सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 86, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 86

९ पाकल्याध्यायः ] हस्त्यायुर्वेदः । ६७
हतवासास्तत्र यथोक्तमुपहृत्याग्निं प्रागुत्तराग्रैर्दर्भैर्हस्तिनीसमीपे स्थण्डिलं परि-
स्तीर्योदुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौदुम्बरीभिः समिद्भिर्वह्निं
प्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चयित्वा गोदधिमधुघृततिलैर्वरुणाय हुत्वा
प्रसन्नां मैरेयं सीधुमुपहृत्य बलिं ब्राह्मणान्स्वस्ति वाचयित्वा वैद्यः प्राङ्मुखो
रात्रौ मन्त्रेणानेन जुहुयात् — 'नमोऽस्तु वरुणदेवाय सह नदीभिः स्वाहा ।
नमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा'
हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायापहरेत् । सीधुं मैरेयं
प्रसन्नां सुरामुद्धृत्य बलिं रात्रौ कृताञ्जलिर्वैद्यः प्रयतो हस्तितीर्थाभिमुखो मन्त्र-
मिमं ब्रूयात् —
इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा ।
तमिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम् ॥
येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः ।
शक्तो निर्विषयं कर्तुमिन्द्रदत्तो न संशयः ॥
मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति ।
तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट (स्त्वं) नमोऽस्तु ते ॥
रक्षोभिस्तु गृहीतानां ददाति पिशितौदनम् ।
गन्धर्वैर्किन्नरेभ्यस्तु गीतवादित्रनिःस्वनम् ॥
नागेभ्योऽपि नृपो दद्याद्दधि कुल्माषमोदनम् ।
इति त्रिरुक्त्वा† भूयश्चिकित्सितुमुपक्रमेत् ॥
कालकन्दाविदारीकुम्भीकानि तिलपिष्टं च सहोत्क्वाथ्य नाडीस्वेदं कुर्यात् ।
अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशैवालनलिनकुवलयानि निष्क्वाथ्य
नाडीस्वेदं कुर्यात् । उदक्यो हृत्पलकन्दैश्च घृतेन संसृज्य धूपयेच्छ्रो(त्सो)तोभ्यः।
अथवा मत्स्यकच्छपकुक्कुटैः सघृतैर्यवहिङ्गुभिर्धूपयेत् । जलचराणां च सत्त्वानां
शिशुमारादीनां रसेन भोजयेत् । अथवाऽजगरमकरचर्मराजीरसेन भोजयेत् ।
जलचराणां च पक्षिणां यथालाभं रसेन भोजयेत् । अयोगुडैरुष्णमम्भः पाययेत् ।
आव्याधिप्रमोक्षाच्च वेल्लनलङ्घनप्रसारणचङ्क्रम‌णानि शनैःशनैः कारयेत् ।
नदीं चैनं न गमयेदिति ॥
अत्र श्लोकौ—
† इति त्रिरुक्त्वाऽसौ भूय इति पाठः कदाचिद्भवेत् ।
१ क. °न्नां सुरा° । २ क. °मिन्द्रपा° । ३ क. शक्रो । ४ क. °कुम्भि-
कानिल° । ५ क. °क्याद्युत्प° । ६ क. °न्तं विग° ।