सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

९ पाकलाध्यायः ] हस्त्यायुर्वेदः । ६१
व्यायामव्यवायप्रवातोष्णस्थानशयनपरिसरणचेष्टारतः, तस्य वातपित्ते प्रकुपिते
हृदयमुपेत्यागम्य हढमुद्वान्तं पकलं नाम पाकलमभिनिर्वर्तयतः ॥
स तेनाऽऽविष्ट आटोपितकरनयनकर्णवालधिर्मुहुर्मुहुः कर्णौ स्फोटयति निश्च-
सिति विजृम्भते संवीजते । सगदे विक्षिपति संरमते गुडुगुडायते, अश्रूणि मुञ्चति
कवलाभिनन्दी भवति । तं पुनर्निरुत्स्मर्त पुनर्भक्षयितुमिच्छति । तं पुनरुत्सृजति
(क्रुध्यति विक्कूजति) विधुनोति शरीरम्, प्राकारगृहतरुवृक्षकपाटकुड्यवल्मीक-
स्तम्भादीन्हन्तुमिच्छति, पुरुषपशुहयरथगजयानशकटदीनि च । विशेषतश्च
वैद्यमभिक्रुध्यति । यन्तृपरिकर्मभिश्च नियन्तुं शक्यते वाग्दण्डाङ्कुशप्रतोदै-
र्निर्भर्त्सनैः । पकल इति कोपः । तेनोपसृष्ट इति पर्कलसमेतैर्लिङ्गैरुपलभ्य
पकलपाकलं चिकित्सितुमुपक्रमेत त्वरमाणः ॥
पयः पञ्चमूलशृतमुपाहृत्य सुखोष्णं बदरमिश्रं सलवणं पाययेत् । अथवा
वचाबिल्वजशृङ्गीभ्यां वराहवसाया सह शृतं पयः सौवर्चलेन कपालभृ-
ष्टेन सह संयोज्य पाययेत् । अथवा मूर्वापिचुमन्दगवाक्षीगिरिकर्णिकामू-
लानि बाह्लीहरीतकीकपित्थेन च संक्षुद्य पयसाऽऽलोड्य सह तिलचू-
र्णेन पाययेत् । अथवा-सप्तकृत्वो भृष्टान्यष्टौ लवणानि सामुद्रबिडसै-
न्धवसौवर्चलौद्भिदयवक्षारारामकघटीलवणानि सूक्ष्मचूर्णानि कृत्वा प्रसन्ना
सह संयोज्य पाययेत् । आध्मातं शोणितमेहनमतिजातं कृच्छ्रमुत्रिणं
चैतेन योगेन चिकित्सयेत् । दन्त्यामलकगवाक्षिकाकालातृवृच्छृङ्गिनी-
नीलिकाफलपिप्पलीः संक्षुद्य गोमूत्रे रात्रि build [L20 continued: पर्युषितं पाययेत् । ततः]
पीतैव सपुरीषे वातपित्ते निरूहति । विरक्तं चैनं कालाविदारीसुग्हा-
गोलोमीक्वाथेन स्वेदयेत् । नीपश्वेताकिर्णिहीनैलसुरसावंशाङ्कर्णाणां पत्राणि यव-
कोलकुलत्थनिष्पावाढकीसणमूलकबीजानि + दधिनि शिशिरे जले निष्क्वाथ्य
ससौवर्चलेनाऽऽस्थापनं विधिवद्दद्यात् । अथ वा दधि लवणमधुमधूकपयस्याम-
त्स्यवसाभिः शृताभिरास्थापयेत् । ततः प्रत्यागतास्थापनमपहृतदोषगुप्तमुष्णे-
नैव वारिणा पानपरिवेकैरुपचरेत् । ततस्तं घृतेनाभ्यंज्य कुक्कुटान्कदलीक-
न्दकैः सह प्रसाध्य पृष्ठं मन्ये च स्वेदयेन्नागस्य । मुस्तामरिचदेवदारुविडङ्गा-

  • 'दधनि' इति तूचितम् ।
    १ क. °मुपग° । २ क. ख. °निर्वतयतः । ३ क संसरन्तो गुड्गु° । ४ क.
    तं तु न निर° । ५ क. °कुड्यं च व° । ६ क. °तोदेन नि° । ७ ख. °लः । तमे°।
    ८ क. ख. °त्सृष्ट° । ९ क. ख. सृतं । १० क. °ध्मानशोणितं मे° । ११ क.
    विचित्सयेत् । १२ ग. °णिहिङ्गल° । १३ क. मृताभि° ।

जङ्गैर्ऋद्भिः सह पयः शृतशीतं त्रिवृच्चित्रककल्कसंयुक्तं पाययेदामाशयविशुद्ध्य-
र्थम् । अथवा गोपगुन्द्रामेषशृङ्गीनिम्बत्वग्गोमतीत्रिवृद्द्विकडूचित्रकैः पयः साध-
यित्वा पायितो नागो विशुद्धकोष्ठो भवति । अथवा सूक्ष्मैलासर्षपफणिज्जकक-
ट्फललशुनविडङ्गमरिचवचापटोलक्षुद्रमत्स्यपिप्पलीकुलत्थकुक्कुटाण्डादीनां
निर्यूहं पादावशिष्टमवतार्य परिस्राव्य पुनर्महिषमांसवसास्थूलाद्यैः सह विपाच्य
पाययेद्भोजयेच्च वारणम् । भूयश्च शतपत्रैर्विदुलामलकोदुम्बरशमीजम्बुकपित्थ-
पुत्रश्रेण्यश्मन्तकानि संक्षुद्य त्रिरात्रमासवमासुतुपादौमूत्रे । ततश्चैनं पाययेत्पा-
नानिं पञ्च पञ्चरात्रम् । लामज्जकोशीरहरीतकीशतपुष्पप्रियङ्गुरोध्रमधुककट्-
फलानां चूर्णैरासवं कृत्वा विधिवत्सप्तरात्रादूर्ध्वमष्टौ पानान्यहान् दद्यात् । ततोऽ-
नुलोममारुतोऽपेह्तपित्तः स्वस्थो वारणो भवति । ततश्चास्य शतावरीस्फूर्जक-
फणिज्जकमेषशृङ्गचाटरूषककोविदारानिम्बार्कनीपपटलीकुटजकपित्थशक्रयवपु-
नर्नवासोमवल्कान्कल्पयित्वा तिलचूर्णेन सह निष्क्वाथ्य नाडीस्वेदं विधिवत्कु-
र्यात् । सपत्रेण चैनं निष्क्वाथेन स्वेदयेत् । ततश्चैनं गोधाया रसेन मागधी-
किराततिक्तैकटुकषाययुक्तेन भोजयेत् । मरिचपिप्पलीचूर्णेन श्लक्ष्णीकृतेन
श्वाविच्छल्यकयोर्भरिरसं पाययेत् । भूयश्च तैरेव मांसैर्भोजयेत् ।
तत्र श्लोकः-
द्विदोषकोपात्खलु पकलोऽयं वाताच्च पित्ताच्च भवेदुदीर्णात् ॥
स्निग्धं च तिक्तं च सदाऽस्य कार्यं पानं च भोज्यं च चिकित्सकेन ॥
इति पकलपाकः ( लहेतुलक्षणचिकित्सितानि ) ॥
अथातो मृदुग्रहपाकलचिकित्सितं व्याख्यास्यामः-इति ह स्माऽऽह भग-
वान्पालकाप्यः ।
यदा तु खलु वारणो व्यायाममुष्णेऽतिमात्रं कारितो भवति । अतिगुरुभा-
रस्खिन्नोऽध्वकर्मणि वा योक्ताऽधिष्ठितोऽतिमात्रं बलहीनो वातल्यान्याहारयते ।
अथवा क्षीणः प्रक्षीयमाणधातुर्वा कथंचित्सात्म्यविरोधीनि वा सेवते । सलिलं
चातिमात्रं पिबति कलुषं दुष्टामगन्धं निवातस्थानशय्यासनसुखं न लभते
जाग्रर्ति वा । कथंचित्तस्य वायुर्विमार्गमपन्नो व्यापादयति कफपित्ते रसादीन्वा
धातूनस्य देहे । स तु तन्निमित्तं व्यापन्नेऽन्यतरस्मिन्धातौ प्रकृतौ चापि विप-
र्यस्तायां श्लेष्मोपलिप्तवातधातुः । पित्ते च विमार्गगते प्रक्षीयते श्वसिति च्छर्द्द-
१ क. ॰शृङ्गाभिः । २ क. ॰पकाञ्चकक॰ । ३ क. ॰त्रवदराम॰ । ४ क. ॰नि
पञ्चरा॰ । ५ क. ॰कोलेशी॰। ६ ख. ॰पहत॰ । ७ क. ॰क्कक॰ । ८ ख. ॰ति ।
नाथाज्यते । तापाद्याहतः । अथवा क्षी॰ ।

९ पाकलाध्यायः ]' हस्त्यायुर्वेदः । ६३
यस्येभीक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिभूतः
स्वपिति, ध्यायति गुरुमक्षिकः । गात्राणि च निरस्यति स्विन्न इव दुर्मना
निकर्षति पूर्वकायम्, कृशश्च हारिद्रवर्ण इव दृश्यते । कथंचित्कवलमेकं द्वौ वा
ग्रसते परं त्रीन, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते । शनैः शनैः
क्षीयत इति मृदुग्रहः । तं राजयक्ष्मेत्याहुः । केचिद्गृहीतमात्रमेवोपक्रमेत, उपे-
क्षितो हि न शक्यश्चिकित्सितुमिति ॥
काश्मर्यप्रियङ्गुगोमेदकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं
द्रोणमात्रं कषायं यावद्वा॑ साधु मन्यते, तावत्तन्मधुसंयुक्तं पाययेत् । वमथुप्रश-
मनार्थं सोभाञ्जनकाजगृष्टीबिल्वानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथु-
प्रशमनार्थं कर्णिकारत्वक्शल्लकीबीजमृणालिकातालीशपत्रप्रियङ्गुविदारीकन्दह-
रीतकीबर्बरतृणानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथुनाशनो भूयश्चैष
गणः-कर्णिकारादिरर्केक्षारसंयुक्तः समधुर्वमथुमुपहन्ति । अथवा शार्ङ्गेष्टाबि-
ल्वातिन्दु कीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुप्रशमना-
र्थम् । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनबृंहणानि योगतः कुर्यात् ।
काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्वाथेन सर्पिर्मण्डं विपाच्य
तेन स्नेहेन विधिवदनुवासनं दद्यात् । यवबदरचूर्णानां मधुसंयुक्तं द्रोणमात्रं तु
भोजयेत् । निस्तुषांस्तु माषान्दध्युदश्विदम्लसिद्धान्सर्पिषा प्रभूतेन युक्तान्स-
लवणान्भोजयेत् । वेणुपर्णाशिनमथैनं कृशरां सुस्निग्धसलवणां भोजयेत् । सायं
चैनं वाराहेण मांसेन सुस्निग्धेन सुलवणेन भोजयेत् । अथवा स्वरैकरभतुरग-
शशकपुवंगोरभ्रशूकराणां मांसैर्दधिमस्तुसुरासौवीरकघृतमण्डेषु रसं कृत्वा पाय-
येत् । एतेषामेव यथोपपत्त्या बेसवारैर्भोजयेत्ससर्पिष्कैः । कङ्गुयवगोधूमचूर्णानि
तिलमाषयोश्च निस्तुषयोः कृत्वा तेषां. नव भागान्दशमं पिप्पलीशृङ्गवेरयोश्चू-
र्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघृताभ्यां सह भोजयेत् । शृङ्गाटकोशी-
र शतावरीमूर्वाविशमृणालविदारीकशेरुकाः पयसि समावाप्य दधि जातरसं
कृत्वा सौवीरकघृतमण्डेषु बदरक्षोदमिश्रेषु च्छागमृगमांसं साधयित्वा रसं पाय-
येत् । मांसेन चैनं भोजयेत् । बिल्वतिन्दु कीघोण्टामलकफलानि प्रियङ्कुकुभा-
शोकवल्लीनां त्वक्चूर्णैरासु॑नुयात् । आसवं तं मांसस्थितं जातप्रमाणमासायंभो-
जनादष्टभागं दद्यात् । काचमाचीपत्रफणिज्जकाश्मन्त कफलचूर्णैश्च नस्यप्रधमा-
पने कुर्यात् । श्वशृगालखरनकुलानां मांसोष्मणा स्कन्धे स्वेदं कुर्यात् । एकस्य
१ क. °द्वा सामधु मन्येत । तावत्तन्मध्ये सं° । २ क. °रतुर°। ३ क. ख.
°सुनया° । ४ ख. स्कन्धस्वेदं ।

६४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
द्वयोः सर्वेषां वा यथोपपत्त्या, अजस्य सर्वश्वेतस्य सर्वलोहितवर्णस्य वा
पिङ्गलस्य शूनस्तरक्षोर्वा रोहितकृष्णमत्स्ययोर्वा हृदयेन सघृतेन धूपयेत् ।
मूषकैस्य क्षारकायस्य वो लावककाकयोर्वा मेदसा नेत्रयोरञ्जनं धूपनं च
कुर्यात् ॥
तत्र श्लोकाः—
दुश्चिकित्स्यतमो ह्येष पांकलः प्राणनाशनः ।
मृदुग्रहः समारुयातो राजयक्ष्मा सुदारुणः ॥
मृदु पूर्वं गृहीत्वैष क्रमाद्भवति दारुणः ।
यस्मात्क्षपयति प्राणांस्तस्मादेष मृदुग्रहः ॥
जीवेत्स चतुरो मासान्षडष्टौ वाऽपि जीवति ।
जीवेत्संवत्सरं वाऽपि न च रोगात्प्रमुच्यते ॥
शान्तिस्वस्त्ययनैर्धूपैरभ्यङ्गैः पानभोजनैः ।
नस्यप्रधमापनैः स्वेदैः सुप्रयुक्तैस्तु साध्यते ॥
य ऐतं साधयेद्वैद्यः पाकलं तु मृदुग्रहम् ।
स भिषग्दानपूजाभिः पूज्यस्तु सततं नृपैः ॥
इति मृदुग्रहः ( हपाकलहेतुलक्षणचिकित्सितानि ) ।
अथातः कुक्कुटपाकलचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह भगवा-
न्पालकाप्यः ।
स यदा वारणः पुरप्रमर्दनादिभिः कर्मभिरतियोगेन पीडितोऽतिमात्रं वात-
प्रकोपहरमाहारमलवणमस्नेहमतिक्रान्तो भोज्यते हन्यते बध्यते वा गाढं तस्य
व्यायामादतिमात्रमभिरूक्षकटुकषायाहारस्य वातः प्रकुपितोऽत्यर्थमेतानि
लिङ्गानि दर्शयति—
प्रवेपते प्रहृष्यति पतति परिवर्ततेऽश्ववत्, नदति ताडयते ध्यायति शिर-
सा भूमितलमाहन्ति, कूजति निःश्वसिति, संरक्तनयनः प्रेक्षते, अष्ठीलिकाभ्यां
धरणीतलमाहन्ति, ललाटेन वा, *तिष्ठते, कुण्डलीकरोत्यात्मानं समन्तात्परि-
कर्षति, व्याददाति मुहुर्मुहुर्मुखम्, अतिसार्यते, मत्त इव भवति भूतोपसृष्ट इव
* स्थेयाख्यायां प्रकाशने वा तङ् ।
१ क. ॰कस्याक्षा॰ । २ क. वा वाचक॰ । ३ क. पाल्कः । ४ क. एनं ।
५ क. पुरः प्र० । ६ क. ध्यापयति । ७ ख. ०टेनावतिष्ठ० । ८ ख. अतिसीर्यते ।

९ पाकळाध्यायः ] हस्त्यायुर्वेदः । ६५
च लक्ष्यते ध्यायति कुप्यति, कुक्कुट इव कूजतीति कुक्कुटपोकलः । तं वैद्य
एतैर्लिङ्गैरुपलभ्य कुक्कुटपाकलगृहीतमिति विज्ञाय चिकित्सितुमुपक्रमेत—
यवक्षारसमुद्रलवणबदरबिडङ्गहरिद्रामरिचपिप्पलीः समभागाः संक्षुद्य दधि-
मधुघृतसंयुक्तान्षोडश कवलान्भोजयेद्यथाग्निवर्ण विभज्य वारणम् । अथार्का-
रूबूकवत्सकतर्कारीशोभाञ्जनकाढकीनां मूलफलपत्राणि संहृत्य मधुरसापाठा-
चित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपनिर्गुण्डीनां फलानि संक्षुद्य
सैन्धवसामुद्रबिडयवक्षारकुलत्थाम्लदधिमस्तुसौवीरकैः सह संयोज्य भोजनायो-
पाहूरेत् । (*अथवा न्यग्रोधाढक्युरूबूकपाटलीकर्पासीनां मूलफलपत्राणि संहृत्य
मधुरसापाठाचित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपासनशल्लकीनां
फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारैः संयोज्य नाडीस्वेदं कुर्यात् । एतेषां
च पत्रभङ्गेन सुखोष्णेन स्वेदयेत्) । कुक्कुटस्य कृष्णमत्स्यस्य वा रुधिरेणाञ्जन-
धूपनम् । पश्चाङ्गस्य निम्बस्य वा मुखे शिरसि शरीरे च कृत्वा नक्तमालफलश्वेत-
सर्षपकुलत्थहिङ्गवजाजी(व)र्बरतृणाश्वगन्धापूतिगन्धार्कविषाणिकाकौशिकैः
सह वानररुधिरैर्धूपयेत् । भद्रमुस्ताकाश्मर्यकुस्तुम्बुरी (रु) सुरसपत्रबिडङ्गेस्तैलं
विपाच्य विधिवदनुवासनं कुर्यात् । सर्पनिर्मोकवानररोमकुक्कुटमेदोभिरजाघृतसंयु-
क्तैर्धूपयेत् । काकमाचीपत्रफणिज्जककाश्मर्यकट्फलचूर्णैश्च नस्यं प्रधमनं कुर्यात् ।
अञ्जनं यवक्षारं काककुक्कुटयो रुधिरेण शिरीषफलैःसंयुक्तैन कुर्यात् । अतसी-
शीतशिवाकृष्णकन्दारितालमनःशिलासुवर्णपुष्पीमहाकन्दासर्जरसैः सूर्यसंक-
रणीकैरातमूलनदवोरकसंयुक्तैः पुराणघृतेन संयोज्य धूपयेत् । आमोक्षाच्चैनं
व्याधिमुष्णेनाम्बुना कम्बलैः प्रतिच्छाद्य विना शिरसा योगतः स्वेदयेत् ।
बिल्वफलानि सलवणानि निम्बपत्रपरिवेष्टितं च पिण्याकं भोजनकाले कवला-
न्दद्यात् । अथवा यवनालक्षारं सप्तकृत्वः परिस्रुतं सौवीरकं दधि चेत्येतेषामे-
कैकस्याऽऽढकमुपकल्प्य संयोज्य पाययेत् । भूयश्च मत्स्यरसं मयूररसं पाय-
येत् ॥
तत्र श्लोकौ—
गजप्राणहरो ह्येष व्याधिः कुक्कुटपाककः ।
अनेन विधिना राजन्यथोक्तेन प्रशाम्यति ॥
* धनुराकारचिह्नद्वयान्तर्गतपाठो नास्ति कपुस्तके ।
१ क. °पालकः । २क. °ञ्जनं धू° । ३ क. ख. नश्यं । ४ क. °ल्यु° ।
क. सूर्यकर्ण° । ६ क. °वक्षा° । ७ क. ख. °रिश्रुतं । ८ क. °पालकः ।

Here is the accurate transcription of the text from the provided image:

पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
य एनं साधयेद्वैद्यः कष्टं कुक्कुटपाकलम् ।
पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः ॥
इति कुक्कुटपाकलः ( लहेतुलक्षणचिकित्सितानि ) ॥
अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह
भगवान्पालकाप्यः ॥
इह खलु भो वरुणग्रहो नाम दैवाद्ववति दोषादित्येके । तस्य दैवादुत्पन्नस्य
तावत्कारणं ब्रूमः । अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वविशे-
षेष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीपज्ञेषु
नैगबन्धनेषु पाययन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्मोहादज्ञानाद्वा,
तदा वरुणस्तेनाभिभूयते । अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनाद-
मर्दनाच्छून्यागारचतुष्पथमहानीसंकटनिर्झरनिकुञ्जेषु सुदारुणेषु ( *महाप-
थनगरसंगमपथेषूग्रदारुणेषु ) तिथिनक्षत्रेषु श्मशानपरिवांसाद्भवति । अथवा
मन्त्रयोगादुग्रसिद्धचारणमातङ्गशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्च
मायाविभिरुपहारार्थं गृह्णतस्तथा भवति । भवति च भूतपिशाचयक्षराक्षसनिररी-
षणात् । तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः—
हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिकु(क्र)प्तुं
वा बद्ध इव भवति, निःश्वसिति ( *भ्रमति परिणमति ) संकुचति नदति
ध्यायति पर्यश्रुनयनः, तस्यैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः । तस्य
स्थले जले वा निषण्णस्य निवृत्तं चिकित्सतम् । अथापिं पन्तारमिति विचिन्त-
यन्धावति स्थलाज्जलाद्वा । यदा चै कमलकुमुदकुवलयतामरसकल्हारोत्प(*ला-
नामन्येषां वा ज)लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवृत्ता प्रति-
क्रिया । प्रकृतिस्थगन्धस्यापि सतो यदि ( *भवति ) हरितालहिङ्गुलमनः-
शिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः । अविवर्णस्यापि
विगन्धस्य प्रभावतः .करगात्रापरोदीनां व्यापाराणां पक्षस्तनस्तब्धस्यापि
सतोऽङ्गस्य प्रतीकारं वक्ष्यामः—
स्वस्तिकापूपसंयावपूषोल्लापिकापरमान्नगन्धधूपसंयुक्तानि स्थलजलजानि
कुसुमान्याहृत्य सौवर्णान्स्वस्तिकांश्चोपहृत्य कन्याः संतोष्यित्वा कृतमङ्गला अहते
वाससी परिहिता नद्या बलिमुपहरेत्ततूर्यघोषैः । वैद्यश्चाप्युपवासं (स) प्रयतोऽ-

  • 'धनुराकारचिह्नचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति ॥
    १ क. ०ष्वविशेष्व० । २ क. नागबन्धेपु । ३ क. ०वासवङ्ग० । ४ ख.
    ०पि यातार० । ५ क. ०वृत्तप्र० । ६ क. ०राण्या० । ७ ख. ०हंतवा० ।

९ पाकल्याध्यायः ] हस्त्यायुर्वेदः । ६७
हतवासास्तत्र यथोक्तमुपहृत्याग्निं प्रागुत्तराग्रैर्दर्भैर्हस्तिनीसमीपे स्थण्डिलं परि-
स्तीर्योदुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौदुम्बरीभिः समिद्भिर्वह्निं
प्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चयित्वा गोदधिमधुघृततिलैर्वरुणाय हुत्वा
प्रसन्नां मैरेयं सीधुमुपहृत्य बलिं ब्राह्मणान्स्वस्ति वाचयित्वा वैद्यः प्राङ्मुखो
रात्रौ मन्त्रेणानेन जुहुयात् — 'नमोऽस्तु वरुणदेवाय सह नदीभिः स्वाहा ।
नमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा'
हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायापहरेत् । सीधुं मैरेयं
प्रसन्नां सुरामुद्धृत्य बलिं रात्रौ कृताञ्जलिर्वैद्यः प्रयतो हस्तितीर्थाभिमुखो मन्त्र-
मिमं ब्रूयात् —
इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा ।
तमिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम् ॥
येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः ।
शक्तो निर्विषयं कर्तुमिन्द्रदत्तो न संशयः ॥
मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति ।
तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट (स्त्वं) नमोऽस्तु ते ॥
रक्षोभिस्तु गृहीतानां ददाति पिशितौदनम् ।
गन्धर्वैर्किन्नरेभ्यस्तु गीतवादित्रनिःस्वनम् ॥
नागेभ्योऽपि नृपो दद्याद्दधि कुल्माषमोदनम् ।
इति त्रिरुक्त्वा† भूयश्चिकित्सितुमुपक्रमेत् ॥
कालकन्दाविदारीकुम्भीकानि तिलपिष्टं च सहोत्क्वाथ्य नाडीस्वेदं कुर्यात् ।
अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशैवालनलिनकुवलयानि निष्क्वाथ्य
नाडीस्वेदं कुर्यात् । उदक्यो हृत्पलकन्दैश्च घृतेन संसृज्य धूपयेच्छ्रो(त्सो)तोभ्यः।
अथवा मत्स्यकच्छपकुक्कुटैः सघृतैर्यवहिङ्गुभिर्धूपयेत् । जलचराणां च सत्त्वानां
शिशुमारादीनां रसेन भोजयेत् । अथवाऽजगरमकरचर्मराजीरसेन भोजयेत् ।
जलचराणां च पक्षिणां यथालाभं रसेन भोजयेत् । अयोगुडैरुष्णमम्भः पाययेत् ।
आव्याधिप्रमोक्षाच्च वेल्लनलङ्घनप्रसारणचङ्क्रम‌णानि शनैःशनैः कारयेत् ।
नदीं चैनं न गमयेदिति ॥
अत्र श्लोकौ—
† इति त्रिरुक्त्वाऽसौ भूय इति पाठः कदाचिद्भवेत् ।
१ क. °न्नां सुरा° । २ क. °मिन्द्रपा° । ३ क. शक्रो । ४ क. °कुम्भि-
कानिल° । ५ क. °क्याद्युत्प° । ६ क. °न्तं विग° ।

वरुणं प्रतिपाद्यैवं क्रियाः कुर्वन्यथाविधि ।
मोक्षयेत्कुशलो वैद्यो वारणं वरुणग्रहात् ॥
संजातबलमांसं तमेकाङ्गादितपाकलात् ।
राज्ञः संदर्शयेद्वैद्यश्चन्द्रं मुक्तमिव ग्रहात् ॥
(इति) एकाङ्गग्रहः ( हेतुलक्षणचिकित्सितानि ) ॥
अथातः प्रसुप्तपाकलचिकित्सितं व्याख्यास्यामः-इति ह स्माऽऽह भगवा-
न्पालकाप्यः ॥
अथ यदा वारणस्य क्षारलवणकटुतिक्तकषायरूक्षाहाराद्वायुः प्रकुपितः
कफपित्तौ युगपद्यापादयति । ततोऽस्य दीप्ताग्नेरुदरामिरतीव भक्ष्यभोज्यपेय-
लेह्याद्यैराहारैर्दत्तैर्न तृप्यति, भृशमश्नाति, स्वपं च भोजनाभिनन्दी भवति,
तृणमप्यत्यर्थमत्ति । ततोऽस्य मांसमुपचीयते, श्लेष्मा मेदश्च वर्धते । तत्र
तन्द्रानिद्राक्लमालस्यान्यस्य जायन्ते । स च शिथिलबलो विपुलतरमांसमेद-
स्त्वात्कृच्छ्रेण गच्छति । स्वल्पमपि च शीतं बहु वेत्ति, सुखायते चोष्णमत्य-
र्थम् । मेदलिङ्गानि दर्शयति, न च माद्यति । विष्टब्धचक्षुः स्वप्रशीलः शय्या-
भिकामो गम्भीरवेदी। इत्येतैर्लिङ्गैरुपपन्नं दृष्ट्वा प्रसुप्तपाकलोपसृष्टं वारणं विन्द्या-
(द्या)त् ॥
तस्य साधनमुपदेक्ष्यामः—कार्श्यमस्य विधीयते, न स्थौल्यम् । यवान्नं
कोद्रवान्नं चास्मै भोजनं दद्यात् । कुटजपिचुमन्दैपिण्डांस्त्वग्भिः समुद्रान् साध-
यित्वा खदिरसारनिष्क्वाथेन सह भाविन्मांसरसेन भोजनमस्मै दद्यात् । वेणु-
वेतसपत्राणां पत्रभङ्गांश्च भोजयेत् । तस्मिन्परिणते च माहिषरसमनुपानं
दद्यात् । ततो भद्रदारुवचाभयाकृष्णकन्दाशृगालिकानक्तमालत्वग्हरीतकीम-
धुरसातिक्तरसो(सा)भिः संचूर्णिताभीरासवान्कृत्वा मधुसंयुक्तं मासस्थितं
पाययेद्विरदम् । करवीरोरुबूककर्णिकारं बृहत्यौ च तिलपिष्टं च सहोत्क्वाथ्य
नाडीस्वेदं कुर्यात् । निम्बकुटजखदिरत्वचं मधुसंयुक्तं (क्तां) भोजयेत् । सक्तु-
द्रोणं चैनमुदमन्थं मधुसंयुक्तं पाययेत । लघुडैरहनि स्वभ्यक्तस्याधोङ्गं मर्दयेत् ।
मृदिताङ्गस्य चाभ्यङ्गमनु प्रतिशय्यां वातातपसेवां च यथायोगं योजयेत् । पाठा-

  • चन्दनहरिद्राद्वयभद्रदारुमहापञ्चमूलैः सह माषान्विपाच्य सप्तपर्णत्वचा सह
    संक्षुद्य विधिवत्कारयेत् । किण्वोदुम्बरककुभवन्निम्बाम्राजकर्णानां निष्क्वाथे
    मण्डोदकं स्यात् । वचारोध्रमिपङ्गुलामज्जकोशीरहरितकीशुण्ठीभल्लातकमरिच-
    १ क. मन्दलिङ्गानि । २ क. ०न्दत्वग्भिण्डां । ३ क. मधुसंयुक्तं । ४ ग.
    ०त् । तिल० । ५ ग. ०कीनिर्गुण्डीभ० ।

= द्द्वि? Or द् + वि = द्वि?
Ah! Sandhi: लक्षणाभावात् + विषपरिगतम् -> लक्षणाभावाद्विषपरिगत!
In Devanagari: द् + वि = द्वि! It is written as द्विषपरिगत!
Wait, is there a double 'द'?
Look at द्विषपरिगत: it's just द्वि (dvi)! लक्षणाभावाद्विषपरिगत (viṣaparigata = affected by poison).

  • L22: इति केचित् । ग्रहेणायं गृहीत इत्यपरे मूढा मिथ्याज्ञानात् । सनिदानौ हि
    Wait, look after मूढा: is there a dot?
    There is a dot at the bottom between मूढा and मिथ्याज्ञानात्. Probably a space/spot.
  • L23: तौ, अयमनिदानश्चाचिकित्स्यश्चेति ।
  • L24: तत्र श्लोकः—
  • L25: यथा हि हन्यात्कूटेन मृगशावं वनेचरः ॥
  • L26: तथा वातात्मको नागं हन्ति वै कूटपाकलः ॥
  • L27

७० पालकप्यमुनिविरचितो— [ १ महारोगस्थाने—
'इह खलु भो नवमः पुण्डरीको नाम पाकलः संभवति रूक्षकटुकषायक्षार-
तिक्कलवणतीक्ष्णोष्णाम्ललघुविषमभोजनात्तस्य मारुतः कुपितो रक्तं पित्तं च
शरीरे समन्ताद्विक्षिपति । ततोऽस्य लिङ्गानि दर्शयति—
करचरणजघनोदरोरुपृष्ठपार्श्वाण्डकोशमुखशिरोग्रीवाङ्गुलिलाङ्गुलेषु यत्र वा
तत्र देशेष्वसितहरितनीलपीतरक्तारुणानामन्यतमवर्णानि कृष्णपर्यन्तानि मण्ड-
लानि प्रादुर्भवन्ति भृशवेदनानि सोष्माण्यग्निदग्धानीव विसर्पीणि पुण्डरीकप-
त्रप्रतिमानि यतः, तत एष पुण्डरीकपाकलो विसर्पः ।
तेनोपसृष्टो वारणः कर्दमेन पांशुभिश्च विकिरति मण्डलानि बहुश उष्ण-
द्वेषी संमीलितनयनः कूजति निःश्वसिति दह्यमानः ।
तस्य पूर्वं पवनमेवोप

९ पाकलाध्यायः ] हस्त्यायुर्वेदः । ७१
लेनाऽऽलोड्य मण्डलानि म्रक्षयेत् । उरुबुकेङ्गुदीकरञ्जद्वयशिरीषाणां बीजैः
कल्कपिष्टैस्तैलं विपाच्य प्रसभया सह संयोज्य मण्डलानि प्रक्षपेत् । शालीनां
षष्टिकानामोदनं मयूरक्रौञ्चहंसबलाकानां वाऽन्यतमस्य रसेन भोजयेत् ॥
तत्र श्लोकः-
अभ्यङ्गैर्नृपवर सेचनैः¹प्रदेहः पानैश्च प्रशममुपैति पुण्डरीकः ॥
वैद्येन प्रथितगुणेन साध्यमानो दीप्ताग्निः सलिलघटैरिवार्वसिक्तः² ॥
इति पुण्डरीकपाकः (सहेतुलक्षणचिकित्सितानि) ॥
अथातो महापाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवा-
न्पालकाप्यः ॥
अथ यदा वारणो नवान्नस्निग्धमधुरघनगुरुशिशिरगुडदधितैल³पललजल-
चरानूपमांसरसतृणकवलकुवलपल्लवाहारोऽत्यर्थं सुखितत्वादव्यायामशीलः
सहसा प्लवजलवितरणानि विनर्मन⁴स्थानानि कार्यते । तस्य वायुः प्रकुपितः
कफमादाय हृदयं संपीड्य तिष्ठन्पार्श्वयोः कृच्छ्रां वेदनां जनयति ।
स तया स्वनति जलद इव गम्भीरम्, अतिसार्यते श्लेष्मवत् । असहमानश्च
तां रुजं प्रवृद्धपादप इवोन्मूलितः पतति, हठेन पुनश्चोत्तिष्ठति, तटादीन्प्रति-
हन्ति, निष्पिनष्टि च करं भूमौ, हृदयपीडितश्च । तं वातकफात्मकं महापाकलं
विद्धि । हृदयग्रहणाम्महापतनान्महापाकलमित्याहुः ।
भैषज्यविधिरस्य शमीतिन्दुकपाठाकीबिल्वशृङ्गाटकैश्च मत्स्यरसं साधुसिद्धं
भोजनाय पानाय चास्मै दद्यात्, ततो नश्यतः कफपवनौ । पयश्चैकान्तरमेभि-
रेवौषधैः⁵ शृतं पाययेत् । अनुलोमो भवति तेनास्य वायुरुद्धतः । सिद्धं चास्मै
दध्ना सहार्द्रकमोदनं घृतस्निग्धं सलवणं भोजनाय दद्यात् । तालपत्रीं
गोस्तनिकां नागबलां गवेधुकां च क्षुण्णां मधुमिश्रान्कवलान्दद्यात् । मधु-
लाजाश्च भोजनम् ।⁶ तरुणाक्षिकवार्ताकीनक्तमालफलानि च क्षुण्णा(*नि
सक्षौद्राणि भोजयेत् । तेनास्य कफपवनौ नश्यतो युगपत् । जम्बूशल्लक्योर्र्वा
किसलयानि च क्षोदपित्वा मधुमिश्राणि भोजनाय दद्यात् । हरिद्राकुशमूलल-
शुनविडङ्गेन्द्रयवककुष्ठानि क्षोदयित्वा ) मधुमिश्राणि भोजयेत् । सपत्रांश्च
* धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति ।
१ क. सेचनप्रमेहैः । २ क. ॰रीतिव सिक्तः । ३ क. ॰तिलापललजलजलच॰ ।
४ क. ॰मस्था॰ । ५ क. ॰भिरिखौ॰ । ६ क. भोजनं ।

शाकवल्कीक्षुण्णान्मधुमिश्रान्कवलान्दद्यात् । ( *अथवाऽश्मन्तकमुष्क)कोदु-
म्बरप्लक्षणां त्वचः कल्पयित्वा गोक्षुरकमधुरसाजीवन्तीबिल्वानि कुरुविन्दं वा
क्षोदयित्वा क्वाथयेत् । तेन क्वाथेन तैलं पक्त्वा नागमनुवासयेत् । अश्वाश्वतर-
खरोष्ट्रमहिषाणां मांसरसैः पानभोजनमुपहरेत् । तेनास्य नश्यतः कफपवनौ ।
तत्र श्लोकाः—
इत्येते नृपवर पाकला दशोक्ता भेषज्यैः सह सनिदानसंभवास्ते ।
तत्र द्वौ परमसुदारुणावसाध्यौ यः शुद्धो भवति हि कूटपाकलश्च ॥
अष्टानामिह हि चिकित्सितं मयोक्तं सर्वे ते नृपवर मृत्युदण्डकल्पाः ।
यो देशप्रकृतिवयःप्रमाणसात्म्यान्यायुश्च प्रतिगजमीक्ष्य शास्त्रचक्षुः ॥
नागानां ज्वरमुपहन्ति पाकलाख्यं कर्मज्ञः स भवति राजहस्तिवैद्यः ।
एतान्यो भिषगिह साधयेत्स पूज्यो वेदज्ञैरिव हवनेषु वज्रहस्तः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
पाकलाध्यायोऽष्टमः ( नवमः ) समाप्तः ॥ ९ ॥
अङ्गराजो महाप्राज्ञः कुबेरसमविक्रमः ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् ॥
तत्र मे संशयः कश्चित्तं मे शंसितुमर्हसि ॥ २ ॥
शुद्धश्लेष्मसमुत्पन्नः शुद्धपाकलमादितः ॥
प्राग्भागोष्णः कथं तेन पश्चाद्भवति शीतलः ॥ ३ ॥
ने चोष्णलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥
कथं साध्यश्च बालोऽत्र कूटश्चैव न सिध्यति ॥ ४ ॥
समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तितौ ॥
पक्लः पुण्डरीकश्च वात्पित्तोद्भूतावुभौ ॥ ५ ॥
विकारेषु विरुध्येते चिकित्सायां तथैव च ॥
शनैः क्षीयेत वा केन हेतुनाऽथ मृदुग्रहः ॥ ६ ॥
कथं च भूतसंसृष्टो दुष्टः कुक्कुटपाकलः ॥
देवाच्च केचिदिच्छ्रान्ति दोषतश्चापरे जनाः ॥ ७ ॥


* धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति ।
† नवम इत्येव युक्तम् । यद्वाऽयमध्यायसमाप्त्युल्लेख एव प्रामादिकः, प्रथम-
स्थानेऽष्टादशाध्यायप्रतिज्ञाविरोधात् ।


१ क. यादृशः प्रकृतिवयोऽप्रमा° । २ ग. तवोक्तल्° ।

एकाङ्गग्रहसंज्ञस्तु पाकलो मुनिसत्तम ॥
हृश्यते भूतसंदृष्टो दोषतश्च न दृश्यते ॥ ८ ॥
बेठरत्वेन (?)संयुक्तः कथं तीक्ष्णोदेरानलः ॥
सारबन्धोपलक्षश्च प्रसृतः पाकलो भवेत् ॥ ९ ॥
महापाकलसंज्ञश्च श्लेष्मणोपचयाद्भवेत् ॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै ॥ १० ॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥
एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान् ॥ ११ ॥
तत्त्वेन निखिलान्प्रश्नान्गूढार्थान्वक्तुमर्हसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ १२ ॥
शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् ॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ॥ १३ ॥
नाभेः पश्चिमभागे तु स्थानं वायोर्निगद्यते ॥
प्रोक्तान्यामाशयः पर्वाण्युरः कण्ठः शिरस्तथा ॥ १४ ॥
स्थानान्येतानि राजेन्द्र श्लेष्मणो विद्धि दन्तिनाम् ॥
तेन क्षुब्धाभिभूतस्य स्थनानात्पित्तं तु विच्युतम् ॥ १५ ॥
श्लेष्मणा पश्चिमं भागं नीयते सह वायुना ॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुतो गजम् ॥ १६ ॥
प्राग्भागे चोष्णताऽप्यस्य सा तु पित्तस्य वीर्यतः ॥
कदाचिदङ्गमृत्यङ्गं यदा गच्छति मारुतः ॥ १७ ॥
तेन कालेन राजेन्द्र युज्यते तस्य भेषजम् ॥
तेन सिध्यति बालोऽयं कूटो हेतुः प्रैर्वक्ष्यते ॥ १८ ॥
कूटे निदानं वातस्तु सर्वदेहाद्विमुच्यते ॥
सहसा हृदयं गच्छेद्वेदद्रतश्चापि पातयेत् ॥ १९ ॥
हृदयग्रहणादाशु कूटस्तेन न सिध्यति ॥
व्यानो वायुः प्रकुपितो ह्यपानसहितो नृप ॥ २० ॥
पित्तमाक्षिप्य जनयेत्पाकलं कोपमाश्रितम् ॥
गुरुस्थानोपरोधाच्च रौद्रकर्मा भवेदद्रजः ॥ २१ ॥
१ ग. ॰संदुष्टो । २ ग. ववरत्वेन । ३ क. ॰दनानिलः । ४ क. ग. पश्च-
फेरः । ५ क. वार्यत । ६ क. ॰दङ्गं प्र॰ । ७ क. प्रचक्षते ।
१०

७४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
इत्येष पकले हेतुः पुण्डरीके प्रवक्ष्यते ॥
मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप ॥ २२ ॥
पित्तं च रक्तसहितं त्वग्दूषयति दन्तिनाम् ॥
तस्माद्रक्ताधिकश्चायं त्वचि कोपेन लक्ष्यते ॥ २३ ॥
मारुतः कुपितो देहे कारणैः पूर्वकीर्तितैः ॥
रक्तं मांसं च मेदोऽस्थि मज्जां शुक्रं च दन्तिनाम् ॥ २४ ॥
यस्मात्क्रमात्क्षपयति तेनैष क्षीयते शनैः ॥
श्रमाभिभूतो योऽत्यर्थं पेशलं न लभेत चेत् ॥ २५ ॥
समानः कुपितस्तस्य प्राणापानौ प्रदूषयेत् ॥
व्यानोदानौ च संदूष्य कुर्यात्कुकुटपाकलम् ॥ २६ ॥
शरीराणां च भूतानां विपर्यासस्ततो भवेत् ॥
विपर्यस्तेषु भूतेषु भवेद्भूतोपसृष्टवान् ॥ २७ ॥
तस्माद्भूतोपसृष्टोऽयं दुष्टः कुकुटपाकलः ॥
स्प(स्पृ)ष्टस्य दारुणैः पाशैर्नागस्य मनुजाधिप ॥ २८ ॥
पीड्यमानः(नं)शनैः पाशैर्वातंपित्तं च कुप्यति ॥
तेनाऽऽदौ दैविको भूत्वा पश्चाद्दोषेण लिप्यते ॥ २९ ॥
आदानं चैवमेवास्य दोषाणां संप्रकीर्तितम् ॥
पित्ताशानैर्गजे पित्तं वृद्धमग्निं ^२विवर्धयेत् ॥ ३० ॥
तीक्ष्णज्योतिः ^३स भवति सरदत्वं च गच्छति ॥
ततः ^४शुँषिरमांसत्वाद्वायुर्नागस्य कुप्यति ॥ ३१ ॥
श्लेष्माणं कोपयेत्पश्चाद्विकारैः श्लैष्मिकैस्ततः ॥
वातेन संचितः श्लेष्मा बठरं कुरुते गजम् ॥ ३२ ॥
स यदा बठरो नागः सहसा कर्म कार्यते ॥
समानः कुपितः प्राणः पश्चाद्दूषयते कफम् ॥ ३३ ॥
क्रियते हेतुनाऽनेन कृशत्वेन प्रतिक्रिया ॥
मारुतः कफमादाय हृदयं ^५संसृतो यतः ॥ ३४ ॥
करोति महतीं पीडां तेनायं पाकलो महान् ॥
वातोऽत्र कारणं यस्मात्तेन वातप्रतिक्रिया ॥ ३५ ॥
१ ख. °र्वातं पि° । २ क. विवृद्धयेत् । ३ ख. संभवति । ४ ग. शुचिर° ।
५. क. संश्रितो ।

१० स्कन्धाध्यायः ] हस्त्यायुर्वेदः । ७६
कर्तव्या नृपशार्दूल पालकाप्यमतानुग ॥
महारोगो यतश्चायं पतनाच्च महद्भयम् ॥ ३६ ॥
उभयत्र महत्त्वाच्च महापाकफलसंज्ञितः ॥
सुरेशापाद्गजेन्द्राणामन्तःस्वेदितुमोहितुम्(?) ॥ ३७ ॥
न चोष्मलक्षणस्तेषां दन्तिनां जायते ज्वरः ॥
तेनोष्मलक्षणस्तेषां ज्वरः समनुकीर्तितः ॥ ३८ ॥ ७४६ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ज्वर-
हेतुविनिश्चयो नामाध्यायो ⁺दशमः ( नवमः) ॥ ९ ॥

अथ दशमाध्यायः ।

अथातः स्कन्धाध्यायं व्याख्यास्यामः ॥
अङ्गाधिपतिः पालकाप्यमागतमभिवाद्य प्राञ्जलिरुत्थायोवाच रोमपादः—
“स्कन्दा नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथं वा
साध्याः स्युः” इति ॥
स एवमुक्त उवाच पालकाप्यः—स्कन्दा नामावस्कन्दनाज्जीवितस्य ।
शोषणं स्कन्दनमित्यनर्थान्तरम् । तस्मात्स्कन्दा इत्युच्यन्ते । शरीरापतना-
चापतनकाः । क्षुद्धात्संजायते वातात्संपित्ताच्च कफाच्च वातैः सेहिताश्चयः
स्कन्दा भवन्ति । तेऽन्तरायाम—बहिरायाम—व्याविद्धस्कन्दा इति त्रयः ।
तेषामेकः कृच्छ्रसाध्योऽन्तरायामः । बहिरायाम—व्याविद्धस्कन्दौ द्वावसाध्यौ ॥
तत्रान्तरायामस्योत्पत्तिं निदानं चिकित्सितं च वक्ष्यामः ।
स तिक्तकटुकषायरसोपयोगात्, व्यायामव्यवायात्, अत्यध्वगमनाच्च विष-
मविरुद्धरूक्षाशनात्, अध्यशनादपि च विपर्यासान्मनसश्चोपतापात्, यवसानां
च विपन्नगिरिजशुष्काणामुपयोगात्, वधबन्धाभ्याम्, मिथ्याभिघातात्प्रतह-
⁺ यद्यपि पुस्तकत्रये 'दशमः' इत्येव पाठ उपलभ्यते, तथाऽपि 'नवमः' इत्येव
युक्तम्, अस्याध्यायस्य पाकलरूपज्वरहेतुविनिश्चयत्वात्, पाकलाध्याय—स्कन्धाध्याय-
योर्मध्येऽस्य पृथक्संग्रहाध्यायेऽपरिगणितत्वाच्च । यद्वाऽग्रे स्वेद—शान्तिरक्षाध्याययो-
रिवात्राध्यायसंख्याभाव एव । अत्रोल्लेखस्तु प्राज्ञेन कृत इति प्रतिभाति ॥
१ क. °रसाया गजे° । २ क. °मादिवाम् ॥ ३७ ॥ ३ क. चोष्मा ल° ।
४ क. °त्स्कन्द इत्युच्यते । ५ ख. °पतानाच्चापतान° । ६ ख. सहितास्त्रयः ॥
७ ख. °त्पत्तिनो ।

७६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
स्यभिघातान्मदबलक्षपादुपधांमिश्च योगतः कुपितः पवनः सर्वाङ्गमनुसृतस्ते-
मवस्कन्दयति ॥
ततो विनमति, संकुचति कूजति विजृम्भते ( *प्रवेपते ) भ्रमति पतति
निःश्वसिति परिवर्तते नदति ताडयति ध्यायति, शिरसा भूमिं गच्छति,
निस्तब्धताम्रनयनः परिशुष्कताल्वोष्ठमुखः कृच्छ्रावस्थो वायुना पीड्यमानहृ-
दयशरीरग्रीवागात्रापरः, ततः पुनश्चाष्ठीवाभ्यां गतो भूमिम्, उरो निर्भुजति,
शिरो विधुनोति चैकपक्षमिव हतः, स्पन्दति नयनमेकम्, सृक्के कपोलमोष्ठं वा,
घुरुघुरायमाणकण्ठः पुनश्च नष्टसंज्ञः पुनर्मृदुवेगः पुनश्च बलवत्पीड्यते । तस्यैतै-
र्निदानैरन्तरायामं निष्केवलं वातजमभिसमीक्ष्य चिकित्सितमुपक्रमेत ॥
स तु कदाचित्सिध्यतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः ।
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकैः
स्पृक्काचोरकवोचपत्रतगरैः स्थौणेयजातीरसाः ।
शुक्तिर्व्याघ्रनखामराह्वमगरुः श्रीवासकं कुङ्कुमं
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयः ॥
एलादिको वातकफौ विषं च विनियच्छति ।
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः ॥
इत्येलादिगणः ।
ततः शोभाञ्जनकमूलैः सर्वगन्धैः सहिङ्गुयवघृतैर्धूपयेत्, करकर्णगुदनाभि-
मस्तककटनिर्याणानि सर्वच्छिद्राणि बहुना, बहुशः सर्वं वाऽपि शरीरम् । ततः
पुनर्नवाग्निमन्थयूथिकार्कारीवरुणकमधुशिग्रुरोहिषहिंस्रातिलचूर्णान्युरुबूकसा-
रिवांशुमतीपृश्निपर्णीबृहतीद्वयवरुणकैन्तिन्दुकभद्रोदुम्बरीवृक्षादनीः क्वाथ-
यित्वा कम्बलप्रतिच्छन्नशरीरस्य परिषेकं बहुशो विदध्यात् । ततः पञ्च-
मूलाभ्यां वसुकर्वासिरपिप्पलीमूलहस्तिपिप्पलीकपित्यदेवदारुयवर्वचाशृङ्गवे-
रगोक्षुरकसारिवाचित्रकान्समर्सालिले दुग्धे विपाचयेत् । ओवापं चात्र दद्यात् ।
बिल्व(*घृतशालिपिष्टान्युपसंहृत्य परिस्राव्य विधिवत्पाचयेत् । ततः शणमू-
लाढकीमधुशिग्रूणां बीजानि ) कर्पासास्थीनि तिलयवातसीमाषसर्षपदेवदारुष्ट-


  • धनुराकारचिह्नान्तर्गतः पाठः कपुस्तके नास्ति ।
    १ ख. ०मिश्रायो० । २ क. ०स्तदव० । ३ क. ध्याययति । ४ क. ०रीरो
    ग्री० । ५ क. विषयं च नि० । ६ क. ०गुदानाभिमस्तकानि० । ७ क. ख. ०कटि-
    ष्ट्क० । ८ ख. ०वसाशृ० । ९ क. आदाय ।

१० स्कन्धाध्यायः ] हस्त्यायुर्वेदः । ७७
थ्वीकादधिमस्तुसुरासौवीरकपवोदकेषु किण्वतण्डुललवणचूर्णानि प्रक्षिप्य घृत-
तैलवसामिश्रं पाचयित्वा दर्वीप्रलेपेन पिण्डस्वेदेन वस्त्रोपनद्धेन स्वेदयेत् । एतैरेव
सुखोष्णैर्गजं लिम्पेत्सशिरस्कं निवातस्थम् । भूयश्च बलातिबलांशुमत्पुनर्नूक-
कपित्थबृहतीद्वयतिन्दुकभद्रोदुम्बरीगेडम्बलु(?) चाङ्गेरी द्वे विन्ने शतावर्‍यं-
हिंस्रापेहिवातात्कारीवरुणेडगजजलकुष्ठमूलानि यवकोलकुलत्थनिष्पावाढकीश-
णबीजानि श्रीपर्णीपत्रमूलफलानिग्निमन्थपाटल्युभौ गुन्द्रौ क्षुरकं च वसुकं वशि-
रांश्च संहृत्य समसलिले दुग्धे विपाचयेत् । सिद्धावशेषमपहृत्य पुनर्वराहाजैम-
त्स्यशिशुमारशशकवसाभिः सह काकोलीक्षीरकाकोलीजीवकर्षभकलिङ्गाक्षीमा-
षपर्णीमधुकतालपर्णीशुकनासाकल्कैस्तैलं घृतं वा पाचयेत् । तत्साधुसिद्धम-
पहृत्य भक्तषोडशभागप्रमाणं पानीयं पाययेत् । यवसानि च यथोक्तानि वात-
प्रशमनानि दद्यात् । एतेनोपक्रमेण मुच्यतेऽन्तरायामात् । बलवान्प्रहृष्टमना
निरामयश्च भवति वारणः ॥
इत्यन्तरापामस्कन्दः ॥
बहिरीयामो नाम स्कन्दः पित्तसंसृष्टान्मारुताद्भवति । स प्रत्याख्येयोऽसाध्य-
त्वात् ॥
निदानमस्य वक्ष्यामः-
(*स पक्षेणैकेनावसीदति, विवृणोति चक्षुः, समुत्थैकगात्रः समुद्गतशिरो-
ग्रीवस्तिर्यगायभ्यते रज्जुमवलम्बतेऽवसीदन्नूर्ध्वमुच्छ्वसिति । स बहिरायाम-
स्कन्दो नाम प्राणहरो व्याधिः ॥
इति बहिरायामस्कन्दः ॥
व्याविद्धस्कन्दो नाम प्राणहरस्तिर्यग्योनिषु दृश्यते । ( स ) श्लेष्मसंसृष्टा-
न्मारुताद्भवति । स प्रत्याख्येयः ॥
निदानमस्य वक्ष्यामः - अवनम्यमामः शिरोधरां पीडयति । हत्वा वक्षः )
संभज्यत इव उनमन्मध्ये जघनमूत्क्षेप्तुकामः पतति भूमौ, असौ गम्भीरमन्तः
स्तनति निःश्वसिति निस्तब्धताम्रनयनः स्थूलं निःश्वसिति विसंज्ञकल्पः ॥ स
व्याविद्धस्कन्दाभिभूतः प्रजहाति प्राणानिति ॥
तत्र श्लोकाः-


* धनुराकारचिह्नान्तर्गतः पाठः कपुस्तके नास्ति ।
१ क. गरुडाम्लाम्बु० । ग. गरुम्लुचुवा० । २ क. ०जशि० । ३ क.
०दृष्टाननो नि० ।

७८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
असाध्यरूपौ द्वौ स्कन्दौ तयोर्यत्नो न विद्यते ।
अन्तरायाम एकस्तु सोऽपि सिध्यति वा न वा ॥
तमप्रपन्नो यत्नेन चिकित्सितुमुपाचरेत् ।
यथोक्तेनोपचारेण शास्त्रार्थकुशलो भिषक् ॥
अशनिरिव तरून्महेन्द्रमुक्तो दहति तृणानि यथाऽनलः प्रदीप्तः ।
द्विरदमपि तथा हिनस्ति रोगो नृपवर मूर्खभिषक्कृतप्रयोगः ॥ इति ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगाधिकारे स्कन्धाध्यायः
*एकादशः ( दशमः ) ॥ १० ॥
═════════════════════════════════
अथैकादशाध्यायः ।
अथ कदाचित्पालकाप्यमागतमभिवाद्योपविष्टमुवाचाङ्गराजो रोमपादः—
'पुराणकृश इत्युपदिष्टः संग्रहाध्याये पूर्वं भगवता, स कथम्' इति ॥
ततः प्रोवाच भगवान्पालकाप्यः—पुराणकृशः, पाण्डुरोगः, इत्यनर्था-
न्तरम् । ते त्रयस्त्रिभिर्दोषैः संभवन्ति वातपित्तकफैः, तत्र पित्तसंभव-
मेवाऽऽदौ वक्ष्यामः ॥
स गजो जीर्णाजीर्णविदग्धभोजनादम्ललवणप्रायादाहारादत्युष्णाध्वगमना-
त्परिश्रान्तनिर्वाणात्ससहसा पित्तमुदीर्णं वायुः समन्ताच्छरीरे विधुनोति ॥
ततः स भवति कृशः पाण्डुः, अलसः, नान्नभिलाषी, ध्यानशीलः । तं
पुराणकृश इति ब्रूमः पाण्डुरोगम् ॥
तस्य पित्तोद्भूतस्य शान्त्यै हरिद्राबृह्त्यौ मरिचपिप्पलीविडङ्गानि सम-
भागानि लवणयुतानि चार्धभागानि कृत्वा स( र )ङ्गुगोमयेन कवलान्भोज-
येद्गजम् । पूतीकरञ्जनकमालेन्द्रयवदेवदारुहरीतकीप्रियङ्गुसप्तपर्णनिम्बमुस्तागु-
डूवेरमिति सूक्ष्मचूर्णानि कृत्वा गोमूत्रेणं त्रिरात्रपर्युषितं स्थितं पाययेत् ।
सतस्तं पीत्वैव प्रणदतिं पित्तसंभवं पुराणकृशम् । पिप्पलीपिप्पलीमूलहस्ति-
पिप्पलीत्रिफलाचित्रकैः सह सिद्धं मुद्गयूषं सर्पिषा सुसंस्कृतं पाययेत् । नैव चैनं
भोजयेत्पाण्डुरोगप्रशान्त्यर्थम् ॥

  • यद्यपि त्रिष्वपि पुस्तके 'एकादशः' इत्येव पाठः, तथाऽपि 'दशमः' इत्येव
    पाठो युक्तः शास्त्रसंग्रहाध्यायेऽस्य दशमत्वेनोपन्यासस्य फलितत्वात् ॥
    १ ग. स्कन्दावतर्यामी निगद्यते । २ क. ॰जोजोर्णं॰ । ३ क. संभवति । ४ क.
    ॰नि सलं॰ । ५ क. तेनैव ।

११ पाण्डुरोगाध्यायः ] हस्त्यायुर्वेदः । ७९
इति पैत्तिकः पाण्डुरोगः ॥
अथ कफसंभवं कर्तुसरिं नाम पाण्डुरोगं वक्ष्यामः ।
स यदा वारणस्य स्निग्धमधुराम्ललवणभोजनात्, आनूपमांसयवसभक्षणात्,
अजीर्णादत्यशनात्, शीतसलिलावगाहात्, संचितः श्लेष्मा स्थानाच्च्युतं कोष्ठे
सादयत्यग्निम् ॥
संभवत्यलसो नीलवर्णः सर्वाहारेद्वेषी परिहृष्टरोमा वमति गुरुमक्षिकः,
आध्मातकोष्ठः ॥
तस्य शृङ्गवेरमरिचपाँठारूपककटुकरोहिणीन्द्रयवहरिद्राद्वयतेजोवत्यति-
विषाणि संक्षुद्य सक्षौद्रान्कवलान्भोजयेत् । शिरीषामलकयोस्त्वचा मञ्जिष्ठापि-
प्पलीशृङ्गवेरमधुकमरिचामलकचूर्णानि मधुमिश्राणि भोजयेत् । मैरेयं च प्रति-
पानं दद्यात् । मुद्गयूषेण चैनं संस्कृतेन शाल्योदनं भोजयेत् । वेणुशिरीषयोश्च
पत्राणि व्यर्णिपादं कुरुविन्दकं च यवसं कर्तुसरिव्याधिशमनार्थं दद्यात् ॥
इति श्लैष्मिकपाण्डुरोगः ॥
अथ तपनमरीचिसंतप्ताङ्गो मातङ्गो यदा पथि प्रपीडितो नापगतस्वेदः
सलिलं तथैवोष्णशरीरः सहसा पीतवान्, स पाण्डुरोगमृच्छति । वातजं तं
प्लीहोदरमिति केचिदाहुर्मनीषिणः ॥
संमूर्छति, अवलीयते, विभ्रमति, समुच्छ्वसिति, सीदति, परिपूर्णोदरो विप-
न्नग्रहणीको ध्यानशीलो दुर्मना निरुत्साहो गुरुमक्षिकः कृशो विवर्णो भवति ।
तमेवमवस्थं दन्तिनमभिसमीक्ष्य क्षिप्रं चिकित्सितुमुपक्रमेत ॥
ततो मरिचशृङ्गवेरहरीतकीमांसीमेषशृङ्गीकरवीरमूलैः सह खण्डशः कल्प-
यित्वा कृष्णसर्पमासुतुयात् । तन्मांसं गोमूत्रेण ततश्चैनं पाययेत्पञ्चरात्रम् ।
जीर्णे च भोजयेद्यथोक्तैर्यवसैराच्याधिषु मोक्षामान्यद्देयम् । अथवा त्रिकटु-
करोहिणीमाठातिविषासुरसाशतावरीविन्तीकमहापञ्चमूलविडङ्गाटरूषकहिङ्गु-
सौवर्चलानि क्षोदयित्वा ततश्चतुर्भागावशिष्टमवतार्य क्वाथं मधुमत्स्यण्डिकाशर्क-
रायुक्तं पुनः पाचयेत् । तच्च सान्द्रमवतार्य ततश्चैनं पाययेत् । ततः प्रणष्टव्या-
धिरुत्साही बलवर्णवानभिरामश्च भवति वारण इति ॥
तत्र श्लोकौ—
भिषगिह तु यथोक्तमेनमवेवं विधिमनुसृत्य करोति यश्चिकित्साम् ।
स भवति सततं नृपेण पूज्यो नियतमतिः कुशलः परीक्षककारी ॥
१ क. प्रवक्ष्यामः । २ क. ॰रुमाक्षि॰ । ३ क. अध्यात् । ४ क. ॰पाट-
लाट॰ । ५ क. ॰धुम॰ । ६ क. ॰मरिचसं॰ । ७ ॰पत्रग्र॰ । ८ क. ॰णैऽथ भो॰ ।

१८४ पालकाप्यमुनिविरचितो— [२ महारोगस्थाने-
इति दोषसमुद्भवा गजानां नृपवर कोष्ठगता हि पाण्डुरोगाः ॥
समुपेक्षितवैद्यहीनयोगात्त्रिषु मासेषु भवन्ति ते ह्यसाध्याः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने पाण्डुरोगाध्यायो
द्वादशः* ( य एकादशः ) ॥ ११ ॥
————
अथ द्वादशाध्यायः ।
अङ्गराजो महाप्राज्ञश्चम्पायां पृथिवीपतिः ॥
महाप्रभावमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
ओनाहाः कति ते दृष्टा ओनाह्यन्ते तु यैर्गजाः ॥
विज्ञानं तु कथं विद्यात्किंच तेषां चिकित्सितम् ॥ २ ॥
पृष्ट एवं ममाऽऽचक्ष्व यथावदनुपूर्वशः ॥
भगवन्सर्वमेवैतज्ज्ञातुमिच्छामि तत्त्वतः ॥ ३ ॥
स पृष्टस्तत्र संप्रश्नमङ्गराजेन धीमता ॥
एवमेवानुपूर्वेण पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥
आनाहास्त्विह चत्वारो दृश्यन्ते शास्त्रनिश्चयाः ॥
तांस्तेऽहं संप्रवक्ष्यामि संनिपाताच्च पञ्चमम् ॥ ५ ॥
अत्याशितः स्यादानाहो वातोन्मथित एव च ॥
मृत्तिकाधान्यदोषाभ्यां संनिपाताच्च पञ्चमः ॥ ६ ॥
अतः परं प्रवक्ष्यामि त्रिविधं भेदमागतम् ॥
शुद्धश्च वातोन्मथितो यथावदिति निश्चयः ॥ ७ ॥
संसक्तं तं विजानीयादसंसक्तं तथैव च ॥
धान्यप्रदुष्टं जानीयाद्विविधं भेदसंरूपया ॥ ८ ॥
प्रदुष्टं चामदुष्टं च स्युरष्टौ भेदसंरूपया ॥
विज्ञानमेषां वक्ष्यामि सर्वेषामनुपूर्वशः ॥ ९ ॥
————

  • यद्यपि त्रिष्वपि पुस्तकेषु 'द्वादशः' इत्येवोपलभ्यते, तथाऽपि प्राक्संग्रहाध्याये
    पाण्डुरोगाध्याय एकादशत्वस्यैव ध्वननात् 'एकादशः' इत्येव पाठः समीचीनः ।
    १ क. ख. अमाहाः । २ क. अनाह्यन्ते । ३ क. ख. विन्द्यात्किं° । ४ क.
    °वं समा° । ५ ग. °र्वमेवै° । ६ क. अत्याशिनः । ७ ख. पञ्चमम् । ८ ग. निश्चितः ।