हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 91, कुल 742 में से
संदर्भ में पढ़ेंशाकवल्कीक्षुण्णान्मधुमिश्रान्कवलान्दद्यात् । ( *अथवाऽश्मन्तकमुष्क)कोदु-
म्बरप्लक्षणां त्वचः कल्पयित्वा गोक्षुरकमधुरसाजीवन्तीबिल्वानि कुरुविन्दं वा
क्षोदयित्वा क्वाथयेत् । तेन क्वाथेन तैलं पक्त्वा नागमनुवासयेत् । अश्वाश्वतर-
खरोष्ट्रमहिषाणां मांसरसैः पानभोजनमुपहरेत् । तेनास्य नश्यतः कफपवनौ ।
तत्र श्लोकाः—
इत्येते नृपवर पाकला दशोक्ता भेषज्यैः सह सनिदानसंभवास्ते ।
तत्र द्वौ परमसुदारुणावसाध्यौ यः शुद्धो भवति हि कूटपाकलश्च ॥
अष्टानामिह हि चिकित्सितं मयोक्तं सर्वे ते नृपवर मृत्युदण्डकल्पाः ।
यो देशप्रकृतिवयःप्रमाणसात्म्यान्यायुश्च प्रतिगजमीक्ष्य शास्त्रचक्षुः ॥
नागानां ज्वरमुपहन्ति पाकलाख्यं कर्मज्ञः स भवति राजहस्तिवैद्यः ।
एतान्यो भिषगिह साधयेत्स पूज्यो वेदज्ञैरिव हवनेषु वज्रहस्तः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
पाकलाध्यायोऽष्टमः ( नवमः ) समाप्तः ॥ ९ ॥
अङ्गराजो महाप्राज्ञः कुबेरसमविक्रमः ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् ॥
तत्र मे संशयः कश्चित्तं मे शंसितुमर्हसि ॥ २ ॥
शुद्धश्लेष्मसमुत्पन्नः शुद्धपाकलमादितः ॥
प्राग्भागोष्णः कथं तेन पश्चाद्भवति शीतलः ॥ ३ ॥
ने चोष्णलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥
कथं साध्यश्च बालोऽत्र कूटश्चैव न सिध्यति ॥ ४ ॥
समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तितौ ॥
पक्लः पुण्डरीकश्च वात्पित्तोद्भूतावुभौ ॥ ५ ॥
विकारेषु विरुध्येते चिकित्सायां तथैव च ॥
शनैः क्षीयेत वा केन हेतुनाऽथ मृदुग्रहः ॥ ६ ॥
कथं च भूतसंसृष्टो दुष्टः कुक्कुटपाकलः ॥
देवाच्च केचिदिच्छ्रान्ति दोषतश्चापरे जनाः ॥ ७ ॥
* धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति ।
† नवम इत्येव युक्तम् । यद्वाऽयमध्यायसमाप्त्युल्लेख एव प्रामादिकः, प्रथम-
स्थानेऽष्टादशाध्यायप्रतिज्ञाविरोधात् ।
१ क. यादृशः प्रकृतिवयोऽप्रमा° । २ ग. तवोक्तल्° ।