हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 82, कुल 742 में से
संदर्भ में पढ़ें९ पाकलाध्यायः ]' हस्त्यायुर्वेदः । ६३
यस्येभीक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिभूतः
स्वपिति, ध्यायति गुरुमक्षिकः । गात्राणि च निरस्यति स्विन्न इव दुर्मना
निकर्षति पूर्वकायम्, कृशश्च हारिद्रवर्ण इव दृश्यते । कथंचित्कवलमेकं द्वौ वा
ग्रसते परं त्रीन, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते । शनैः शनैः
क्षीयत इति मृदुग्रहः । तं राजयक्ष्मेत्याहुः । केचिद्गृहीतमात्रमेवोपक्रमेत, उपे-
क्षितो हि न शक्यश्चिकित्सितुमिति ॥
काश्मर्यप्रियङ्गुगोमेदकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं
द्रोणमात्रं कषायं यावद्वा॑ साधु मन्यते, तावत्तन्मधुसंयुक्तं पाययेत् । वमथुप्रश-
मनार्थं सोभाञ्जनकाजगृष्टीबिल्वानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथु-
प्रशमनार्थं कर्णिकारत्वक्शल्लकीबीजमृणालिकातालीशपत्रप्रियङ्गुविदारीकन्दह-
रीतकीबर्बरतृणानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथुनाशनो भूयश्चैष
गणः-कर्णिकारादिरर्केक्षारसंयुक्तः समधुर्वमथुमुपहन्ति । अथवा शार्ङ्गेष्टाबि-
ल्वातिन्दु कीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुप्रशमना-
र्थम् । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनबृंहणानि योगतः कुर्यात् ।
काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्वाथेन सर्पिर्मण्डं विपाच्य
तेन स्नेहेन विधिवदनुवासनं दद्यात् । यवबदरचूर्णानां मधुसंयुक्तं द्रोणमात्रं तु
भोजयेत् । निस्तुषांस्तु माषान्दध्युदश्विदम्लसिद्धान्सर्पिषा प्रभूतेन युक्तान्स-
लवणान्भोजयेत् । वेणुपर्णाशिनमथैनं कृशरां सुस्निग्धसलवणां भोजयेत् । सायं
चैनं वाराहेण मांसेन सुस्निग्धेन सुलवणेन भोजयेत् । अथवा स्वरैकरभतुरग-
शशकपुवंगोरभ्रशूकराणां मांसैर्दधिमस्तुसुरासौवीरकघृतमण्डेषु रसं कृत्वा पाय-
येत् । एतेषामेव यथोपपत्त्या बेसवारैर्भोजयेत्ससर्पिष्कैः । कङ्गुयवगोधूमचूर्णानि
तिलमाषयोश्च निस्तुषयोः कृत्वा तेषां. नव भागान्दशमं पिप्पलीशृङ्गवेरयोश्चू-
र्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघृताभ्यां सह भोजयेत् । शृङ्गाटकोशी-
र शतावरीमूर्वाविशमृणालविदारीकशेरुकाः पयसि समावाप्य दधि जातरसं
कृत्वा सौवीरकघृतमण्डेषु बदरक्षोदमिश्रेषु च्छागमृगमांसं साधयित्वा रसं पाय-
येत् । मांसेन चैनं भोजयेत् । बिल्वतिन्दु कीघोण्टामलकफलानि प्रियङ्कुकुभा-
शोकवल्लीनां त्वक्चूर्णैरासु॑नुयात् । आसवं तं मांसस्थितं जातप्रमाणमासायंभो-
जनादष्टभागं दद्यात् । काचमाचीपत्रफणिज्जकाश्मन्त कफलचूर्णैश्च नस्यप्रधमा-
पने कुर्यात् । श्वशृगालखरनकुलानां मांसोष्मणा स्कन्धे स्वेदं कुर्यात् । एकस्य
१ क. °द्वा सामधु मन्येत । तावत्तन्मध्ये सं° । २ क. °रतुर°। ३ क. ख.
°सुनया° । ४ ख. स्कन्धस्वेदं ।