सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 118, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 118

( ६६ )
the offerings of flowers scattered by the seven sages
as he together with his family has been by thy pure,
acts 37
PURPORT IN SANSKRIT :—पार्वत्याश्चरित्रं प्रशंसन्पुनरप्याह
—हिमालयस्य पृष्ठे स्वर्गात् गङ्गाप्रवाहः पतति, स च स्वर्गा-
त्पतनेन सप्तर्षीणां पूजापहारपुष्पाणां संसर्गेण चातिशयेन
पावनः । परमयं हिमालया गङ्गायाः पवित्रजलैर्न तथा पवित्रीकृतो
यथेदानीं तवाकलुषैश्चरित्रैः सकुटुम्बः पवित्रीकृतः । तव चरि-
तानि पवित्रतायां तद्भाने च गङ्गाया जलान्यपि अतिशेरत इति
भावः ॥ ३७ ॥
अनेन धर्मः सविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति भाविनि ।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥
अनेनेति । हे भाविनि प्रशस्ताभिप्राये । अनेन कारणेन धर्मः
सविशेषं सातिशयं अद्य मे । त्रिवर्गसारः त्रयाणां धर्मार्थकामानां
वर्गस्त्रिवर्ग । ‘ त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ’ इत्यमरः ।
तत्र सारः श्रेष्ठः प्रतिभाति । यत् यस्मात् कारणात् मनोनिर्विष-
यार्थकामया मनसो निर्विषयार्थकामौ यस्यास्तया त्वया एकः धर्मः
एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म
एवावलम्बितः । अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत
इत्यर्थः ॥ ३८ ॥
PROSE ORDER :—(हे) भाविनि अनेन अद्य मे धर्मः