हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 89, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 89
७० पालकप्यमुनिविरचितो— [ १ महारोगस्थाने—
'इह खलु भो नवमः पुण्डरीको नाम पाकलः संभवति रूक्षकटुकषायक्षार-
तिक्कलवणतीक्ष्णोष्णाम्ललघुविषमभोजनात्तस्य मारुतः कुपितो रक्तं पित्तं च
शरीरे समन्ताद्विक्षिपति । ततोऽस्य लिङ्गानि दर्शयति—
करचरणजघनोदरोरुपृष्ठपार्श्वाण्डकोशमुखशिरोग्रीवाङ्गुलिलाङ्गुलेषु यत्र वा
तत्र देशेष्वसितहरितनीलपीतरक्तारुणानामन्यतमवर्णानि कृष्णपर्यन्तानि मण्ड-
लानि प्रादुर्भवन्ति भृशवेदनानि सोष्माण्यग्निदग्धानीव विसर्पीणि पुण्डरीकप-
त्रप्रतिमानि यतः, तत एष पुण्डरीकपाकलो विसर्पः ।
तेनोपसृष्टो वारणः कर्दमेन पांशुभिश्च विकिरति मण्डलानि बहुश उष्ण-
द्वेषी संमीलितनयनः कूजति निःश्वसिति दह्यमानः ।
तस्य पूर्वं पवनमेवोप