनेकदेशेन
काङ्क्षितं इष्टं वरं उपयन्तारं लभस्व । तं वरं साधु सम्यक् वेदितुं
ज्ञातु इच्छामि च । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति
भावः ॥ ५० ॥
PROSE ORDER :—गौरि, कियच्चिरं श्राम्यसि ? पूर्वाश्रम-
सञ्चितं मम तपः अपि विद्यते, तदर्धभागेनकाङ्क्षितं वरं लभस्व,
तं च साधु वेदितुं इच्छामि ॥ ५० ॥
NOTES :—कियत्—( कि+वतु ) किं परिमाणमस्येति
कियत् how much वतुप् is added and व of वतुप् is
changed to घ by ‘किमिदंभ्यां वो घः’ पा० ५ २ ४० । घ is
then changed to इय and किं is changed to कि before
दृग्, दृश and वतु by ‘इदकिमोरीश्की’ पा० ६ ३ ६० । चिरम्
for a long time Accusative is used on account of
‘कालाध्वनोरत्यन्तसंयोगे’ पा० २.३ ५। i. e., intransitive
roots govern the Accusative of nouns denoting space
or country, or duration of time and distance. श्राम्यसि
—तपस्यसि to take pains ; to torture ( the body ) The
( १३३ )
√श्रम् ‘ to fatigue ’ means ‘ to take rest ’ when preceded
by वि । Cf विश्राम । पूर्वाश्रमसञ्चितं—पूर्वस्मिन् आश्रमे ( ब्रह्म-
चर्याश्रमे ) सञ्चितं पूर्वाश्रमसञ्चितं accumulated in the first
stage of life तदर्धभागेन—अर्धःभागः अर्धभागः, तस्य अर्धभागः,
तदर्धभागः, तेन by a half of it काङ्क्षित—( √काङ्क्ष्+क्तः )
स्वाभिलषितं desired; of your choice वर—a bridegroom.
त—वरं i. e. all about that bridegroom साधु—सम्यक् ;
पूर्णतया fully, properly. Adverb to वेदितुं—ज्ञातुं to know.
Some commentators have interpreted the word तपः to
mean body, which is a means of performing penance.
They mean to say that Shiva had offered to make
Parvati his own अर्द्धाङ्गिनी Cf. ‘ तपः शब्दो लक्षणया तपः
साधनभूतस्य शरीरस्य बोधकः, ‘ शरीरमाद्यं खलु धर्मसाधनम् ’
इत्युक्तत्वात् ।’ But, this seems to be far fetched 50
CHANGE OF VOICE :—गौरि, ( त्वया ) कियच्चिरं श्रम्यते ?
पूर्वाश्रमसञ्चितेन मम तपसा अपि विद्यते, तदर्धभागेन
काङ्क्षितः वरः ( त्वया ) लभ्यताम्, स च ( मया ) साधु वेदितुं
इष्यते ॥ ५० ॥
HINDI TRANSLATION :—हे पार्वति, कब तक तपस्या
करोगी ? प्रथमाश्रम में एकत्रित किया हुआ मेरा तप भी है,
उसके आधे अंश से ( तुम अपने ) चाहे वर को प्राप्त कर लो,
परन्तु उस ( वर ) को मैं पूरी तरह जानना चाहता हूँ ॥ ५० ॥
ENGLISH TRANSLATION —O Gauri, how long wilt
thou practise penance ? I too have penance ( to my
credit )practised in the first stage of life. Thou mayst
( १३४ )
get the desired bridegroom by a half of it, him, how-
ever, I desire to know well. 50
Purport in Sanskrit :—हे पार्वति ! त्वया दीर्घकालं
तपस्या कृता, इदानीमितोऽधिकतपस्यायाः काप्यावश्यकता न
दृश्यते । यदि चाधिकतपसैव तेऽभीष्टं साध्यं तर्हि ममापि ब्रह्म-
चर्याश्रमे कृतं तपोऽस्ति तस्यार्धमहं तुभ्यं दातुमुद्यतः, त्वं तत्सहाय-
तया स्वेच्छितं वरं लब्धुं शक्नोषि । परं पूर्वमहं तस्य वरस्य विषये
सर्वमपि ज्ञातुमिच्छामि ॥ ५० ॥
इति प्रविश्याभिहिता द्विजन्मना
मनोगतं सा न शशाक शंसितुम् ।
अथो वयस्यां परिपार्श्ववर्त्तिनीं
विवर्त्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥
इतीति । इति इत्थं द्विजन्मना द्विजेन प्रविश्य अन्तर्गत्वा ।
आप्ततद्रहस्यमुद्भाव्येत्यर्थः । अभिहिता उक्ता सा पार्वती मनोगतं
हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः ।
अथो अनन्तरं परिपार्श्ववर्त्तिनीं वयस्यां सखीं विवर्तितानञ्जननेत्रं
विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्
कर्मणि तत्तथा ऐक्षत । नेत्रसंज्ञयैव प्रत्युत्तरं वाचयाञ्चकारेत्यर्थः ॥५१॥
Prose Order :—द्विजन्मना प्रविश्य इति अभिहिता सा
मनोगतं शंसितुं न शशाक, अथो परिपार्श्ववर्त्तिनीं वयस्यां विवर्त्ति-
तानञ्जननेत्रं ऐक्षत ॥ ५१ ॥
Notes :—द्विजन्मना—द्वे जन्मनी यस्य स द्विजन्मा, तेन
( विप्रेण ) by that Brahmana See notes on द्विजाति in
the 40th verse above. प्रविश्य—अन्तर्गत्वा having entered
into ; having penetrated her mind or the secret of
( १३५ )
her heart. अभिहिता—( अभि + √धा + क्त. ) कथिता being
addressed The √धा ' to put on ' comes to mean ' to
say ' when preceded by the preposition अभि । Note
that धा changes into हि by ' दधातेर्हि ' पा० ७.४.४२ । मनो-
गतं—मनसि गतं मनोगतं ( हृदयस्थ भावं वरं वा ) the desire
or secret of her mind शंसितु—( √शंस् + तुमुन् ) कथयितुं
to relate , to disclose शशाक—समर्था अभूत् was able.
It was evidently on account of modesty which is so
natural for a high born maiden that Parvati could not
frankly talk to the Brāhmana अथो—अनन्तरं Then It
is an indeclinable difference from अथ, though means
the same परिपार्श्ववर्त्तिनीं—( परिपार्श्व + √वृत् + णिनिः +
ङीप् ) परिपार्श्वे ( समीपे ) वर्त्तते इति परिपार्श्ववर्त्तिनी, ताम्
who was by her side. वयस्यां—( वयस् + यत् + आप् ) वयसा
( आयुषा ) तुल्या ( समा ) वयस्या ( सखी ) who is equal in
age, i e, a lady-friend The suffix यत् is added by
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसम-
समितसम्मित्तेषु ' पा० ४४६१ । i. e, यत् is added to
the words नौ, वयस् etc in the sense of तार्य ( which
can take to the other side of water ), तुल्य ( which is
equal ) etc विवर्तितानञ्जननेत्रम्—विवर्तित + अनञ्जन +
नेत्रम् । अविद्यमानं अञ्जनं ययोः ( नेत्रयोः ) ते अञ्जने, विवर्तिते
अनञ्जने नेत्रे यस्मिन् कर्मणि यथा भवति तथा विवर्तितानञ्जननेत्रम्
having turned towards ( her ) the eyes devoid of
collyrium ; i e, she made a sign to her friend by
means of turning the eyes towards her to give a
( १३६ )
reply to the enquiry of the Brahmana Parvati
did not apply collyrium to her eyes, because
ascetics are not permitted to do so The compound
is an Adverb to ऐक्षत—looked at 51
CHANGE OF VOICE :—द्विजन्मना प्रविश्य इति अभिहितया
तया मनोगतं शंसितुं न शेके, अथो, परिपार्श्ववर्तिनी वयस्या
विवर्तितानञ्जननेत्रं पेक्ष्यत ॥ ५१ ॥
HINDI TRANSLATION :—(उसके हृदय) की बात में
घुस कर उन ब्राह्मण से पूछी हुई वह अपने मन की बात को न
कह सकी। तब उसने अपने पास में स्थित सखी की ओर
अञ्जनरहित नेत्रों को मोड़ कर देखा ॥ ५१ ॥
ENGLISH TRANSLATION — She, thus addressed by
the Brâlımana, having entered (the secret of her
heart), could not speak out the desire of her mind
Then she looked at her friend, who was by her side,
with eyes devoid of collyrium. 51
PURPORT IN SANSKRIT : —एवं स ब्राह्मणः पार्वतीं तस्या
हार्दिकभावमपृच्छन्, परन्सा लज्जावशात् स्वहृदयस्थं भावं कथयितुं
समर्था नाभूत्। स्वयमुत्तरमदत्त्वैव स्वसमीपवर्त्तिनीं निजसखीं
प्रति स्वायाञ्जनरहिताभ्यां नेत्राभ्यां दृष्ट्वा च तां शिवाय निवेदयितुं
प्रेरयामास ॥ ५१ ॥
सखी तदीया तमुवाच वर्णिर्न
निबोध साधो तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥
( १३७ )
सखोति । तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् ।
'वर्ण प्रशस्तिः' इति क्षीरस्वामी । सोऽस्यास्तीति वर्णिने ब्रह्म-
चारिणम् । 'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म ।
किमिति । हे साधो विद्वन् तव कुतूहल चेत् श्रोतुमस्तीति शेषः ।
तर्हि निबोध अवगच्छ । आकर्णयेत्यर्थः 'बुध अवगमने' इति
धातोर्भौवादिकाल्लोट् । श्रोतव्यं कि तदाह—यस्मै लाभायेदं
यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' इति
वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्या अम्भोजं पद्मम्
उष्णावारणं आतपत्र इव वपुः शरीरं तपः साधनं कृतम् । तपः-
प्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥
PROSE ORDER —तदीया सखी तं वर्णिर्न उवाच, (हे)
साधो, तव चेत् कुतूहलम् (तर्हि) निबोध, एतया यदर्थं अम्भोजं
उष्णावारणमिव वपुः तपः साधनं कृतम् ॥ ५२ ॥
NOTES —तदीया—(तद्+छः+ईय+आ) तस्या इयं
तदीया of her, i e., of Parvati See notes on तदीयं in
the verse 21 वर्णिन्—(वर्ण+इनिः=वर्णिन्) वर्णः
(प्रशस्तिः) अस्यास्तीति वर्णिन्, तं वर्णिर्न to the Brahma-
charin; an ascetic. The word वर्ण means प्रशस्तिः
(freedom from carnal enjoyment—'वर्णः प्रशस्तिः) or
वेदाध्ययनार्थं ब्रह्मचर्यम् (the first stage of life—Brahma-
charya), or a particular colour Cf 'वर्णो द्विजादि-
शुक्लादियज्ञे गुणकथासु च स्तुतौ ना' इति मेदिनी । The suffix
इनि is added to वर्ण by 'वर्णाद्ब्रह्मचारिणि' पा० ५.२.१३४ ।
When the meaning is other than ब्रह्मचारिन् this suffix
will not be added and the form would be वर्णवान् ।
For the meaning of प्रशस्ति Cf. "स्मरणं कीर्त्तनं केलिः
( १३८ )
प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।" एतदष्टविधमैथुनाभावः
प्रशस्तः । ' साधो—साध्नोति परेषां कार्याणि इति साधुः, तस्य
सम्बोधने साधो ( सज्जन ) O one who accomplishes
another's business O sage; noble sir Voc. sing
of साधु कुतूहलं—Curiosity to know about the bride-
groom desired by Parvati निबोध—जानीहि you may
hear or know यदर्थं यस्मै इति यदर्थं for whom. The com-
pound with अर्थ is a नित्यसमास and takes the gender
and number of the noun it qualifies Cf. 'अर्थेन सह
नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् ।' For the meaning
of नित्यसमास ( अविग्रहो नित्यसमासः अस्वपदविग्रहो वा ) see
notes on क्रियार्थं in verse 33 above. अम्भोजं—अम्भसि
( जले ) जात इति अम्भोजं a lotus Synonyms of अम्भोज
may be had by adding ज to word meaning water.
उष्णवारणं—उष्णस्य वारणं उष्णवारणम् ( छत्रम् ) warding
off the sun ; an umbrella. तपःसाधनं—तपसः साधनं
तपःसाधन a means of practising religious austerities
Just as people use a lotus leaf for warding off the
sun so did Parvati employ her body to practise
penance 52
CHANGE OF VOICE:—तदीयया सख्या स वर्णी ऊचे, (हे)
साधो, चेत् तव कुतूहलं ( तर्हि त्वया ) निबुध्यताम्, एषा यदर्थं
अम्भोजं उष्णवारणमिव वपुः तपःसाधनं कृतवती ॥ ५२ ॥
HINDI TRANSLATION :—उसकी सहेली उस ब्रह्मचारी से
बोली—( हे ) साधु, यदि तुम्हें उत्सुकता हो तो सुनो (या
( १३६ )
जानो ) जिस लिये इसने ( अपने ) शरीर को ( उसी प्रकार )
तप करने का साधन बनाया है जिस प्रकार कमल धूप दूर करने
के लिये बनाया जाता है ॥ ५२ ॥
ENGLISH TRANSLATION —Her friend said to the
ascetic—‘ O sage, if such be thy curiosity, thou mayst
know then, for whom this lady has made her body a
means of practising penance, as one makes a lotus ( a
means of ) warding off the sun 52
PURPORT IN SANSKRIT :—ब्राह्मणजिज्ञासां दृष्ट्वा तस्या
वयस्या ब्राह्मणं प्रत्युवाच—' हे महाशय, यदि ते महती जिज्ञासा
तर्हि मया कथ्यमानं तत्प्रयोजनं शृणु यदर्थे अनया स्वशरीरं तथैव
शीतातपादिसहने नियुक्तं यथा कश्चित्पुरुषस्तापदूरीकरणाय कमल-
दलमेकं प्रयुङ्क्ते ॥ ५२ ॥
इयं महेन्द्रप्रभृतीन्निधिश्रिय-
श्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्
पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ५३ ॥
‘दृङ्मनःसङ्गसंकल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद-
मूर्छान्ता इत्यनङ्गदशा दश ।’ इति । तत्रास्याः काश्चिद्दशाः क्रम-
मनादृत्यैव योजयति—इयमित्यादिभिः षड्भिःश्लोकै —
इयमिति । मानिनी इन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्य-
भिमानवती इयं पार्वती अधिश्रियः अधिकैश्वर्यान् महेन्द्रप्रभृतीन्
इन्द्रादींश्चतसृणां दिशामीशान् चतुर्दिगीशान् इन्द्रवरुणयम-
कुबेरान् । ‘तद्धितार्थ’—इत्यादिनोत्तरपदसमासः । अवमत्य
( १४० )
अवधूय मदनस्य निग्रहात् निर्वहणाद्धेतोः । अकामुकत्वादित्यर्थः ।
रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीति अरूपहर्यं पिनाकः
पाणौ यस्य तं पिनाकपाणि हरम् । ' प्रहरणार्थेभ्यः परे निष्ठा-
सप्तम्यौ भवतः ' इति साधु । पति भर्तारं आप्तुं इच्छति । एनेन
संकल्पावस्था सूचिता ॥ ५३ ॥
PROSE ORDER :—मानिनी इयं अधिश्रियः महेन्द्रप्रभृतीन्
चतुर्दिगीशान् अवमन्य मदनस्य निग्रहात् अरूपहार्यं पिनाकपाणिं
पतिं आप्तुं इच्छति ॥ ५३ ॥
NOTES :—मानिनी—( मान + इनिः + ङीप् ) मानोऽस्या
अस्तीति मानिना ( अभिमानवती ) a high-minded lady.
अधिश्रियःअधिका श्री. (ऐश्वर्यं) येषां ते, अधिगता वा श्रीः यैस्ते,
तान् अधिश्रियः pre-eminently rich Acc. plural, Adjec-
tive of चतुर्दिगीशान् । महेन्द्रप्रभृतीन्—महाञ्चासौइन्द्रः, महेन्द्रः,
महेन्द्रः प्रभृतिः (आदि ) येषां ते महेन्द्रप्रभृतयः, तान् महेन्द्रप्रभृतीन्
the great Indra and others चतुर्दिगीशान्—( चतुर्दिक् +
ईशान् ) चतसृणां दिशां समाहारः चतुर्दिक, तस्य ईशान्, Or
simply चतसृणां दिशां ईशाः ( स्वामिनः) चतुर्दिगीशाः, तान्
the lords of all the four quarters. Indra, Varuna,
Yama and Kubera are the lords of east, west, south
and north respectively. The compound is an उत्तर-
पदसमास by ‘ तद्धितार्थोत्तरपदसमाहारे च ’ पा० २.१.५१ ।
i. e., words denoting a cardinal point or numerals
may be compounded with any other noun when a
Taddhita termination is to be affixed to the compound
so formed, or when the compound itself becomes
( १४१ )
the first member of another compound or when the
compound forms a proper name अवमन्य—( अव +
√मन्+क्त्वा—ल्यप् ) अनादृत्य having disdained, not
attaching any importance to them. मदनस्य—of Cupid.
निग्रहात्—दण्डनात् by his punishing or destroying
( Cupid ) अरूपहार्यम्--( √हृ+ण्यत् ) हर्तुं शक्यो हार्यः
रूपेण हार्यः रूपहार्यः, न रूपहार्यः अरूपहार्यः तम् who cannot
be conquered by means of beauty When Shiva could
not be allured by Cupid, it is quite appropriate to
say that he could not be conquered by physical
charms This was the reason why Parvati wanted to
win him over by the power of penance पिनाकपाणिम्—
पिनाकः (धनुर्विशेषः ) पाणौ यस्य स पिनाकपाणि ( शिवः ) तं
who holds Pinàka in his hand, i e, Shiva Pinàka is
the proper name of Shiva's bow 'पिनाकोऽस्त्री रुद्रचापे
पांसुवर्षत्रिशूलयोः' इति मेदिनी । The Locatnee of पाणि is
made the second member, instead of the first, of the
compound by 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' । आप्तुं—अधि-
गन्तुं to obtain.
In this and the following five verses the poet
has described some of the ten states of Pàrvati
to which she was subjected because of her attach-
ment for Shiva. These states are known as अनङ्ग-
दशाः i. e, the various states of a person's mind and
body when he is in love with somebody. They
are—'दृङ्मनःसङ्गसङ्कल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद-
कु० सं०—११
( १४२ )
मूर्च्छान्ता इत्यनङ्गदशाः दश ॥' In this verse Parvati's
सङ्कल्प i. e., determination to obtain Shiva has been
suggested. 53.
CHANGE OF VOICE:—मानिन्या अनया अधिश्रियः
महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य निग्रहात् अरू-
पहार्यः पिनाकपाणिः पतिः आप्तुं इष्यते ॥ ५३ ॥
HINDI TRANSLATION :—अभिमान वाली यह (पार्वती)
अत्यधिक ऐश्वर्यशाली इन्द्रादि चारों दिशाओं के स्वामियों का
अपमान करके, कामदेव को जलाने के कारण सुन्दरता से वश
में न होने वाले (जाने गये) महादेव को पति (रूप में) प्राप्त
करना चाहती है ॥ ५३ ॥
ENGLISH TRANSLATION :—This high-minded lady,
disdaining the lords of the four quarters, the great
Indra and others, highly refulgent, seeks to obtain as
her husband the holder of the Pináka bow (i. e.,
Shiva) who is not to be conquered by beauty (as is
evident) by his destruction of Cupid. 53
PURPORT IN SANSKRIT :—पर्वतराजस्य पुत्री गौरी
इन्द्रादिषु देवेषु कमपि परीतुं न शक्नोति स्म, परमभिमानवती सा
शिवं तेभ्योऽधिकं मन्यमाना ऐश्वर्यशालिन इन्द्रादीन् दिशामीशान्
तिरस्कृत्य सर्वेषामधिपतिं शिवमेव स्वस्वामिनं कर्तुं कामयते,
यो हि शिवः केनापि सौन्दर्येण वशीकर्त्तुमशक्यो यतः सोऽनुपम-
सौन्दर्यशालिनं काममपि भस्मसात् कृतवान् ॥ ५३ ॥
असह्यहुँकारनिवर्त्तितः पुरा
पुरारिप्राप्तमुखः शिलीमुखः ।
( १४३ )
इमां हृदि व्यायतपातमक्षिणो-
द्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५४ ॥
असह्येति । पुरा पूर्वं असह्यहुंकारनिवर्तितः असह्येन सोढु-
मशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरं अप्रा-
प्तमुखः अप्राप्तफलः विशीर्णमूर्त्ते नष्टशरीरस्य अपि पुष्पधन्वनः
कामस्य शिलीमुखः बाणः इमां पार्वतीं हृदि व्यायतपातं व्यायतः ।
सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन् कर्मणि
तत्तथा अक्षिणोत् अकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । ' मृदुः
सर्वत्र बाध्यते ' इति भावः । अनेन ' विवृण्वती शैलसुतापि
भावम् ' ( ३।६८ ) इत्यत्रोक्तं चक्षुः प्रीतिमनःसङ्गाख्यमवस्थाद्वय-
मनन्तरावस्थोपयोगितयानूद्य कार्श्यावस्था सूचिता ॥ ५४ ॥
PROSE ORDER :—पुरा विशीर्णमूर्त्तेः अपि पुष्पधन्वनः
शिलीमुखः असह्यहुङ्कारनिवर्तितः पुरारिं अप्राप्तमुखः इमां हृदि
व्यायतपातं अक्षिणोत् ॥ ५४ ॥
NOTES :—पुरा—पूर्वं formerly This refers to the
time when Cupid vainly tried to allure Shiva and
was ultimately reduced to ashes by him. विशीर्ण-
मूर्त्तेः—( वि+√शॄ+क्तः ) विशीर्णा ( नष्टा ) मूर्त्तिः यस्य स
विशीर्णमूर्त्तिः, तस्य विशीर्णमूर्त्तेः whose body had been
destroyed For विशीर्ण, see notes on this word in
verse 28 above. अपि—still, i. e., though Cupid had
been physically destroyed, his arrow could still
work. पुष्पधन्वनः—( पुष्प+धनुष्+अनङ् ) पुष्पाण्येव धनु-
र्यस्य स पुष्पधन् नः Cf. the Flower-
bowed ; whos of flowers. It is a
( १४४ )
name of the god of love The word धनुष् at the
end of a Bahuvrīhi compound becomes धन्वन् by
the addition of अनङ् by 'धनुषश्च' पा० ५ ४ १३२,
when the compound is a noun the change is
optional, hence its another form is पुष्पधनु । शिली-
मुखः-शिली ( शल्यं ) मुखे यस्य स शिलीमुखः ( बाणः ) an
arrow. It also means 'a black bee' 'अलिबाणौ शिली-
मुखौ' इत्यमर । असह्यहुङ्कारनिवर्तितः । असह्य -(√सह्+यत्)
सोढुं योग्यं सह्यं न सह्यं असह्यं which can not be borne
हुङ्कारः-the sound hum ( हुं ) expressive of menace
or contempt According to some Humkāra is the
weapon of Shiva as Rudra. असह्येन हुङ्कारेण निवर्तितः
असह्यहुङ्कारनिवर्तितः hurled back with the Humkāra
sound. पुरारिं-पुराणां ( दैत्यनगराणां ) अरिं पुरारिम् ( शिवं )
the enemy of the cities, i e Shiva Shiva is known
as पुरारि and त्रिपुरारि because he destroyed the
three cities made of gold, silver and iron, in the
sky, the ethereal region and on earth by the
demon Maya and presided over by himself, Vidyun-
màlı and Tàrakásura अप्राप्तमुखः-अप्राप्तं मुखं ( बाणाग्रं
फलकं ) यस्य सः whose point did not reach ( Shiva ),
because it was returned on its way. इमाम्-पार्वतीम् ।
while Shiva remained invincible, Parvati fell a
victim to the arrows of Cupid. व्यायतपातम्-( वि+
आ+√यम्+क्तः=व्यायतः । √पत्+घञ्=पातः) विशेषेण
आयतः व्यायतः ( अति तीव्रः; दीर्घः ) पातः ( प्रहारः ) यस्मिन्
( १४५ )
कर्मणि यथा भवति तथा व्यायतपातम् with a cruel blow ; so
as to make a deep wound An Adverb to अक्षिपोत्
—विव्याध struck. Imperfect ( लङ् ) of √क्षि
हिंसायाम् ।
In this verse the three states, viz, दृक्सङ्ग
(attachment through eyes ), मनःसङ्ग ( attachment
through mind ) and कृशता (leanness ) of Parvati
have been suggested by the poet. 54
CHANGE OF VOICE :—पुरा विशीर्णमूर्त्तेः अपि पुष्पधन्वनः
शितामुखेन असह्यहुङ्कारनिवर्तितेन पुरारिं अप्राप्तमुखेन इयं हृदि
व्यायतपातं अक्षीयत ॥ ५४ ॥
HINDI TRANSLATION :—पहिले समय में नष्ट शरीर वाले
भी पुष्प के धनुष वाले (कामदेव) के बाण ने, जो कि (शिव
का) न सहने योग्य हुङ्कार से लौटा दिया गया था और महादेव
तक जिसकी नोक नहीं पहुँच पायी थी, इसके हृदय में गहरा घाव
कर दिया ॥ ५४ ॥
ENGLISH TRANSLATION —Formerly, although his
body had been destroyed, the arrow of the Flower-
bowed (i. e., Cupid) which was hurled back with the
Hunkara sound, difficult to be borne (and) whose point
failed to reach the enemy of the cities (i. e., Shiva),
struck her in the heart with a cruel blow. 54
PURPORT IN SANSKRIT —पूर्वस्मिन् काले कन्दर्प शिवं
विजेतुं तस्योपरि स्वबाणममुञ्चत् परं स बाणस्तेन गम्भीरेण
हुंशब्देन परावर्तितः कामश्च दग्धः, ततो नष्टस्यापि कामस्य
बाणः कोमलहृदयामिमां पार्वतीं हृदयेऽतितीव्रतया विव्याध ।
( १४८ )
This verse suggests Parvati's अरति ( indifference
towards worldly pleasures ) or सज्वर ( fever caused by
passion ) 55
CHANGE OF VOICE :—तदा प्रभृति पितुः गृहे उन्मदनया
ललाटिकाचन्दनधूसरालकाया बालया तुषारसंघातशिलातलेष्वपि
जातु निर्वृति न लभ्यते स्म ॥ ५५ ॥
HINDI TRANSLATION .—तभी से लेकर पिता के घर
में उत्कट काम वाली, माथे के तिलक के चन्दन से सफ़ेद
बालों वाली वह युवती बर्फ़ की चट्टानो पर भी सुख न पाती
थी ॥ ५५ ॥
ENGLISH TRANSLATION .—Since then the maiden,
whose passion had been greatly excited, ( and ) whose
curling tresses were whitened by the sandal applied
as a mark on the forehead, never felt at ease even when
reclining on the surfaces of snow-slabs while in her
father's house 55
PURPORT IN SANSKRIT .—तस्मादेव कालात् शिवप्राप्त्यै
समुत्सुका कामेनातितरां पीडिता पार्वती स्वजनकस्य हिमाल-
यस्यापि शीतप्रधाने भवने शान्ति नालभत , हिमशिलासु शयन-
मपि तद्दाहं शमयितुं नाशक्नोत् । तापशान्तये तस्याः मस्तके लिप्तं
चन्दनञ्च क्षणादेव शुष्कं सत् तत्केशान् धूसरवर्णान् अकरोत् ।
गौरी नितरां कामपीडितासीत् तस्यास्तापशान्त्यै कृताश्चन्दनलेपा-
दिरूपा उपचारा व्यर्था एवाभवन् इति भावः ॥ ५५ ॥
उपात्तवर्णे चरिते पिनाकिनः
सबाष्पकण्ठस्खलितैः पदैरियम् ।
( १४६ )
अनेकशः किंनरराजकन्यका
वनान्तसंगीतसखीररोदयत् ॥ ५६ ॥
उपात्तेत्ति । इयं पिनाकिनः शंभोः चरिते त्रिपुरविजयादिवेष्टिते
उपात्तवर्णे प्रारब्धगीतक्रमे । ' गीतक्रमे स्तुतौ वेदे वर्णशब्दः
प्रयुज्यते ' इति हलायुधः । सवाष्पकण्ठस्खलितैः सबाष्पे गद्गदे
कण्ठे स्खलितैः विशीर्णैः पदैः सुप्तिङन्तरूपैः । करणैः वनान्तसंगीत-
सखीः वनान्ते संगीतेन निमित्तेन सखीर्वयस्याः किन्नरराजकन्यकाः
अनेकशः बहुशः अरोदयत् अश्रुमोक्षमकारयत् । हरचरितगान-
जनितमदनवेदनैनां वीक्ष्य किंनर्योऽपि रुरुदुरिति भावः । अत्र
वर्णस्खलनलक्षणकार्यैक्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्था-
प्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्था-
पक्षे तु प्रलापावस्था व्यज्यते । प्रलापो गुणकीर्त्तनम् ' इत्या-
लंकारिकाः ॥ ५६ ॥
PROSE ORDER :—इयं पिनाकिनः चरिते उपात्तवर्णो ( सति )
सबाष्पकण्ठस्खलितैः पदैः वनान्तसंगीतसखीः किन्नरराजकन्यकाः
अनेकशः अरोदयत् ॥ ५६ ॥
NOTES :—पिनाकिनः—( पिनाक + इनि ) पिनाकः अस्या-
स्तीति पिनाकिन्, तस्य पिनाकिनः of the wielder of the
Pinaka See notes on पिनाकपाणि in verse 53 पिनाकिनः
चरिते the exploits of the Pinaka-holder (i. e., Shiva)
such as the destruction of the three cities of demons
etc उपात्तवर्णे । उपात्तः—( उप+आ+√दा+क्त =उपात्तः )
गृहीतः, आरब्धः begun. Past part of √ दा with आ ' to
take ' वर्णः—गीतक्रमः letters; the arrangement of
words in a song ' शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे
( १५० )
तथा । गीतिक्रमे स्तुतौ वेषे वर्णशब्द प्रयुज्यते । ' इति हलायुधः ।
उपात्तं वर्णः यस्मिन् स उपात्तवर्णः, तस्मिन् begun to be
sung in due order. After this सति is understood.
सबाष्पकण्ठस्खलितैः—बाष्पेण सह वर्त्तमानः सबाष्पः ( गद्गदः )
सबाष्पे कण्ठे स्खलितैः ( अस्पष्टोच्चारितैः ) सबाष्पकण्ठस्खलितैः
faltering ( i e., inarticulate ) in the throat choking
with tears. Evidently Parvati was moved while
singing the heroic feats of Shiva पदैः—by her words.
वनान्तसंगीतसखीः—वनान्ते ( वनप्रदेशे ) संगीते संगीतेन वा
सख्यः वनान्तसंगीतसख्यः, ताः वनान्तसंगीतसखीः ( Acc.
plural ) Companions in the songs sung in the forest
plots संगीत is Past part. from √ गै to sing गै is
changed to गी by 'घुमास्थागापाजहातिसां हलि' पा० ६ ४.६६ ।
किन्नरराजकन्यकाः—किन्नराणां राजा किन्नरराज., किन्नरराजस्य
कन्यकाः किन्नरराजकन्यका, ताः ( Acc. plural ) the daugh-
ters of the Kinnara king किन्नर s in later mythology
are reckoned among the Gandharvas or celestial
choristers and celebrated as musicians In कन्यकाः
( कन्या+कन् ) the कन् suffix is in स्वार्थे ( i e ; its
presence does not cause any change in the meaning
of the word ), so कन्या. एव कन्यकाः । Parvati, being
herself a princess could make friends only with
princesses. अनेकशः—एकं एकं इति एकशः ( एक+शस् ) ; न
एकशः अनेकशः ( बहुश. ) many a time ; in numbers. शस्
is added to numerals when repetition is made by
‘संख्याकवचनाच्च वीप्सायाम्’ पा० ५.४.४३.। अरोदयत्—(√ रुद्
( १५१ )
णिच्+लङ् ) made them weep. Causal Imperfect of
√रुद् ।
In this verse there is a reference to मूर्च्छावस्था
( the state of being unconscious ) or, according to
others प्रलापावस्था ( i. e., singing in praise of one's
beloved ). 56.
CHANGE OF VOICE :—अनया पिनाकिनः चरिते उपात्त-
वर्णे सबाष्पकण्ठस्खलितैः पदैः वनान्तसंगीतसख्यः किन्नरराज-
कन्यकाः अरोद्यन्त ॥ ५६ ॥
HINDI TRANSLATION :—महादेव की वीरता के गीतो के
गाने पर यह अश्रुसहित ( गद्गद ) कण्ठ से अस्पष्ट निकलने
वाले शब्दों के द्वारा वन प्रदेश में साथ गाने वाली अपनी
सहेलियों, किन्नर राजाओं की कन्याओं को बार बार रुलाती
थी ॥ ५६ ॥
ENGLISH TRANSLATION :—She made ˙many a time
the daughters of the Kinnara kings, her companions
in the music ( sung ) in the woods, burst into tears, by
her words, faltering in the throat choking with tears,
while the exploits of the Pinaka-holder were being
sung 56
PURPORT IN SANSKRIT :—शिवप्रीतिमग्ना पार्वती वन-
प्रदेशेषु गत्वा शिवस्तुतिगीतान्यगायत् , परं मध्य एव शिवविषयक-
भावेनाभिभूता गद्गदकण्ठाभूत् गातुञ्चासमर्था अश्रुपूर्णनेत्रावर्तत ।
तस्या इमां करुणां दशाञ्चावलोक्य किन्नराणां राजपुत्र्यस्तत्सख्योऽ-
त्यन्तं अरोदिषुः ॥ ५६ ॥
( १५२ )
त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्यलक्ष्यवा-
गसत्यकण्ठार्पित बाहुबन्धना ॥ ५७ ॥
त्रिभागेति । च कि च इति चार्थः । त्रिभागशेषासु शिष्यते इति
शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्य शेषास्ववशिष्टासु । यद्वा
रात्रेस्त्रियामत्वेन प्रसिद्धत्वात् तृतीयो भागस्त्रिभागः संख्या शब्दस्य
वृत्तिविषये पूरणार्थत्वमिष्यते । यथा शतांशः सहस्रांश इति ।
त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य
मीलयित्वा सहसा सद्यः हे नीलकण्ठ क्व व्रजसि कुत्र गच्छसीति
अलक्ष्यवाक् अलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता ।
तथा असत्यकण्ठार्पितबाहुबन्धना असत्ये मिथ्याभूते कण्ठे अर्पित
बाहुबन्धन यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन
जागरोन्मादौ सूचितौ ॥ ५७ ॥
PROSE ORDER :-( किं ) च त्रिभागशेषासु निशासु क्षणं
नेत्रे निमील्य सहसा ( हे ) नीलकण्ठ, क्व व्रजसि इति अलक्ष्यवाक्
असत्यकण्ठार्पितबाहुबन्धना व्यबुध्यत ॥ ५७ ॥
NOTES :-त्रिभागशेषासु—शिष्यते इति शेषः ( √शिष् +
घञ् ) what is left The comp. त्रिभागशेषासु may be
expounded and interpreted in two different ways.
( i ) त्रिभ्यो भागेभ्यः शेषासु त्रिभागशेषासु ( उत्तरपदे द्विगुः )
what was left of nights after their three parts had
passed, i. e. during the fourth part of the
night. In this case the night is divided into four