हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 94, कुल 742 में से
संदर्भ में पढ़ें१० स्कन्धाध्यायः ] हस्त्यायुर्वेदः । ७६
कर्तव्या नृपशार्दूल पालकाप्यमतानुग ॥
महारोगो यतश्चायं पतनाच्च महद्भयम् ॥ ३६ ॥
उभयत्र महत्त्वाच्च महापाकफलसंज्ञितः ॥
सुरेशापाद्गजेन्द्राणामन्तःस्वेदितुमोहितुम्(?) ॥ ३७ ॥
न चोष्मलक्षणस्तेषां दन्तिनां जायते ज्वरः ॥
तेनोष्मलक्षणस्तेषां ज्वरः समनुकीर्तितः ॥ ३८ ॥ ७४६ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ज्वर-
हेतुविनिश्चयो नामाध्यायो ⁺दशमः ( नवमः) ॥ ९ ॥
अथ दशमाध्यायः ।
अथातः स्कन्धाध्यायं व्याख्यास्यामः ॥
अङ्गाधिपतिः पालकाप्यमागतमभिवाद्य प्राञ्जलिरुत्थायोवाच रोमपादः—
“स्कन्दा नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथं वा
साध्याः स्युः” इति ॥
स एवमुक्त उवाच पालकाप्यः—स्कन्दा नामावस्कन्दनाज्जीवितस्य ।
शोषणं स्कन्दनमित्यनर्थान्तरम् । तस्मात्स्कन्दा इत्युच्यन्ते । शरीरापतना-
चापतनकाः । क्षुद्धात्संजायते वातात्संपित्ताच्च कफाच्च वातैः सेहिताश्चयः
स्कन्दा भवन्ति । तेऽन्तरायाम—बहिरायाम—व्याविद्धस्कन्दा इति त्रयः ।
तेषामेकः कृच्छ्रसाध्योऽन्तरायामः । बहिरायाम—व्याविद्धस्कन्दौ द्वावसाध्यौ ॥
तत्रान्तरायामस्योत्पत्तिं निदानं चिकित्सितं च वक्ष्यामः ।
स तिक्तकटुकषायरसोपयोगात्, व्यायामव्यवायात्, अत्यध्वगमनाच्च विष-
मविरुद्धरूक्षाशनात्, अध्यशनादपि च विपर्यासान्मनसश्चोपतापात्, यवसानां
च विपन्नगिरिजशुष्काणामुपयोगात्, वधबन्धाभ्याम्, मिथ्याभिघातात्प्रतह-
⁺ यद्यपि पुस्तकत्रये 'दशमः' इत्येव पाठ उपलभ्यते, तथाऽपि 'नवमः' इत्येव
युक्तम्, अस्याध्यायस्य पाकलरूपज्वरहेतुविनिश्चयत्वात्, पाकलाध्याय—स्कन्धाध्याय-
योर्मध्येऽस्य पृथक्संग्रहाध्यायेऽपरिगणितत्वाच्च । यद्वाऽग्रे स्वेद—शान्तिरक्षाध्याययो-
रिवात्राध्यायसंख्याभाव एव । अत्रोल्लेखस्तु प्राज्ञेन कृत इति प्रतिभाति ॥
१ क. °रसाया गजे° । २ क. °मादिवाम् ॥ ३७ ॥ ३ क. चोष्मा ल° ।
४ क. °त्स्कन्द इत्युच्यते । ५ ख. °पतानाच्चापतान° । ६ ख. सहितास्त्रयः ॥
७ ख. °त्पत्तिनो ।