हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 85, कुल 742 में से
संदर्भ में पढ़ेंHere is the accurate transcription of the text from the provided image:
पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
य एनं साधयेद्वैद्यः कष्टं कुक्कुटपाकलम् ।
पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः ॥
इति कुक्कुटपाकलः ( लहेतुलक्षणचिकित्सितानि ) ॥
अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह
भगवान्पालकाप्यः ॥
इह खलु भो वरुणग्रहो नाम दैवाद्ववति दोषादित्येके । तस्य दैवादुत्पन्नस्य
तावत्कारणं ब्रूमः । अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वविशे-
षेष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीपज्ञेषु
नैगबन्धनेषु पाययन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्मोहादज्ञानाद्वा,
तदा वरुणस्तेनाभिभूयते । अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनाद-
मर्दनाच्छून्यागारचतुष्पथमहानीसंकटनिर्झरनिकुञ्जेषु सुदारुणेषु ( *महाप-
थनगरसंगमपथेषूग्रदारुणेषु ) तिथिनक्षत्रेषु श्मशानपरिवांसाद्भवति । अथवा
मन्त्रयोगादुग्रसिद्धचारणमातङ्गशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्च
मायाविभिरुपहारार्थं गृह्णतस्तथा भवति । भवति च भूतपिशाचयक्षराक्षसनिररी-
षणात् । तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः—
हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिकु(क्र)प्तुं
वा बद्ध इव भवति, निःश्वसिति ( *भ्रमति परिणमति ) संकुचति नदति
ध्यायति पर्यश्रुनयनः, तस्यैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः । तस्य
स्थले जले वा निषण्णस्य निवृत्तं चिकित्सतम् । अथापिं पन्तारमिति विचिन्त-
यन्धावति स्थलाज्जलाद्वा । यदा चै कमलकुमुदकुवलयतामरसकल्हारोत्प(*ला-
नामन्येषां वा ज)लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवृत्ता प्रति-
क्रिया । प्रकृतिस्थगन्धस्यापि सतो यदि ( *भवति ) हरितालहिङ्गुलमनः-
शिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः । अविवर्णस्यापि
विगन्धस्य प्रभावतः .करगात्रापरोदीनां व्यापाराणां पक्षस्तनस्तब्धस्यापि
सतोऽङ्गस्य प्रतीकारं वक्ष्यामः—
स्वस्तिकापूपसंयावपूषोल्लापिकापरमान्नगन्धधूपसंयुक्तानि स्थलजलजानि
कुसुमान्याहृत्य सौवर्णान्स्वस्तिकांश्चोपहृत्य कन्याः संतोष्यित्वा कृतमङ्गला अहते
वाससी परिहिता नद्या बलिमुपहरेत्ततूर्यघोषैः । वैद्यश्चाप्युपवासं (स) प्रयतोऽ-
- 'धनुराकारचिह्नचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति ॥
१ क. ०ष्वविशेष्व० । २ क. नागबन्धेपु । ३ क. ०वासवङ्ग० । ४ ख.
०पि यातार० । ५ क. ०वृत्तप्र० । ६ क. ०राण्या० । ७ ख. ०हंतवा० ।