हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 97, कुल 742 में से
संदर्भ में पढ़ें७८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
असाध्यरूपौ द्वौ स्कन्दौ तयोर्यत्नो न विद्यते ।
अन्तरायाम एकस्तु सोऽपि सिध्यति वा न वा ॥
तमप्रपन्नो यत्नेन चिकित्सितुमुपाचरेत् ।
यथोक्तेनोपचारेण शास्त्रार्थकुशलो भिषक् ॥
अशनिरिव तरून्महेन्द्रमुक्तो दहति तृणानि यथाऽनलः प्रदीप्तः ।
द्विरदमपि तथा हिनस्ति रोगो नृपवर मूर्खभिषक्कृतप्रयोगः ॥ इति ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगाधिकारे स्कन्धाध्यायः
*एकादशः ( दशमः ) ॥ १० ॥
═════════════════════════════════
अथैकादशाध्यायः ।
अथ कदाचित्पालकाप्यमागतमभिवाद्योपविष्टमुवाचाङ्गराजो रोमपादः—
'पुराणकृश इत्युपदिष्टः संग्रहाध्याये पूर्वं भगवता, स कथम्' इति ॥
ततः प्रोवाच भगवान्पालकाप्यः—पुराणकृशः, पाण्डुरोगः, इत्यनर्था-
न्तरम् । ते त्रयस्त्रिभिर्दोषैः संभवन्ति वातपित्तकफैः, तत्र पित्तसंभव-
मेवाऽऽदौ वक्ष्यामः ॥
स गजो जीर्णाजीर्णविदग्धभोजनादम्ललवणप्रायादाहारादत्युष्णाध्वगमना-
त्परिश्रान्तनिर्वाणात्ससहसा पित्तमुदीर्णं वायुः समन्ताच्छरीरे विधुनोति ॥
ततः स भवति कृशः पाण्डुः, अलसः, नान्नभिलाषी, ध्यानशीलः । तं
पुराणकृश इति ब्रूमः पाण्डुरोगम् ॥
तस्य पित्तोद्भूतस्य शान्त्यै हरिद्राबृह्त्यौ मरिचपिप्पलीविडङ्गानि सम-
भागानि लवणयुतानि चार्धभागानि कृत्वा स( र )ङ्गुगोमयेन कवलान्भोज-
येद्गजम् । पूतीकरञ्जनकमालेन्द्रयवदेवदारुहरीतकीप्रियङ्गुसप्तपर्णनिम्बमुस्तागु-
डूवेरमिति सूक्ष्मचूर्णानि कृत्वा गोमूत्रेणं त्रिरात्रपर्युषितं स्थितं पाययेत् ।
सतस्तं पीत्वैव प्रणदतिं पित्तसंभवं पुराणकृशम् । पिप्पलीपिप्पलीमूलहस्ति-
पिप्पलीत्रिफलाचित्रकैः सह सिद्धं मुद्गयूषं सर्पिषा सुसंस्कृतं पाययेत् । नैव चैनं
भोजयेत्पाण्डुरोगप्रशान्त्यर्थम् ॥
- यद्यपि त्रिष्वपि पुस्तके 'एकादशः' इत्येव पाठः, तथाऽपि 'दशमः' इत्येव
पाठो युक्तः शास्त्रसंग्रहाध्यायेऽस्य दशमत्वेनोपन्यासस्य फलितत्वात् ॥
१ ग. स्कन्दावतर्यामी निगद्यते । २ क. ॰जोजोर्णं॰ । ३ क. संभवति । ४ क.
॰नि सलं॰ । ५ क. तेनैव ।