हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 95, कुल 742 में से
संदर्भ में पढ़ें७६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
स्यभिघातान्मदबलक्षपादुपधांमिश्च योगतः कुपितः पवनः सर्वाङ्गमनुसृतस्ते-
मवस्कन्दयति ॥
ततो विनमति, संकुचति कूजति विजृम्भते ( *प्रवेपते ) भ्रमति पतति
निःश्वसिति परिवर्तते नदति ताडयति ध्यायति, शिरसा भूमिं गच्छति,
निस्तब्धताम्रनयनः परिशुष्कताल्वोष्ठमुखः कृच्छ्रावस्थो वायुना पीड्यमानहृ-
दयशरीरग्रीवागात्रापरः, ततः पुनश्चाष्ठीवाभ्यां गतो भूमिम्, उरो निर्भुजति,
शिरो विधुनोति चैकपक्षमिव हतः, स्पन्दति नयनमेकम्, सृक्के कपोलमोष्ठं वा,
घुरुघुरायमाणकण्ठः पुनश्च नष्टसंज्ञः पुनर्मृदुवेगः पुनश्च बलवत्पीड्यते । तस्यैतै-
र्निदानैरन्तरायामं निष्केवलं वातजमभिसमीक्ष्य चिकित्सितमुपक्रमेत ॥
स तु कदाचित्सिध्यतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः ।
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकैः
स्पृक्काचोरकवोचपत्रतगरैः स्थौणेयजातीरसाः ।
शुक्तिर्व्याघ्रनखामराह्वमगरुः श्रीवासकं कुङ्कुमं
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयः ॥
एलादिको वातकफौ विषं च विनियच्छति ।
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः ॥
इत्येलादिगणः ।
ततः शोभाञ्जनकमूलैः सर्वगन्धैः सहिङ्गुयवघृतैर्धूपयेत्, करकर्णगुदनाभि-
मस्तककटनिर्याणानि सर्वच्छिद्राणि बहुना, बहुशः सर्वं वाऽपि शरीरम् । ततः
पुनर्नवाग्निमन्थयूथिकार्कारीवरुणकमधुशिग्रुरोहिषहिंस्रातिलचूर्णान्युरुबूकसा-
रिवांशुमतीपृश्निपर्णीबृहतीद्वयवरुणकैन्तिन्दुकभद्रोदुम्बरीवृक्षादनीः क्वाथ-
यित्वा कम्बलप्रतिच्छन्नशरीरस्य परिषेकं बहुशो विदध्यात् । ततः पञ्च-
मूलाभ्यां वसुकर्वासिरपिप्पलीमूलहस्तिपिप्पलीकपित्यदेवदारुयवर्वचाशृङ्गवे-
रगोक्षुरकसारिवाचित्रकान्समर्सालिले दुग्धे विपाचयेत् । ओवापं चात्र दद्यात् ।
बिल्व(*घृतशालिपिष्टान्युपसंहृत्य परिस्राव्य विधिवत्पाचयेत् । ततः शणमू-
लाढकीमधुशिग्रूणां बीजानि ) कर्पासास्थीनि तिलयवातसीमाषसर्षपदेवदारुष्ट-
- धनुराकारचिह्नान्तर्गतः पाठः कपुस्तके नास्ति ।
१ ख. ०मिश्रायो० । २ क. ०स्तदव० । ३ क. ध्याययति । ४ क. ०रीरो
ग्री० । ५ क. विषयं च नि० । ६ क. ०गुदानाभिमस्तकानि० । ७ क. ख. ०कटि-
ष्ट्क० । ८ ख. ०वसाशृ० । ९ क. आदाय ।