सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 98, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 98

११ पाण्डुरोगाध्यायः ] हस्त्यायुर्वेदः । ७९
इति पैत्तिकः पाण्डुरोगः ॥
अथ कफसंभवं कर्तुसरिं नाम पाण्डुरोगं वक्ष्यामः ।
स यदा वारणस्य स्निग्धमधुराम्ललवणभोजनात्, आनूपमांसयवसभक्षणात्,
अजीर्णादत्यशनात्, शीतसलिलावगाहात्, संचितः श्लेष्मा स्थानाच्च्युतं कोष्ठे
सादयत्यग्निम् ॥
संभवत्यलसो नीलवर्णः सर्वाहारेद्वेषी परिहृष्टरोमा वमति गुरुमक्षिकः,
आध्मातकोष्ठः ॥
तस्य शृङ्गवेरमरिचपाँठारूपककटुकरोहिणीन्द्रयवहरिद्राद्वयतेजोवत्यति-
विषाणि संक्षुद्य सक्षौद्रान्कवलान्भोजयेत् । शिरीषामलकयोस्त्वचा मञ्जिष्ठापि-
प्पलीशृङ्गवेरमधुकमरिचामलकचूर्णानि मधुमिश्राणि भोजयेत् । मैरेयं च प्रति-
पानं दद्यात् । मुद्गयूषेण चैनं संस्कृतेन शाल्योदनं भोजयेत् । वेणुशिरीषयोश्च
पत्राणि व्यर्णिपादं कुरुविन्दकं च यवसं कर्तुसरिव्याधिशमनार्थं दद्यात् ॥
इति श्लैष्मिकपाण्डुरोगः ॥
अथ तपनमरीचिसंतप्ताङ्गो मातङ्गो यदा पथि प्रपीडितो नापगतस्वेदः
सलिलं तथैवोष्णशरीरः सहसा पीतवान्, स पाण्डुरोगमृच्छति । वातजं तं
प्लीहोदरमिति केचिदाहुर्मनीषिणः ॥
संमूर्छति, अवलीयते, विभ्रमति, समुच्छ्वसिति, सीदति, परिपूर्णोदरो विप-
न्नग्रहणीको ध्यानशीलो दुर्मना निरुत्साहो गुरुमक्षिकः कृशो विवर्णो भवति ।
तमेवमवस्थं दन्तिनमभिसमीक्ष्य क्षिप्रं चिकित्सितुमुपक्रमेत ॥
ततो मरिचशृङ्गवेरहरीतकीमांसीमेषशृङ्गीकरवीरमूलैः सह खण्डशः कल्प-
यित्वा कृष्णसर्पमासुतुयात् । तन्मांसं गोमूत्रेण ततश्चैनं पाययेत्पञ्चरात्रम् ।
जीर्णे च भोजयेद्यथोक्तैर्यवसैराच्याधिषु मोक्षामान्यद्देयम् । अथवा त्रिकटु-
करोहिणीमाठातिविषासुरसाशतावरीविन्तीकमहापञ्चमूलविडङ्गाटरूषकहिङ्गु-
सौवर्चलानि क्षोदयित्वा ततश्चतुर्भागावशिष्टमवतार्य क्वाथं मधुमत्स्यण्डिकाशर्क-
रायुक्तं पुनः पाचयेत् । तच्च सान्द्रमवतार्य ततश्चैनं पाययेत् । ततः प्रणष्टव्या-
धिरुत्साही बलवर्णवानभिरामश्च भवति वारण इति ॥
तत्र श्लोकौ—
भिषगिह तु यथोक्तमेनमवेवं विधिमनुसृत्य करोति यश्चिकित्साम् ।
स भवति सततं नृपेण पूज्यो नियतमतिः कुशलः परीक्षककारी ॥
१ क. प्रवक्ष्यामः । २ क. ॰रुमाक्षि॰ । ३ क. अध्यात् । ४ क. ॰पाट-
लाट॰ । ५ क. ॰धुम॰ । ६ क. ॰मरिचसं॰ । ७ ॰पत्रग्र॰ । ८ क. ॰णैऽथ भो॰ ।