सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( ६५ )
a guide only for ordinary people but for ascetics also.
उपदेशतां—( उप + √दिश् + घञ् + ता ) उपदिश्यते अनेन इति
उपदेशः, तस्य भावः उपदेशता, तां the state of a precept or
rule 36
CHANGE OF VOICE — ( हे ) पार्वति, रूपेण पापवृत्तये न
( भूयते इति ) यद् ( जनाः ) ब्रुवन्ति तेन वचसा अव्यभिचारिणा
( भूयते ), यथा हि ( हे ) उदारदर्शने, ते शीलेन तपस्विनां अपि
उपदेशता गता ॥ ३६ ॥
HINDI TRANSLATION :—हे पार्वति, यह जो कहा जाता
है कि सुन्दरता पापाचरण का कारण नहीं होती, सत्य है, क्योकि
हे सुन्दरि, तुम्हारा आचरण तपस्वियों को भी शिक्षा देने
वाला है ॥ ३६ ॥
ENGLISH TRANSLATION .—O Parvati, the saying that
beauty does not lead to a sinful course of life is not
false, since, O thou of noble form, thy conduct has be-
come as model even for the ascetics 36
PURPORT IN SANSKRIT :—‘ हे पार्वति ’ ‘ न सौन्दर्य
पापस्य कारणम्, ’ अथवा ‘ न सुरुपाः पापमाचरन्ति ’ इति कथनं
त्वां दृष्ट्वा मे सत्यमेव प्रतीयते, यतो यद्यपि त्वमत्यन्तं रूपवती तथापि
तवाचरणमीदृशं यत्तपस्विभ्योऽपि शिक्षाप्रदमस्ति । तेऽपि तव
चरित्रं दृष्ट्वा स्वानि चरित्राणि शोधयन्ति किमुत साधारण-
जनाः ? ’ ॥ ३६ ॥
विकीर्णसप्तर्षिबलिप्रहासिभि-
स्तथां न गाङ्गैः सलिलैर्दिवश्च्युतैः ।

( ६६ )
यथा त्वदीयैश्चरितैरनाविलै-
र्महीधरः पावित एष सान्वयः ॥ ३७ ॥
विकीर्णेति । एष महीधरः हिमवान् । विकीर्णसप्तर्षिबलिप्रहा-
सिभिः सप्त च ते ऋषयः । 'दिक्संख्ये संज्ञायाम्' इति समासः ।
विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः । पुष्पोपहारैः
प्रहसन्ति तैः तथोक्तैः दिवः अन्तरिक्षात् च्युतैः गाङ्गैः सलिलैः तथा
न पावितः । अनाविलै अकलुषैः त्वदीयै चरितैः यथा सान्वयः
सपुत्रपौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥
PROSE ORDER —एष महीधरः विकीर्णसप्तर्षिबलिप्रहा-
सिभिः दिवः च्युतैः गाङ्गैः सलिलैः तथा न पावितः यथा अनाविलै
त्वदीयै चरितैः सान्वयः ( पावितः ) ॥ ३७ ॥
NOTES —महीधरः—मह्याः ( भूमे ) धरः महीधरः a
mountain. धरः ( धरतीति ) is formed from √धृ ' to
support ' by adding कः by ' इगुपधज्ञाप्रीकिरः कः ' पा०
३ १.१३५ । i. e. the roots having इ, ई, उ, ऊ, ऋ, ॠ, लृ, or
ॡ for their penultimate and ज्ञा, प्री and क take क in
active voice विकीर्णसप्तर्षिबलिप्रहासिभिः । विकीर्णः—( वि
√कॄ+क्त ) पर्यस्त scattered See notes on विशीर्ण in the
Verse 28 above. सप्तर्षय.—सप्त च ते ऋषयश्च सप्तर्षय. the
seven Rishis The compound is Karmadharaya, by
' दिक्संख्ये संज्ञायाम् ' पा० २.१.६१ । meaning that names
of quarters and numerals form a Karmadharaya com-
pound with any declinable word, but only when the
whole compound is an appellation ( संज्ञा ) Here it is
the proper name of a constellation of seven stars (Ursa

( ५७ )
Major ), named after seven sages. Their names are—
1 मरीचि 2 अङ्गिरस् 3 अत्रि 4 पुलस्त्य 5 पुलह 6 क्रतु
and 7 वशिष्ठ । They reside in heaven and are often
described as taking bath and offering flowers to the
gods in the holy waters of the heavenly Ganges. Cf
‘ अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्त्तया-
मास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् । ’ रघुवंशम्
१३.५१ । बलिः—पुष्पोपहारः an offering ( of flowers ).
‘ करोपहारयोः पुंसि बलिः ’ इत्यमरः । प्रहासिभिः ( प्र + √हस् +
णिनिः ) प्रहसन्तीति i e, shining, resplendent The
flowers of offerings on account of their white colour
are poetically regarded as the smiles of the waters
of the Ganges. Some books read प्रभासिभिः and some
others प्रवाहिभिः in place of प्रहासिभिः । The former will
mean ‘resplendent’ and the latter ‘carrying’ विकीर्ण ..
प्रहासिभिः—विकीर्णैः सप्तर्षीणां बलिभिः प्रहसन्तीति विकीर्ण-
सप्तर्षिबलिप्रहासीनि, तैः which are resplendent ( lit.
laughing ) with the offerings of flowers scattered by
the seven sages. दिवः—स्वर्गात् from the heaven.
Ablative is used in the sense of अपादान ( separation ).
The waters of the holy Ganges are described in
mythological books as falling from the heaven. च्युतैः—
( √च्यु+क्तः ) पतितैः dropped. The two adjectives—
विकीर्णसप्तर्षिबलिप्रहासिभिः and दिवश्च्युतैः are meant to
indicate the holy character of the waters of the
Ganges. This makes the contrast more effective. गाङ्गैः—

( ६८ )
( गङ्गा + अण् ) गङ्गाया इमानि गाङ्गानि, तैः of the Ganges
तथा—तेन प्रकारेण in that way ; so much. पावितः—(√पू
to purify + क्त ) Passive Past Participle. पवित्रीकृतः sanc-
tified अनाविलैः—न आविलैः अनाविलैः not dirty , pure.
Adjective of त्वदीयैः चरितैः It implies that Parvati's
conduct is purer and more sanctifying than the waters
of the Ganges The suggested figure of speech is व्यति-
रेक, in which the standard of comparison is excelled
by the thing compared त्वदीयैः—( युष्मद् + छ् —ईय् ) तव
इमानि त्वदीयानि, तैः by your own The suffix छ् is
added to युष्मद् by ‘वृद्धाच्छः’ पा० ४.२.११४। and युष्म
of युष्मद् is changed to त्व by ‘प्रत्ययोत्तरपदयोश्च’ पा०
७२.९८। चरितैः—acts सान्वयः—अन्वयेन ( कुटुम्बेन ) सह
इति सान्वयः with his family This verse contains a
glowing tribute from Shiva for the righteous life of
Parvati. 37.
CHANGE OF VOICE:—एतं महीधरं विकीर्णसप्तर्षिबलि-
प्रहासीनि दिवः च्युतानि गाङ्गानि सलिलानि तथा न पूतवन्ति,
यथा अनाविलानि त्वदीयानि चरितानि सान्वयं ( पूतवन्ति )॥३७॥
HINDI TRANSLATION:—यह (हिमालय) पहाड़ सप्तर्षियों
के द्वारा दिये हुए पुष्पों के उपहार से चमकते हुए, आकाश से
गिरे हुए गङ्गा के पानी से उतना पवित्र न हुआ था, जितना तुम्हारे
पवित्र आचरण ने इसे सकुदुम्ब पवित्र कर दिया है ॥ ३७ ॥
ENGLISH TRANSLATION —This mountain ( the
Himalaya ) was not so sanctified by the waters of the
Ganges, dropping from heaven and resplendent with

( ६६ )
the offerings of flowers scattered by the seven sages
as he together with his family has been by thy pure,
acts 37
PURPORT IN SANSKRIT :—पार्वत्याश्चरित्रं प्रशंसन्पुनरप्याह
—हिमालयस्य पृष्ठे स्वर्गात् गङ्गाप्रवाहः पतति, स च स्वर्गा-
त्पतनेन सप्तर्षीणां पूजापहारपुष्पाणां संसर्गेण चातिशयेन
पावनः । परमयं हिमालया गङ्गायाः पवित्रजलैर्न तथा पवित्रीकृतो
यथेदानीं तवाकलुषैश्चरित्रैः सकुटुम्बः पवित्रीकृतः । तव चरि-
तानि पवित्रतायां तद्भाने च गङ्गाया जलान्यपि अतिशेरत इति
भावः ॥ ३७ ॥
अनेन धर्मः सविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति भाविनि ।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥
अनेनेति । हे भाविनि प्रशस्ताभिप्राये । अनेन कारणेन धर्मः
सविशेषं सातिशयं अद्य मे । त्रिवर्गसारः त्रयाणां धर्मार्थकामानां
वर्गस्त्रिवर्ग । ‘ त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ’ इत्यमरः ।
तत्र सारः श्रेष्ठः प्रतिभाति । यत् यस्मात् कारणात् मनोनिर्विष-
यार्थकामया मनसो निर्विषयार्थकामौ यस्यास्तया त्वया एकः धर्मः
एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म
एवावलम्बितः । अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत
इत्यर्थः ॥ ३८ ॥
PROSE ORDER :—(हे) भाविनि अनेन अद्य मे धर्मः

( १०० )
सविशेषं त्रिवर्गसारः प्रतिभाति, यद् मनोनिर्विषयार्थकामया त्वया
एक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥
NOTES:—भाविनि—( भाव + इनिः + ङीप् ) प्रशस्तः भावः
अभिप्रायः ) अस्या अस्तीति भाविनी, तस्याः सम्बोधने O one
of excellent or noble thoughts Some books read भामिनि
instead of भाविनि, which means a fortunate or passion-
ate woman. This being out of place भाविनि is preferable
to भामिनि। अनेन—by this, i. e. by seeing your pure
conduct सविशेषं—विशेषेण सह इति सविशेषम् particularly;
pre-eminently It is an adverb to त्रिवर्गसारः प्रतिभाति ।
त्रिवर्गसारः—त्रयाणां वर्गाणां समाहारः त्रिवर्ग ( धर्मार्थकामाः )
(द्विगुसमास ) त्रिवर्गे सारः त्रिवर्गसार the best of the group
of the three, namely धर्म (righteousness) अर्थ
(wealth) and काम (desire) त्रिवर्ग means the group of
three things and it becomes चतुर्वर्ग if the fourth,
namely मोक्ष (salvation), is added to it Cf 'त्रिवर्गो
धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः' इत्यमरः । These four things
are, according to the Hindu scriptures, the objects
to be acquired by human beings प्रतिभाति—ज्ञायते is
known, appears √भा 'to shine' means 'to appear'
when preceded by प्रति । मनोनिर्विषयार्थकामया । निर्विषयौ
—निर्गतः विषयः ययोस्तौ which are not thought about,
which are not the objects of मनसो निर्विषयौ अर्थः कामश्च
(द्वन्द्वः ) यस्याः सा मनोनिर्विषयार्थकामा, तया whose mind is
entirely free from all thoughts about अर्थ and काम ।
Parvati leading the life of an ascetic paid no heed to

( १०१ )
अर्थ and काम, but devoted herself solely to the acqui-
sition of धर्म । एक एव—i e, धर्म एव । प्रतिगृह्य—( प्रति +
√ग्रह् +ल्यप् ) स्वीकृत्य having accepted or selected. सेव्यते
—आश्रीयते is followed 38
CHANGE OF VOICE :—( हे ) भाविनि, अनेन अद्य मे धर्मेण
सविशेषं त्रिवर्गसारेण प्रतिभायते, यत् मनोनिर्विषयार्थकामा त्वं
एकं एव प्रतिगृह्य सेवसे ॥ ३८ ॥
HINDI TRANSLATION :—हे श्रेष्ठ अभिप्राय वाली, इससे तो
आज मुझे धर्म ही विशेषतया तीनो वस्तुओ ( धर्म, अर्थ, काम )
में श्रेष्ठ ज्ञात होता है, क्योंकि अर्थ और काम से रहित मन वाली
तुम ( उसी ) एक को ग्रहण कर पालती हो ॥ ३८ ॥
ENGLISH TRANSLATION —O one of noble intentions,
on account of this ( thy conduct ) Dharma strikes me
pre-eminently as the best of the group of the three
( viz., Dharma, Artha and Káma ), since this only has
been selected and followed by thee, whose mind is
free from all thoughts of Artha ( wealth ) and Káma
( desire ) 38
PURPORT IN SANSKRIT :—हे श्रेष्ठाभिप्रायवति पार्वति !
यतस्त्वं बुद्धिमती धर्मार्थकामानां वर्गे अर्थकामावनादृत्य एकं धर्म-
मेव कल्याणकरं स्वीकृत्य पालयसि अतोऽहमद्य त्वदाचरणं दृष्ट्वा
मन्ये यदेषां त्रयाणां समूहे धर्म एव श्रेष्ठतम , अर्थकामानुसारिणी
च लोकानां प्रवृत्तिरनुचिता ॥ ३८ ॥
प्रयुक्तसत्कारविशेषमात्मना
न.मां परं संप्रतिपत्तुमर्हसि ।

( १०२ )
यतः सतां संनतगात्रि संगतं
मनीषिभिः साप्तपदीनमुच्यते ॥ ३९ ॥
संप्रति मनोरथं जिज्ञासुः प्रस्तौति । प्रयुक्तेति । आत्मना त्वया
प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं प्रयुक्तसत्कारविशेषं
मां पर अन्यं संप्रतिपत्तुं अवगन्तुं न अर्हसि । हे संनतगात्रि संन-
ताङ्गि । ‘अङ्गगात्रकण्ठेभ्यः’ इति वक्तव्यान् ङीप् । यतः कारणात्
मनस ईषिभि मनीषिभिः विद्वद्भिः । शकन्ध्वादित्वात्साधु । सतां
संगत सख्यं सप्तभिः पदैः आप्यते इति साप्तपदीनं सप्तपदोच्चारण-
साध्यं उच्यते । तच्चावयोरुत्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः ।
‘साप्तपदीनं सख्यम्’ इति निपातनात्साधुः ॥ ३६ ॥
PROSE ORDER —आत्मना प्रयुक्तसत्कारविशेष मां परं
संप्रतिपत्तुं न अर्हसि, (हे) संनतगात्रि, यतः मनीषिभिः सतां सङ्गतं
साप्तपदीनं उच्यते ॥ ३६ ।
NOTES —आत्मना—स्वयं by thee thyself i e, not
through any attendant or other person प्रयुक्तसत्कार-
विशेषं—प्रयुक्तः (कृतः) सत्कारस्य विशेषो यस्मै स, तम् to
whom special hospitality has been done परं—अन्यं a
different person, a stranger संप्रतिपत्तुं—(सं प्रति+
√पद् + तुमुन्) बोद्धु to know; to regard. Infinitive
of √पद् to go, but with प्रति ‘to know.’ संनतगात्रि—सं
(सम्यङ्) नतानि गात्राणि यस्याः सा संनतगात्री, तस्याः सम्बो-
धने संनतगात्रि (सुन्दराङ्गि) having the body bent or
stooping; having rounded limbs; beautiful. ‘नतं चारु
सन्नतम्’ इति भाजः । ङीष् is added to form the feminine
by the vartika ‘अङ्गगात्रकण्ठेभ्यः वक्तव्यम्’ i e. of

( १०३ )
Bahuvrihi compounds having for their last members
अङ्ग, गात्र or कण्ठ the feminine is formed either in आ
or ई, thus the other form will be संनतागात्रा । मनीषिभिः
—( मनीषा+इनिः ) मनीषा (बुद्धि ) एषामस्तीति मनीषिणः,
तै मनीषिभिः (विद्वद्भिः) by the thoughtful; wise, or,
मनस ईषिभिः, मनीषिभिः । For synonyms of मनीषा Cf.
‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः’ इत्यमरः । The
suffix इनि is added by ‘व्रीह्यादिभ्यश्च’ पा० ५.२ ११६ ।
सतां—सज्जनानाम् of good people Genitive plu of
सत्, which is declined as, सन्, सन्तौ, सन्तः । सन्तं,
सन्तौ, सतः । सता, सद्ब्यां, सद्भिः etc सङ्गतम्—(सं+
√गम्+क्तः) सख्यम् Meeting friendship साप्तपदीनं—
(सप्तपदं+खञ्—ईन ) सप्तानां पदानां समाहारः सप्तपदं (द्विगु-
समासः ), सप्तपदेन (सप्तभिः पदैः वा ) अवाप्यने इति साप्त-
पदीनम् । the word पद has two meanings, viz ‘a word’
and ‘a footstep’, so the expression means ‘which is
formed by uttering seven words’ or ‘by walking
over seven steps together’ i e., friendship. The
word has lost the literal sense and is used for
friendship. It is irregularly formed to indicate this
meaning by साप्तपदीनं सख्यम्’ पा० ५ २ २२ । ‘सख्यं
साप्तपदीनं स्यात्’ इत्यमरः । Cf. ‘संबन्धमाभाषणपूर्वमाहुः’
रघु० २ ३५ । and ‘सतां सप्तपदा मैत्री, सत्सतां त्रिपदा स्मृता ।
सत्ततामपि ये सन्तस्तेषां मैत्री पदे पदे ।’
Shiva means to say as Parvati and he had uttered
a few words to each other they were friends and

( १०४ )
not strangers to each other, and so he was entitled
to make further enquiries about her. 39.
CHANGE OF VOICE :—आत्मना प्रयुक्तसत्कारविशेषः अहं
परः संप्रतिपत्तुं न अर्ह्ये, ( हे ) संनतगात्रि, यतः मनीषिणः सतां
सङ्गतं साप्तपदीनं ब्रुवन्ति ॥ ३६ ॥
HINDI TRANSLATION :—( तुमने ) अपने आप जिसका
विशेष आदर किया है ऐसे मुझ को कोई दूसरा (अज़नबी)
मानना योग्य नहीं है, क्योंकि, हे सुन्दरि, बुद्धिमान् लोग सज्जनो
की मित्रता को सात शब्दों के बोलने (या पैरों के चलने) से होने
वाली कहते हैं ॥ ३६ ॥
ENGLISH TRANSLATION —It does not behove thee
to regard me as a stranger, to whom special hospitality
has been accorded by thee, for, O one of stooping
body, the friendship of good people is declared by
the wise to be formed after seven words have been
exchanged between them (or, after seven steps have
been walked together) 39
PURPORT IN SANSKRIT :—हे सुन्दरि, अहमत्रागतस्त्वया
यथाविधि सत्कृतः त्वया सह मे वार्त्तालापश्च जातः, अतोऽहं
त्वदीयो जनो जातः । अधुना त्वयाहं स्वमित्रमेव मन्तव्यः, यतः
सज्जनानां मैत्री परस्परं सप्तपदोच्चारणेन सप्तपदगमनेन वा सिध्य-
तीति विद्वज्जनानां सम्मतिः । इदानीं तव मित्रत्वान्मे तव हार्दिकी-
मिच्छां ज्ञातुमधिकारोऽस्तीति भावः ॥ ३६ ॥
अतोऽत्र किञ्चिद्भवतीं बहुक्षमां
द्विजातिभावादुपपन्नचापलः ।

( १०५ )
अयं जनः प्रष्टुमनास्तपोधने
न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ४० ॥
अत इति। हे तपोधने अतः सख्याद्धेतोः अत्र प्रस्तावे बहुक्षमां
बहुक्लिमहाम् । यद्वा क्षमावतीं भवतीं त्वां द्विजातिभावाद्
ब्राह्मत्वाद् उपपन्नचापलः सुलभधाष्ट्र्यः अयं जनः । स्वयमित्यर्थः ।
किञ्चित् प्रष्टुं मनो यस्य स प्रष्टुमनाः प्रष्टुकामः । ‘तुं काममन-
सोरपि' इति मकारलोप । रहसि भवं रहस्यं गोप्यं न चेत् प्रति-
वक्तुं अर्हसि ॥ ४० ॥
PROSE ORDER :—( हे ) तपोधने, अत्र द्विजातिभावाद्
उपपन्नचापलः अयं जनः बहुक्षमां भवतीं किञ्चित् प्रष्टुमनाः (अस्ति)
चेद् रहस्यं न प्रतिवक्तुं अर्हसि ॥ ४० ॥
NOTES :—तपोधने—तप एव धनं यस्याः सा तपोधना,
सम्बोधने तपोधने, whose treasure consists of penance.
अत्र—तपःसम्बन्धे i e, with regard to your penance.
द्विजातिभावात्—(√जन्+क्तिन्=जानिः) द्वे जाती ( जन्मनी )
यस्य स द्विजातिः, तस्य भावः द्विजातिभावः, तस्मात् on account
of my being a Brahmana द्विजाति means those who
have two births viz., one from the mother and the
other from the preceptor in the form of initiation.
Hence it indicates the first three castes Cf ‘मातुर्यदग्रे
जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः
स्मृताः।’ मनु० २.१६६ । But, here it means the Brahmana
class alone. Ablative is used in the sense of cause.
Shiva means to say that Brahmanas are inquisitive
by their nature and that he was not an exception

( १०६ )
to this उपपन्नचापलः । उपपन्नं-( उप+√पद्+क्तः ) संभाव्यं;
प्राप्तम् is produced or aroused. चापलं-( चपल+अण् )
चपलस्य भावः चापलम् ( धृष्टता ) agitation, want of
patience उपपन्नं चापलं यस्य स उपपन्नचापलः i. e, who has
become curious अयं जनः- i. e, I myself बहुक्षमां-बहुः
क्षमा यस्यां सा बहुक्षमा, ताम् or बहु क्षाम्यतीति बहुक्षमा ताम्
One possessed of great forbearance, who forgives
much who is capable of bearing great hardships It
gives the reason why Shiva makes bold to make
enquiry प्रष्टुमनाः-( √प्रच्छ्+तुमुन्+मनाः ) प्रष्टुं मनो
यस्य स प्रष्टुमना desirous of asking something. The
nasal of the infinitive is dropped before काम and मनस्
by ' तुं काममनसोरपि ' । रहस्यं-( रहस्+यत् ) रहसि भवं
रहस्यं ( गोप्यं ) a secret प्रतिवक्तुं-( प्रति+√वच्+तुमुन् )
to tell me Some books read प्रतिबोधयिष्यसि ( thou
wilt kindly let me know) instead of प्रतिवक्तुमर्हसि
॥ ४० ॥
Change of Voice :-( हे ) तपोधने, अतः अत्र द्विजाति-
भावाद् उपपन्नचापलेन अनेन जनेन बहुक्षमां भवतीं किञ्चित्
प्रष्टुमनसा ( भूयते ), चेद् रहस्येन न ( भूयते ) तर्हि ( त्वया )
प्रतिवक्तुं अर्ह्यते ॥ ४० ॥
Hindi Translation :-हे तपस्विनि, इस लिये इस
( तुम्हारी तपस्या ) के बारे में, ब्राह्मण होने के कारण प्रगल्भ हुआ
यह व्यक्ति ( मैं ) अत्यन्त सहनशील आप से कुछ पूछने की इच्छा
वाला है, यदि कोई गुप्त बात न हो तो आप उत्तर देने की कृपा
करें ॥ ४० ॥

( १०७ )
ENGLISH TRANSLATION —Hence, O one whose riches
consist of penance, this I, in whom curiosity is aroused
on account of my being a Brahmana, am desirous of
asking something to thee, who is capable of great
forbearance. If it be not a secret, thou mayst kindly
give a reply 40
PURPORT IN SANSKRIT :—यतोऽहं त्वत्तोऽभिन्नः, ब्राह्मण-
त्वाच्च तव विषये ज्ञ तु मे महत्कुतूहलम्, अतोऽहं त्वां किञ्चित्प्रष्टु-
मिच्छामि । त्वया च क्रोधो न कार्यो यतस्त्वं तपस्विनी बहुतमा-
युक्ता च । हे तपस्विनि पार्वति, अधुना यद्यस्मिन् विषये किञ्चिद्
गोप्यं न भवेत् तर्हि कृपया कथनीयम् ॥ ४० ॥
कुले प्रसूतिः प्रथमस्य वेधस-
स्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्वर्यसुखं नवं वय-
स्तपः फलं स्यात्किमतः परं वद ॥ ४१ ॥
प्रष्टव्यमाह । कुल इति । प्रथमस्य वेधसः हिरण्यगर्भस्य कुले
अन्ववाये । प्रसूतिः उत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवान-
चलेश्वरः ' । इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रिलोकसौन्दर्यं
त्रयाणां लोकानां सौन्दर्यं इव उदितं एकत्र समाहृतम् । ऐश्वर्यसुखं
संपत्सुखं अमृग्यं अन्वेषणीयं न भवति । किं तु सिद्धमेवेत्यर्थः ।
वयः नवम् । यौवनमित्यर्थः अतः परं अतोऽन्यत् किं तपःफलं
स्यात् वद अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थः ॥ ४१ ॥
PROSE ORDER :—प्रथमस्य वेधसः कुले प्रसूतिः, वपुः
त्रिलोकसौन्दर्यमिव उदितम्, ऐश्वर्यसुखं अमृग्यम्, वयः नवम्,
अतः परं किं तपः फलं स्याद् इति वद् ॥ ४१ ॥

( १०८ )
NOTES :—प्रथमस्य—सर्वाद्यस्य the first or primeval.
ब्रह्मणः of Brahman , the creator or progenitor of
mankind ‘ ब्रह्मा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ’
इत्यमरः। वेधस् is declined as वेधाः वेधसौ, वेधसः । वेधसं,
वेधसौ, वेधसः । वेधसा, वेधोभ्याम् etc प्रसूतिः—birth The
mountain Himālaya, the father of Pārvatī, was
created by Brahman. Cf ‘ यज्ञार्थं हि मया सृष्टो हिमवान-
चलेश्वरः ’ quoted above by Mallīnāth त्रिलोकसौन्दर्य—
त्रयश्च ते लोकास्त्रिलोकः, तस्य सौन्दर्य त्रिलोकसौन्दर्य the
beauty of the three worlds The comp of त्रिलोक
should not be expounded as त्रयाणां लोकानां समाहारः
in which case we should expect it to be त्रिलोकी ।
सौन्दर्य—( सुन्दर+ष्यञ् ) सुन्दरस्य भावः सौन्दर्य beauty.
उदितं—( उद् +√ इ+क्तः ) उत्पन्नं manifested at one place
For the idea Cf ‘ सा निर्मिता विश्वसृजा प्रयत्नादेकस्थ-
सौन्दर्यदिदृक्षयेव ’ कुमारसम्भवम् १ ४६ । Pārvatī being
excessively handsome she has been regarded as if the
manifestation at one place of the beauty of all the
three worlds. ऐश्वर्यसुखम्—( ईश्वर+ष्यञ् ) ऐश्वर्यस्य
( सम्पत्तेः ) सुखं happiness of affluence. ऐश्वर्य means
wealth of every kind अमृग्यं—( √ मृग् to search+यत् )
न मृग्यं अमृग्यम् not to be sought for. The suffix is
added by ‘ अचो यत् ’ पा० ३ । ६७ । Pārvatī did not need
hanker after any kind of wealth for her father's
residence was the home of every sort of wealth. वयः
—age. नवं—नूतनं fresh, i. e. young age. अतः परम्—

( १०६ )
besides this—the things enumerated in the first three
lines of the verse तपः फलं—तपसः फलं the fruit of
penance
Shiva means to say that Parvati being already
in possession of all those things, namely noble birth,
excessive beauty, happiness of wealth and young
age, for the acquisition of which people generally
resort to practise penance, he failed to understand
the cause of her penance and so asked the
question 41.
CHANGE OF VOICE :—प्रथमस्य वेधसः कुले प्रसृत्या
( भूयते ), वपुषा त्रिलोकसौन्दर्येण इव उदितेन ( भूयते ), ऐश्वर्य-
सुखेन अमृग्येन ( भूयते ), वयसा नवेन ( भूयते ), अतः परं केन
तपः फलेन भूयेत इति ( त्वया ) उच्यताम् ॥ ४१ ॥
HINDI TRANSLATION :—( मनुष्य जाति के ) प्रथम
उत्पादक ब्रह्मा के वंश में ( तुम्हारा ) जन्म है, शरीर मानो तीनों
लोकों की सुन्दरता एकत्रित हो गई हो, सम्पत्ति का सुख
(तुम्हें) ढूँढना नहीं, आयु नई है, तो बताओ तो इससे बढ़ कर
और क्या तपस्या का फल हो सकता है ? ॥ ४१ ॥
ENGLISH TRANSLATION —( Thy ) birth is in the
family of Brahman, the first creator ; body is as if it
were the manifestation of the ( collected ) beauty of the
three worlds , happiness of affluence need not be
sought after ( by thee ), age is fresh Then, please
tell what else than these can be the fruit of
penance ? 41
कु० सं०—३

( ११० )
PURPORT IN SANSKRIT :— संसारे प्रायेण जनाः श्रेष्ठकुल-
जन्मार्थं, सौन्दर्यार्थं, सम्पत्त्यर्थं, यौवनार्थं वा नानाविधानि तपांसि
कुर्वन्ति, परं तानि सर्वाण्यपि ते स्वभावतः सिद्धानि—आद्यब्रह्मणः
कुले ते जन्म जातम्, तव देहस्त्रयाणामपि लोकानां एकत्रीकृतं
लावण्यमिवास्ति, तव पितुर्गृहंनस्त्रिलैश्वर्यस्य निधानम्, आयुश्च
ते नूतनम् । तर्हि त्वं किमर्थं कठिनं तप आचरसि ? त्वं बुद्धिमती
कारणं विना न तपस्यसि—तदेव कारणमहं ज्ञातुकामः ॥ ४१ ॥
भवत्यनिष्टादपि नाम दुःसहा-
न्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा
न दृश्यते तच्च कृशोदरि त्वयि ॥ ४२ ॥
भवतीति । दुःसहात् सोढुमशक्यात् अनिष्टाद् भर्त्रादिकृतात्
अपि मनस्विनीनां धीरस्त्रीणां ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः
प्रवृत्तिः । ‘ प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ’ इति
केशवः । भवति नाम । नामेति संभावनायाम् । विचारमार्गप्रहितेन
विचारमार्ग प्रहितेन चेतसा चित्तेन तद् अनिष्टं च हे कृशोदरि
त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसंभावितत्वा-
दित्यर्थः ॥ ४२ ॥
PROSE ORDER :—दुःसहाद् अनिष्टादपि मनस्विनीनां ईदृशी
प्रतिपत्तिः भवति नाम, ( परं ) ( हे ) कृशोदरि, विचारमार्गप्रहितेन
चेतसा तत् च त्वयि न दृश्यते ॥ ४२ ॥
NOTES :—दुःसहात्—( दुर्+√सह्+खल् ) दुःखेन सह्यते
इति, तस्मात् which can be borne with difficulty.
Adjective of अनिष्टात्—(√ इष्+क्तः) न इष्टात् अनिष्टात्
from an undesirable thing; an evil ; a wrong.

( १११ )
Mallinatha says भर्त्रादिकृतान् i e, done by one's hus-
band or others. मनस्विनीनां—( मनस् + विनिः + ङीप् ) प्रशस्तं
मनो विद्यते यासां ताः मनस्विन्यः, तासां, (अभिमानवतीनाम्) high-
minded or virtuous ladies ईदृशी—( इदम् + √दृश् + कञ्

  • ङीप् ) इयमिव दृश्यते इति ईदृशी such; like it. कञ् is
    added by ' त्यदादिषु दृशोऽनालोचने कञ् ' पा० ३ २. ६० ।
    प्रतिपत्तिः—( प्रति + पद् + क्तिन् ) प्रवृत्तिः a course of action ;
    inclination. ' प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ' इति
    केशवः । नाम—संभाव्यते an indeclinable used in the
    sense of possibility कृशोदरि—( कृश + उदर + ङीप् ) कृशं
    उदरं ( कटिप्रदेशः ) यस्याः सा कृशोदरी, सम्बोधने कृशोदरि O
    one of slender waist The suffix ङीप् is added option-
    ally by ' नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ' पा० ४ १ ५५ ।
    i e, a Bahuvrīhi compound ending in नासिका etc
    optionally takes ङीप् So the other form is कृशोदरा ।
    Some books give तनोदरि for कृशोदरि, It also means
    the same विचारमार्गप्रहितेन—विचारस्य मार्गे प्रहितं विचार-
    मार्गप्रहितं, तेन directed through channel of thought i e,
    after thinking चेतसा—चित्तेन by the mind. तत्—
    तदनिष्टं i e a wrong done to you त्वयि—with regard
    to you. न दृश्यते—न ज्ञायते is not known 42.
    CHANGE OF VOICE :—दुःसहाद् अनिष्टाद् अपि मनस्वि-
    नीनां ईदृश्या प्रतिपत्त्या भूयते नाम, ( हे ) कृशोदरि, विचारमार्ग-
    प्रहितं चेतः तत् च त्वयि न पश्यति ॥ ४२ ॥
    HINDI TRANSLATION :—न सहने योग्य बुराई से भी
    मानिनी स्त्रियों का ऐसा (कार्य करने को) मन का झुकाव हो

( ११२ )
सकता है, (परन्तु) हे सुन्दर कटि वाली, विचार करने वाले
मन से तुम्हारे बारे में वह भी (सम्भव) नहीं दीखता ॥ ४२ ॥
ENGLISH TRANSLATION —Such a course of action
is possible in case of high minded ladies on account
of any wrong (done to them), but, O one of slender
waist, no such wrong is known in thy case by the
mind directed through the channel of thought. 42
PURPORT IN SANSKRIT.—लोके कदाचिद् भर्त्रादिभि-
सम्बन्धिभिस्तिरस्कृताः मानिन्यो नायस्तपोऽर्जन स्वीकुर्वन्ति,
परं हे सुमध्यमे, त्वामन्तरेण तु एतदपि तपस्यायाः कारणं न
ज्ञायते ॥ ४२ ॥
अलभ्यशोकाभिभवेयमाकृति—
र्विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं
प्रसारयेत् पन्नगरत्नसूचये ॥ ४३ ॥
अनिष्टाभावमेव प्रपञ्चयति । अलभ्येति । हे सुभ्रु । इयं त्वदीया
आकृतिः मूर्त्तिः अलभ्यशोकाभिभवा अलभ्यो लब्धुमनर्हः शोकेन
भर्त्राद्यवमानजेन दुःखैनाभिभवस्तिरस्कारो यस्या सा तथोक्ता ।
दृश्यत इति शेष । असंभावितश्चायमर्थ इत्याह पितुर्गृहे विमानना
अवमानः कुतः । न संभाव्यत एवेत्यर्थः । न चाप्यन्यस्माद्वा-
बीत्याह पराभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये
फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । ‘ क्रियार्थोपपदस्य च
कर्मणि स्थानिनः ’ इति चतुर्थी । करं हस्तं कः प्रसारयेत् ।
सुभ्र इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् ‘नेयङुवङ्स्थानावस्त्री'

( ११३ )

इति नदीसंज्ञाप्रतिषेधान् ' अम्बार्थनद्योर्ह्रस्वः । इति ह्रस्वत्वं
नास्ति । तेन ह्रस्वः प्रामादिकः इति केचित् । अन्ये तु ' अप्राणि-
जातेश्चारज्ज्वादीनाम् ' इत्यत्र अलावूः कर्कन्धूः इत्युकारान्तादप्यूङ्-
प्रत्ययमुदाजहार भाष्यकार एतस्मादेव ज्ञापकात् क्वचिदूकारान्त-
स्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अत एवाह वामनः—
' ऊकारान्तादप्यूङ्प्रवृत्तेः इति । ' ' सुभ्रूः कुतस्तातगृहेऽवमाननम् '
इति पाठान्तरकरणं तु साहसमेवात्रोपपत्तिसम्भवात् । अन्यत्रापि
' सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम् ' इत्यादि-
प्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः
॥ ४३ ॥
PROSE ORDER :—(हे) सुभ्रु, इयं आकृतिः अलभ्यशोका-
भिभवा, (किञ्च) पितुः गृहे विमानना कुतः, तव पराभिमर्शः न
अस्ति, कः पन्नगरत्नसूचये करं प्रसारयेत् ? ॥ ४३ ॥
NOTES :—सुभ्रु—शोभने भ्रुवौ यस्याः सा सुभ्रू, तस्याः
सम्बोधने O thou of beautiful eye-brows According
to the author of Siddhántakaumudi the Vocative sin-
gular of सुभ्रू should be सुभ्रूः and not सुभ्रु as given here,
because the long ऊ is shortened in Voc sing of only
those words which are termed as नदीसंज्ञक ( i. e, the
words of feminine gender ending in long ई or ऊ ) by
'अम्बार्थनद्योर्ह्रस्वः' पा० ७ ३ ।१०७। i e, the words meaning
' mother ' and नदीसंज्ञक are shortened in the Voc.
sing, and as the word सुभ्रू is not termed as such
because of the rule ' नेयङुवङ्स्थानावस्त्री ' पा० १.४.४ ।
which means that the words of which ई or ऊ are
replaced by इयङ् or उवङ्, with the exception of स्त्री

( ११४ )
are not termed as नदी, its ऊ should not have been
shortened But Mallinatha defends it by saying that
according to the Bhashyakara (Patanjali) the shorten-
ing of the final vowel may be allowed in rare cases,
for in his commentary on ‘अप्राणिजातेश्चारज्जवादीनामुप-
संख्यानम्’ he has given the instance of अलाबु, कर्कन्धू।
thereby indicating that sometimes ऊकारान्त words
may take ऊङ् and be नदीसंज्ञक so that they can shorten
their vowel in the Voc sing Vamana also supports
this view by saying ‘ऊकारान्तादप्यूङ्प्रवृत्तेः’ Thus ऊङ्
will be added to सुभ्रू and then its ऊ not being replaced
by उवङ् it will be termed as नदी, which means it will
be shortened in Voc sing Other poets also have used
it in short उ, for instance Cf ‘सुभ्रु त्वं कुपितेत्यपास्त-
मशनं०’ quoted by Mallinatha इय—this, i e, yours.
अलभ्यशोकाभिभवा—(√लभ्+यत्) न लभ्यो शोकश्च अभि-
भवश्च (तिरस्कारश्च) यया सा अलभ्यशोकाभिभवा which is
incapable of grief and humiliation Or, न लभ्यः शोकेन
अभिभवो यया सा which is incapable of the humiliation
of grief It is a supposition that beautiful persons can
not be subject to misery विमानना—(√मान्+युच्)
अपमानः insult, disrespectful treatment. In कुतः (किम्
+तसिल्) किम् is changed to कु by ‘कु तिहोः पा०
७.२.१४। परामर्शः—(√मृश् to touch+घञ्) परेण अभि-
मर्शः परामर्शः being touched or outraged by others.
पन्नगरत्नसूचये। पन्नगः—(पन्न+√गम्+डः) पन्नं गच्छतीति