हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१९ भक्तग्रासोपरुद्धाध्यायः ] हस्त्यायुर्वेदः । ३१६
प्रदीपयेत्तु नागस्य तस्य मध्ये हुताशनः ।
इन्दुराकाशमास्थाय यथा दीपस्तथाऽम्भसः ॥
तिष्ठतिष्ठमितो(?)दीपांस्तथा बलिनमम्भसि ।
गजानां नाभिमध्ये तु यवमात्रोऽवतिष्ठते ॥
ह्रस्वकायेषु चान्येषु तिष्ठेत्त्रुटिप्रमाणतः ।
कृमिकीटपतङ्गेषु वल्लमात्रोऽवतिष्ठते ॥
सूर्यो दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः ।
विशोषयति सर्वाणि पल्वलानि सरांसि च ॥
तद्वद्गजानां संभुक्तं जठरो नाभिमाश्रितः ।
मेषुश्च(?) क्षिपमादत्ते सूर्यकान्तो मणिर्यथा ॥
दन्तिनां भोजनं दत्तं नानाद्रव्यसमायुतम् ।
क्षिप्रं सम्यक्प्रदहति तेजोधातुसमायुतः ॥
जाठरो जलसंभूतस्तद्गतिस्तत्परायणः ।
दीप्तेश्च करणा(त्)कोष्ठे सलिलेन च पूरयेत् ॥
अग्निसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
अग्निसोमात्मको राजन्दन्तिनां च चतुर्विधः ॥
सूर्यात्मकानि यात्रीणि(?)पस्मात्सोमात्मकानि च ।
(?)संहृत्पान्सनै तस्मात्खण्डानि न खादति ॥
चिकित्सेद्यस्तु सीदन्तं विषमं चापि दन्तिनाम् ।
आयुर्वेदाभियोगेन स वै राज्ञां चिकित्सकः ॥
उक्तग्रासोपरुद्धस्य लक्षणं संप्रवक्ष्यते ।
वारणानां पुरा राजन्यथावदनुपूर्वशः ॥
मधुराभोजना नित्यमव्यायामास्तथैव च ।
मृत्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः ॥
विदग्धभोजनाद्वाऽपि रात्रौ जागरणेन वा ।
जीर्णाजीर्णाशनाद्वाऽपि सततं पृथिवीपते ॥
हृदये श्लेष्मणा दिग्धे नाभिनन्दति भोजनम् ।
पित्तं च तनुतां याति ग्रहणी चास्य हीयते ॥
१ क. ॰दीपं तन्न ना॰ । २ क. संयुक्तं । ३ क. जील्मुजिल्म्बश॰ ।
११६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने ]
उष्णालुर्वातशीलश्च दुर्मना गुरुमस्तकः ।
भक्तद्वेषं च तं रोगं विद्याच्छ्लेष्मोपसर्जनात् ॥
विज्ञानमेतद्व्याख्यातं चिकित्सितमतः शृणु ।
द्वे पञ्चमूले संहृत्य पिप्पलीमूलमेव च ॥
हस्तिपिप्पली (लीं) च चिरबिल्वैः सह विपाचयेत् ।
विपक्वमनुपूर्वेण सुखोष्णमनुपाययेत् ॥
एतत्पीत्वा तु राजेन्द्र ततः संपद्यते सुखी ।
पिप्पलीं शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् ॥
हस्तिमूत्रेण संयोज्य तैलेन च नराधिप ।
सपञ्चलवणां शुण्ठीं पिप्पलीमूलसंयुताम् ॥
ग्रहणीदीपनं देयमेतत्पानमनेकपे ।
नागपिप्पलिमाहृत्य हस्तिमूत्रेण पेषयेत् ॥
एवं प्रतिनये दद्यात्केवलं युक्तितो भिषक् ।
दीप्यते ग्रहणी तेन यवसं वाऽभिनन्दति ॥
हृष्टपुष्टमनाश्चैव न भवत्येव वारणः ।
यवसान्युष्णवीर्याणि कफघ्नानि च दापयेत् ॥
अग्नेर्विवर्धमानस्य पानं भोजनमिष्यते ।
यथा हि मथनादग्निः स्वल्पोऽरणिसमुत्थितः ॥
पूर्वं गोमयचूर्णेन ततस्तृणेन वै नृप ।
क्रमशः तनुभिः काष्ठैः स्थूलैश्च तदनन्तरम् ॥
विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि ।
एवं गजानां विधिवच्छनैराग्निरुदीरितः ॥
भुक्तं सर्वमशेषेण दहत्यग्निरिवेन्धनम् ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
भक्तग्रासोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
अथ षट्षष्टितमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
द्रोणीक इति यः पूर्वं संग्रहे समुदाहृतः ॥
१ क. ॰ष्णानुर्वीनशी॰ । २ क. ॰लीमरिचबि॰ । ३ क. ॰पाचये॰ । ४ ख. पीषयेत् । ५ क. ख. हिमवना॰ ।
११ द्रोणीकाध्यायः ] हस्त्यायुर्वेदः । ३१७
तस्य व्याधेश्चिकित्सां च लक्षणं संप्रवक्ष्व मे ।
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ।
द्रोणीकशोफो विज्ञेयो जठरे पञ्चधा नृप ॥
निदानानि पृथक्तस्य चिकित्सां च प्रचक्षते ।
तत्राऽऽदौ वातिकस्तावच्छ्वयथुः संप्रवर्तते ॥
व्यायामाच्च व्यवायाच्च रूक्षादपि च भोजनात् ।
तथा बन्धाच्च विविधादतिशीतेन वा तथा ॥
शकृन्मूत्रोपरोधाच्च दुःस्थानाद्वा तथा पुनः ।
उदरे मारुतः शोफं जनयेत्तस्य हस्तिनः ॥
शोफाभिभूतश्च भृशं भ्रममाप्नोति वारणः ।
चञ्चलो मृदुभूतश्च चिरात्पाकं न गच्छति ॥
विविधं स्वभावाद्वातात् .... .... .... .... ।
श्वयथुः स्यात्स विषमस्त्वग्रतो ह्यनवस्थितः ॥
मालतीं सुरसां वंशं (※पाटलां) काटरूषकम् ।
अर्कं मधूकं तर्कारीं तिलपिष्टं च पाययेत् ॥
नाडीस्वेदो घृताक्तस्य .... .... .... .... .... ।
.... .... .... (†वसाया) नाडीस्वेदो विधीयते ॥
तण्डुलानतसीं किण्वं दध्यम्लेन विपाचयेत् ।
रात्रिपर्युषितं शीतं प्रदेहं तस्य कारयेत् ॥
साकपर्णी .... स्वरां .... वसां तैलं घृतं दधि ।
जलजानां च सत्त्वानां मेदो मांसं च पाययेत् ॥
स्वभ्यक्तं सर्पिषा शोफं सुखोष्णं तं प्रलेपयेत् ।
स्योनाकं पाटलीं बिल्वं काश्मर्यं वेणुपत्रिकाम् ॥
आरग्वधं कुवेराक्षीं मेषशृङ्गीं ससैन्धवीम् ।
सुवहां तालपत्रीं च सूक्ष्मपिष्टानि कारयेत् ॥
(※सुखोष्णं सघृतं चैव प्रदेहस्तस्य युज्यते ।
- खपुस्तके त्रुटितम् । †कपुस्तके नास्ति । ※ धनुराकारमध्यस्थाः श्लोकार्धी
न कपुस्तके ।
१ क. तस व्याधिचिकि० । २ क. घृताभ्यक्त । ३ क. सस्वरां ।
३१८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
स्नेहपानं च नागस्य गात्राभ्यङ्गं च दापयेत् ।
औदकानां च सत्त्वानां रसैस्तं प्रति भोजयेत् ॥)
अशान्तौ सर्वथा शोफे क्षिप्रं रक्तं प्रमोक्षयेत् ।
निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रतिचूर्णयेत् ॥
गृहधूमहरिद्राभ्यां साकुष्ठां सैन्धवेन च ।
इत्येष वातिकः प्रोक्तो वक्ष्यते पित्तसंभवः ॥
अम्लोष्णभोजनान्नित्यं कटुकात्यशनादपि ।
लवणस्यातियोगाच्च पित्तवातं प्रकुप्यति ॥
उरोद्रोणीं समाश्रित्य श्वयथुस्तस्य जायते ।
श्वयथुस्तस्य पीताभो रक्ताभश्चापि लक्ष्यते ॥
पित्ताद्दाहस्तु नागस्य क्षिप्रं पाकं च गच्छति ।
हस्तिकर्णपलाशानि श्लक्ष्णचूर्णानि कारयेत् ॥
सर्पिषा सह संयोज्य प्रदेहं तस्य कारयेत् ।
श्यामामंशुमतीं चैव एरण्डं लशूनानि च ॥
दद्यात्प्रपौण्डरीकं च विषामतिविषां तथा ।
मकरस्य च मांसानि गोमांसं चैव पोचयेत् ॥
दार्वाप्रलेपं विज्ञाय ततस्तमवतारयेत् ।
तेन प्रदेहं नागस्य बहलं तस्य दापयेत् ॥
समूलमिह संहृत्य धत्तूरं सारिवां तथा ।
पयसा सह पिष्टानि प्रदेहः सघृतो भवेत् ॥
अतिप्रवृद्धे श्वयथौ प्रच्छन्नं तस्य कारयेत् ।
निर्दोषं शोणितं दृष्ट्वा कषायैः प्रति चूर्णयेत् ॥
अश्वत्थस्य कषायेण सर्जस्य ककुभस्य च ।
हरिद्रागृहधूमाभ्यां लशुनैः सैन्धवेन च ॥
इत्येष पित्तजः प्रोक्तो वक्ष्यते कफसंभवः ।
नागस्याल्पप्रचाराच्च वसन्ते संचितः कफः ॥
उदरे श्वयथुस्तस्य जायते श्लेष्मसंभवः ।
दारुणः कठिनश्चैव शीतो वै मन्दवेदनः ॥
एतद्वै तस्य विज्ञानं व्याख्यास्यामश्चिकित्सितम् ।
गोमयं वेणुपत्राणि स्वेदार्थे पाचयेद्भिषक् ॥
१ ख. पाययेत् ।
११ द्रोणीकाध्यायः ] हस्त्यायुर्वेदः । ३१९
घृतेन पूर्वमभ्यक्ते दद्यात्संसवेदनं गजे ।
(*द्रोणीं विषा)मतिविषां सुवहां तालपत्रिकाम् ॥
कोशातकीं लोङ्गलकीं चित्रकं हस्तिकर्णिकाम् ।
शृङ्गवेरं हरिद्रां च कल्कपिष्टानि कारयेत् ॥
हस्तिमूत्रेण संसृष्टं सुखोष्णं स्यात्प्रलेपनम् ।
कुष्ठं चातिविषां चैव तगरं देवदारु च ॥
स्वर्जितांशुमतीं चैव हरिद्रां चित्रकं तथा ।
.... .... .... .... ....'बीजां सैन्धवं तु समाहरेत् ॥
हस्तिमूत्रेण पिष्टानि प्रदेहं तस्य कारयेत् ।
पुनर्नवे त्रिकटुकं विडङ्गान्यथ सैन्धवम् ॥
तीक्ष्णगन्धां हरिद्रे द्वे करवीरं सचित्रकम् ।
पीषयेद्धस्तमूत्रेण मूलं वरुणकस्य च ॥
सुखोष्णं घृतसंयुक्तं प्रदेहं तस्य कारयेत् ।
पत्रैर्निम्बपटोलाभ्यां मुद्गयूषं विपाचयेत् ॥
ततः शाल्योदनं तेन भोजयेद्वारणं भिषक् ।
विवृद्धिश्च यदा तस्य कार्यं शोणितमोक्षणम् ॥
निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रति चूर्णयेत् ।
कटुरोहिणीपिप्पल्या कुशसैन्धवसर्षपैः ॥
स एव भूयो मांसेन मेदसा वा यदा भवेत् ।
यदाऽतिकठिनो राजन्कृच्छ्रसाध्यश्च जायते ॥
ततस्तं स्वेदनाभ्यङ्गैस्तैलपानैः प्रमर्दनैः ।
पानलेपनयोगैश्च यथोक्तैः समुपाचरेत् ॥
तीक्ष्णैः कषायैः कटुकैस्तैलंस्य च निषेवणैः ।
व्यायामर्दोषहरणैः शोफमेवं जयेत्कफात् ॥
द्रोणीकायां तु भिन्नायां शोधनानि प्रदापयेत् ।
द्विव्रणीये यथोक्तानि तैलानि च विपाचयेत् ॥
इत्येष कफजः प्रोक्तो वक्ष्यते शोणितात्मकः ।
क्षारतीक्ष्णाम्ललवणैराहारैर्भोज्यते यदा ॥
* धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।
१ क. पूर्णं० । २ क. तुगलकीं । ३ क. ०येद्वत्सम्ू० । ४ ख. ०स्तैलं पा० ।
५ क. ख. ०याम्बुभि० । ६ क. द्विव्रणीयो । ७ क. क्षारं ती० ।
" - dots representing missing syllables in manuscript.
: .... .... .... .... .... यदि जायते वै द्रोणीकसंज्ञः श्वयथुर्गजस्य ॥
Wait! It has dots at the beginning of line 30:
".... .... .... .... यदि जायते वै द्रोणीकसंज्ञः श्वयथुर्गजस्य ॥"
Now let's check the bottom separator line and footnotes:
Horizontal line.
Footnotes:
: १ क. ख. ०द्विदहे पैत्ति० । २ क. ०गैरस्य । ३ क. ०पातातप्रको० । ४ क.
: ०मानाः कुर्वन्ति पी० ।
Wait, let's re-verify lines 1-10 very carefully!
Line 1 (Header):
३२० पालकाप्यमुनिविरचितो— [ ९ क्षुद्ररोगस्थाने-
Wait, let's look at the dash after पालकाप्यमुनिविरचितो:
It is an em-dash: "पालकाप्यमुनिविरचितो—"
And on the right: "[ ९ क्षुद्ररोगस्थाने-"
Wait, is there a closing bracket or is it cut off or a dash? It looks like "[ ९ क्षुद्ररोगस्थाने-" or "[ ९ क्षुद्ररोगस्थाने ]" with smudged end? It looks like "[ ९ क्षुद्ररोगस्थाने-".
११ द्रोणीकशोफाध्यायः ] हस्त्यायुर्वेदः । ३२१
तस्यास्थिभिः स्वेदमिमं विदध्यान्मूत्रैश्च वक्ष्यामि निबोध तन्मे ॥
वराहमेषाविखराश्वमोजान्यस्थीनि युक्तानि तु माहिषेण ॥
चूर्णं तिलानामपि चात्र दद्यात्स्वेदं यथावद्विदधीत वैद्यः ॥
स पञ्चमूलैरपि संविदध्यात्स्वेदं तु नाड्या विधिवद्यथोक्तम् ॥
तं प्रच्छयेद्वा यदि शस्त्रसाध्यं संप्रच्छय चापि प्रतिचूर्णयेच्च ॥
गृहस्य धूमो लवणानि पञ्च तथा हरिद्रे कटुरोहिणी च ॥
•••• •••• ••••नागस्य च चूर्णनं हि भूयः प्रलिप्ते शृणु भेषजानि ।
पत्राणि चार्कस्य सुवर्चिका च तिला वचाः स्युः कटुरोहिणी च ॥
कुष्ठं घृतं चित्रकसैन्धवं च यंवाश्च लेपो गजमूत्रमिश्रः ।
शिग्रोश्च मूलं लशुनानि कुष्ठं•••• •••• •••• •••• •••• ॥
•••• •••• •••• ••••क्षारा गर्मन्तिकाक्षारमथापि माषान् ।
विपाच्य मूत्रे करिणः प्रलिम्पेद्घृतेन पूर्वं श्वयथुं प्रलिप्तम् ॥
काकादनां चातिविषां हरिद्रे शतावरीं नागबलां सकुष्ठाम् ।
करञ्जबीजानि सुवर्चिकां च भद्राच्च (?) दारु प्रपुनाडबीजम् ॥
किरातकन्दं गजकर्णपर्णमूलानि मूत्रेण गजस्य पिष्ट्वा ।
घृतेन पूर्वं श्वयथुं प्रलिप्य ततः प्रलेपः कफनाशनोऽयम् ॥
निम्बं सकुष्ठं लशुनं वचां च गण्डीरमूलं गजकर्णमूलम् ।
बीजानि शिग्रोः सुवहां हरिद्रे पूतीकमूलं कटुरोहिणीं च ॥
तेजोवतीतां(?) लवणानि पञ्च मूत्रेण सर्वं विधिवच्च तत्पचेत् ।
आवापमन्नं दधिमस्तु दद्यान्मुस्तां वचां लाङ्गलिकीं विशालाम् ॥
किर्लासिमूलान्यथ मोरटं च पिप्पल्य •••• •••••••••पलां च ।
क्षीरं च किण्वं च वसां घृतं च मत्स्यांश्च तैलं च समं विपाच्य ॥
दर्वीप्रलेपं विधिवद्विपाच्य प्रलिप्य वस्त्रैरुपनाहयेच्च ।
अर्कस्य पत्रैः करिकर्णपर्णैः संग्राहयेच्चाऽऽविकचर्मणा च ॥
द्रोणीक एतेन कृतप्रदेहः क्षिप्रं प्रणाशं द्विरदस्य याति ।
अन्योऽपि यः स्याच्छ्वयथुः शरीरे नागस्य शीघ्रं विजयं प्रयाति ॥
ज्योतिष्मती चातिविषा विडङ्गपाठाश्वगन्धा मधुकं वचा च ।
मुस्तं वयःस्थामथ देवदारु लोधुं (?) सतेजोवति चित्रकं च ।
गवेधुकां चापि तथा विदध्यात्कुष्ठं हरिद्रां सरलं शुकास्यम् ॥
रोहिण्यशोको च जलेन कृत्वा क्वाथं यथावत्परिमूत्रणं तँत् ।
१ ख. यथा च । २ क. ॰पर्णीमू॰ । ३ क. ॰लापिम्॰ । ४ क. तत्परिक्षौ॰ ।
४१
३२२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
क्षौद्रेण युक्तं द्विरदाय पानमानाहगुल्मापहरं प्रविष्टम् ॥
द्रोणीकशोफं कृमिकोष्ठकासमसंशयं हन्ति च वारणानाम् ।
पटोलपत्रैः सह निम्बपत्रैः शुद्धेषु शुद्धं प्रपिबेच्च यूषम् ॥
शाल्योदनं चापि मृदुः(र्दु) सुसिद्धं दद्याद्यथोक्तं यवसं विचित्रम् ।
तत्र श्लोकः—
द्रोणीको यदि भवति द्विपस्य भिन्नः स क्षिप्रं प्रणुदति जीवितं विवृद्धः ।
एतं यः शमयति वारणस्य वैद्यः स प्राप्यो भवति परां नृपेण पूजाम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
द्रोणीकशोफो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
अथ सप्तषष्टितमोऽध्यायः ।
आतयातो गजो राजन्यथा भवति तच्छृणु ।
अयोगेनानभिज्ञेन यो गजो वाहितो भृशः ॥
( †स्नेहैर्विधाभिर्यवसैस्तथैव सरसार्जुनैः ।
पोष्यते यस्तु मातङ्गो योज्यते न च कर्मणा ॥
लभते चाग्निदौर्बल्यमानाहे चैव वारणः ॥ )
तृष्णामथ च वैवर्ण्यं शारदत्वं तथैव च ।
स यदाऽल्पेस्स्रुतो नागो युक्तः कर्मविशारदैः ॥
अकर्मगे(?) प्रयुज्येत गजः संपानकर्मणि ।
वातास्तथाऽपि च ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
हस्तियुद्धेऽपि चात्यर्थमथ सांग्रामिकेऽपि वा ।
त्वरया कर्मलोभाद्वा प्रयोगस्यातिमात्रया ॥
बलाबलमविज्ञाय योक्ता नांगं प्रपीडयेत् ।
अत्यर्थं कर्मयोगेन तदा गात्राणि मारुतः ।
पित्तेन सहितस्तस्य व्यापादयति हस्तिनः ॥
प्रत्यङ्गं सौप्रतीकाशौ (?) प्रोहापस्कारमेव च ।
॰॰॰॰ ॰॰॰॰ ॰॰॰॰ 'सकुटिके' ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
† 'धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥
१ क. योगज्ञो वा° । २ क. °ल्पश्रुतो । ख. °ल्पश्रुतौ मा° । ३ स. नाङ्गं ।
१७ अतियाताध्यायः ] हस्त्यायुर्वेदः । ३२३
जघनभ्रंशनं चापि भ्रंशनं च तथोरसः
भञ्जनं गात्र................ रोगं चापि बलक्षयम् ॥
अत्यर्थं कर्मयोगेन शोषं वा घोरमृच्छति ।
क्लाम्यमानस्तु दौर्बल्यं कर्मातिनयनोद्भवात् ॥
आहारैः पेशलैश्चापि न वृद्धिमुपगच्छति ।
कर्मातिनीतो मातङ्गस्त्वतियातो निरुच्यते ॥
दारुणेभ्यो लघुभ्यश्च कर्मभ्यस्तं निवर्तयेत् ।
करेणुसहितं चैनं यथाकालं विचारयेत् ॥
रम्येषु वनखण्डेषु पुष्पाढ्येषु सुगन्धिषु ।
फुल्लपुष्करषण्डेषु जलेषु च विगाहयेत् ॥
वृक्षेभ्यश्च लताः फुल्लाः सुगन्धाः षट्पदाकुलाः ।
व्यपकृष्य सुमार्गेण भक्षयन्तं विचारयेत् ॥
चन्दनस्पर्शशीतं वा कर्दमं हारयेद्रजम् ।
पांशूंश्चाऽऽहारयेदेनं कूलेष्वपि सृजेदपि ॥
यवसानि विचित्राणि हरितानि मृदूनि च ।
विशालानि मृणालानि पल्लवानि मृदूनि च ॥
इक्षूनपि च शालींश्च कवलानि प्रदापयेत् ।
मनःप्रसादश्च तथा बलं चैवोपजायते ॥
ततः संजातमांसाय वारणाय महीपते ।
प्रसन्नां प्रतिपानार्थं गुडयुक्तां प्रदापयेत् ॥
भृष्टैरष्टाभिरथवा प्रसन्नां लवणैर्युताम् ।
ततोऽस्मै षष्टिकानां च शालीनां चाऽऽशुसंस्कृतम् ॥
ओदनं दापयेद्वैद्यः शर्कराघृतसंयुतम् ।
बृंहणीयानि वृक्षाणि मांसान्यस्मै ततः परम् ॥
वेसवारं रसं वाऽपि कारयित्वा प्रदापयेत् ।
मांसैः क्षीरैस्तथा स्नेहैर्विचित्रैर्यवसैरपि ॥
बस्तिभिर्बृंहणीयैश्च शीतेन विविधैरपि ।
अतियातस्य नागस्य बलं शीघ्रं प्रवर्तते ॥
१ क. ख. ०तोऽतिरु० । २ क. ख. ०रखण्डे० । ३ ख. ०तान् । त० ।
४ ख. ०नां वा सुसं० ।
व्याधिश्च प्रशमं याति योगैरेभिर्नरेश्वर ।
इत्येवमतियातस्तु योक्तुर्दोषेण जायते ॥
तस्मात्सुग्राय(?) मातङ्गो तदेव ( न देयः ) पृथिवीपते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽति-
यातो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥
अथाष्टषष्टितमोऽध्यायः ।
रोमपादो महातेजाः प्रणम्य शिरसा शुचिः ।
पालकाप्यं मुनिवरं विनयात्परिपृच्छति ॥
गुल्माः पञ्च मुनिश्रेष्ठ ध्यारयो(?)•••• •••• ।
पूर्वं प्रोक्ता भगवता नामतो रोगसंग्रहे ॥
समुत्थानं च रूपं च तेषां विस्तरतो मम ।
चिकित्सां चानुपूर्वेण भगवन्वक्तुमर्हसि ॥
एवं पृष्टः स भगवान्पालकाप्यस्ततोऽब्रवीत् ।
शृणुष्वैवं महाराज प्रसन्नेनान्तरात्मना ॥
गुल्माः पञ्च महाराज ये प्रोक्ताः संग्रहे मया ।
तेषां निदानमुत्पत्तिं चिकित्सां च प्र॑वक्षते ॥
वातात्कफात्पित्ताच्चैव शोणितादपि केवलात् ।
जायन्ते दन्तिनां गुल्माः संनिपाताच्च पञ्चमः ॥
स्निग्धभक्तैश्च मांसैर्वा यदा नागो निराकृतः ।
बस्तिभागाच्छयान्नाभे रसन्नानि(?) लभेतपुनः ॥
कटुतिक्तकषायाणां रसानां चातिसेवनात् ।
शुष्काणि च यदा नागो यवसानि च भोजयेत् ॥
विद्यात्तदा तदुत्पत्तिं•••• •••• •••• •••• •••• •••• ।
अल्पतेजोऽन्नदानाद्रा्र(द्वा) सहसा कुप्यतेऽनिलः ।
स तस्य जनयेद्गुल्मं समन्ताद्धृदयोंश्रितः ॥
१ क. भवान्वै वक्तुं । २ क. प्रचक्ष्वते । ख. प्रचक्ष्यते । ३ क. मांसैश्च ।
४ ख. ॰भेत् ॥ क॰ । ५ क. ख. ॰यास्तृतः ।
१८ गुल्माध्यायः ] हस्त्यायुर्वेदः । ३२५
पुरीषमुत्सृजेच्चैनं सां पश्चादपि लक्ष्यते ।
तस्याऽऽनाहं सृजेत् ......... कोष्ठवायुर्भ्रमन्त्येति ॥
गर्जत्यपि मन्दमन्दं वृष्टिकाले यथा घनः ।
प्रमेहति प्रसक्तं च विमनाः संकुचत्यपि ॥
स्तम्भमाश्रित्य विष्टब्धः स्थूलं च श्वसिति द्विपः ।
प्रमेहे चापि विच्छिन्नं गलमूर्ध्वमुदस्यति ॥
इत्येतैर्लक्षणैर्जुष्टो वातगुल्मातुरो द्विपः ।
पूतीकं चित्रकं दन्तीं गण्डीरं सुवहां वचाम् ॥
पिप्पलीं सैंधवं पाठां वृत्तकुष्ठं महौषधम् ।
कुलत्थांश्च यवांश्चैव समभागान्प्रपेषयेत् ॥
तैलं नै (लेन) सुरया वाऽपि सक्तायां पाययेद्विपम् ।
गण्डीरं चविकं श्यामां द्रवन्तीं सुरसां वचाम् ॥
पिप्पलीं मरिचं चैव सलिलेन विपाचयेत् ।
वस्त्रपूतं तु तं क्वाथं सकुष्ठं लवणान्वितम् ॥
तत्प्रातः पाययेन्नागं मेरेयेणाभिमूर्च्छितम् ।
रोहिषं पञ्चमूले द्वे वर्षाभूर्वृश्चिकालिका ॥
वसुको वशिरश्चैव क्षमुन (?) क्वाथयेज्जले ।
सकृष्णलवणं क्वाथं तथा वस्त्रपरिस्रुतम् ॥
सुरया मूर्छितं नागं यातँरुण्या(?)प्रपाययेत् ।
मधुशिग्रु च गण्डीरं चित्रकं बदराणि च ॥
यवान्वान्वकुलत्थांश्च पञ्चमूलानि पाचयेत् ।
क्वाथेन सहितं तस्य अवगाहं च कारयेत् ॥
दशोत्तरं सलवणं( स्निग्धं )वारणं प्रतिपाययेत् ।
मृदुशाल्योदनं चैव रसेन सह भोजयेत् ॥
क्रियाः सर्वाश्च नागस्य स्निग्धाभ्यक्तस्य कारयेत् ।
विधिनाऽनेन नागस्य वातगुल्मः प्रशाम्यति ॥
सक्रियः सनिदानश्च पित्तगुल्मः प्रवक्ष्यते ।
अम्लोष्णकटुतीक्ष्णानि क्षाराणि च यदा द्विपः ॥
१ ख. सानोपश्चापि । २ क. कोष्ठे वा° । ३ क. °त्यपि ॥ ग° ।
४ क. दन्तो । ५ क. च । ६ क. ख. °रिश्रुतम् । ७ क. °तरूण्याप्रयपा°। ८ क.
ख. °ते । आम्लो° ।
भोजनानि निषेवेत रूक्षाण्यजलजानि च ।
सततं सेवमानस्य द्विपस्यानियतात्मनः ॥
अतिमात्रं यदा वाऽपि सेवितांस्ते तनुं नृपः ।
घर्माध्वनः प्रयोगाच्च गुल्मो भवति पित्तजः ॥
स पाण्डुर्विमना दत्ते शिरोरू (?) भोजनं द्विपः ।
भृशं संतप्तदेहश्च शीतमेवाभिनन्दति ॥
तृष्णातिमात्रं मूर्च्छा च विदाहश्चास्य जायते ।
भुक्तस्य परिणामे च वेदना बाधते गजम् ॥
विमुक्तं भोजयेद्वेगैः शीतमस्य सुखायते ।
पित्तगुल्मान्तरं विद्याल्लिङ्गैरैतैर्मतङ्गजम् ॥
उदारं वक्ष्यते कर्म पित्तगुल्मनिबर्हणम् ।
उशीरं पद्मकं लोध्रं मञ्जिष्ठां रोहिणीं तथा ॥
हरीतकीं हरिद्रे द्वे सहदेवां ससारिवाम् ।
समान्येतानि सर्वाणि जर्जरीकृत्य पाचयेत् ॥
मत्स्यण्डिकासमायुक्तं वारणं प्रति पाययेत् ।
प्रियालानि मधूकानि सारिवां कदलीफलम् ॥
पाटलीं पृश्निपर्णी च भूनिम्बं च हरीतकीम् ।
त्रिवृन्मूलं मधूकं च तिन्दुकानि शतावरीम् ॥
खर्जूरं जीरकं लोध्रं तथैवाऽऽमलकानि च ।
सर्वाण्येतानि सलिले समभागानि पाचयेत् ।
सुप्रसन्नं ततः क्वाथं पाययेच्छर्कराऽन्वितम् ॥
पयोगर्भं मधुरकैः सर्वैः सर्पिर्विपाचयेत् ।
पित्तगुल्मप्रशान्त्यर्थं वारणं प्रति पाययेत् ॥
कपिञ्जलैर्मयूरैश्च लावैश्चापि सतित्तिरैः ।
सुसंस्कृतं रसं कृत्वा भोजयेद्वारणं ततः ॥
*सामाकमम्लिपादं च मृणालेक्षुबिसानि च ।
आर्तवानि तु सर्वाणि यवसानि प्रदापयेत् ॥
एषां शर्करया युक्तस्तस्य ग्रासः प्रशस्यते ।
द्विपानां विधिरेश स्यात्पित्तगुल्मप्रणाशनः ॥
* 'श्यामाक' इति भवेत् ।
१ क. ख. ॰ताते त॰ । २ क. ख. धर्माधनः । ३ क. ख. भक्तस्य ।
६४ गुल्माध्यायः ] हस्त्यायुर्वेदः । ३२७
सक्रियः सनिदानश्च श्लेष्मगुल्मः प्रवक्ष्यते ।
यदा तु स्निग्धमधुरा वारणा भोज्यते विधा ॥
पललं दधि मत्स्याश्च क्षारमिक्षु गुडं वसा ।
औदकानां च सत्त्वानां मांसानामपिसेवनात् ॥
अव्यायामाच्च नागस्य गुल्मो भवति श्लेष्मजः ।
स विवर्णच्छविर्नागः सर्पिः शीतं न सेच्छति ॥
दुर्मना गुरुदृष्टिश्च रोमहर्षश्च जायते ।
शय्याभिनन्दी प्रध्याता भुक्तं चास्य न पच्यते ॥
निरूहत्यल्पमल्पं च पुरीषं श्लेष्मणा वृतम् ।
हरिद्रां सुरसां निम्बं पाठां तेजोवतीं वचाम् ॥
राजवृक्षं च सरसमेरण्डं च शतावरीम् ।
तर्कारीपत्रभङ्गांश्च समभागानि कारयेत् ॥
(※कटूष्णतैलसंयुक्तं तं क्वाथं प्रतिपाययेत् ।
व्याघ्रीं च नक्तमालं च मम्लकं बदराणि च ॥
शिग्रुबीजं कुलत्थं च चित्रकं हस्तिपिप्पलीम् ।
यवानी पञ्चमूले द्वे स्थाल्ल्यामादाय पाचयेत् ॥ )
स्निग्धक्षारसमायुक्तं तं क्वाथं पाययेद्द्विपम् ।
पत्रैर्वा चिरविल्वस्य तैलं धीरो विपाचयेत् ॥
तत्तैलं गुल्मशान्त्यर्थं वारणं प्रतिपाययेत् ।
रसं तस्मै सैन्धवेन पिप्पलीमरिचानि च ॥
भोजनार्थेन पानेन वारणाय प्रदापयेत् ।
वेणुपत्रं कुशं क्षारं तथा पाठां गलं तृणम् ॥
कुलीरपादं यवसं करीरं च विपाचयेत् ।
उष्णाम्ललवणास्निग्धं कटुतीक्ष्णातिभोजनात् ॥
एतैस्तु लक्षणैर्विद्याद्रक्तगुल्मं चिकित्सकः ।
(※सर्जं प्रियालमश्वत्थं मधुकं चन्दनं तथा ॥
तृवृत्तं च सुकर्णं च सहामौदुम्बरं तथा ।
तिन्दुकीमजशृङ्गीं च शतावरीं हरीतकीम् ॥ )
* 'धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ॥
१ क. ॰मपादह॰ । २ क. भक्तं । ३ क. तु । ४ क. ॰क्तं तत्क्वाथं ।
१२८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
समभागानि पयसा पाचयेदितियुक्तितः ।
परिस्राव्य च तत्क्वाथं शर्कराचूर्णसंयुतम् ॥
पाययेद्वारणं राजन्संगुक्तं मधुकेन च ।
श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम् ॥
आरग्वधं मधूकानि काश्मर्यं च शतावरीम् ।
पयस्यां पृश्निपर्णीं च मूलमिक्षुरकस्य च ॥
गर्भोतिक( मुंतं च ) समञ्जिष्ठं भव्यं पारावतानि च ।
काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत् ॥
सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम् ।
चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते ॥
व्यामिश्रलक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः ।
उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते ॥
स्वकं चिकित्सितं तस्य यथायोगं विधीयते ।
रोगाणामथ तुल्यत्वात्कर्म कार्यं तु भेषजे ॥
संनिपातसमुत्थेऽपि शिरोरोगस्तथैव च ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुल्मो
नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥
अथैकोनसप्ततितमोऽध्यायः ।
'अथातो हृद्रोगचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा-
लकाप्यः ॥
इह खलु भो हृद्रोगास्त्रिभिर्दोषैः संभवन्ति वातपित्तकफैः। तत्राऽऽदौ वातिकं
हृद्रोगं वक्ष्यामः—तत्र व्यायामाद्व्यायापरूक्षकटुकषायभोजनादत्यशनाच्च वातः
प्रकुपितः प्राप्य हृदयमनुपीय तिष्ठति हृद्रोगं जनयति ॥
ततो विजृम्भति भूमौ परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहार-
मभिलषति ॥
तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्य चिकित्सितमुपक्रमेत—सामुद्रविडसु-
वर्चिकायवक्षारोद्भिदरोमकसैन्धवघटीलवणसौवर्चलानि च प्रसन्नया सह संयोज्य
१ क. ॰दनियु॰ । २ क. ख. परिश्राव्य । ३ क. पृष्टिप॰ । ४ क. ख. कर्मकार्यस्तु ।
७० गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३२९
पाययेत् । अथवा — त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्यांश्च संक्षुद्य प्रसन्ना सह
संयोज्य पाययेत् । पायितो विमुक्तहृदयो भवति । अथवा — त्रिकटुरसोनरज-
नीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पाययेत् । कर्कटकरसं वा पाययेत् ।
सुखी भवति ॥
इति वातिकहृद्रोगः ॥
अथ पैत्तिकः — कटुतीक्ष्णोष्णाम्ललवणक्षारभोजनैः पित्तमुदीर्णं हृद्रोगं जन-
यति ॥
स भवति भक्ष्यभोज्यद्वेषी विमना विकीर्णहस्तः परिमूत्री, विण्मति
ध्यायति । संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छायाभिकाङ्क्षी ॥
तस्य भैषज्यम् — शिशिरमधुरस्निग्धक्रिया । शर्करया घृतमण्डेन वा
गात्रयोः परिषेकं कुर्यात्* । .... .... .... .... .... .... .... .... .... .... .... .... ।
.... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... ॥ अर्हिं-
स्तामधुशिग्रुकरवीरकरीतर्कीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्च समभा-
गान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत् । घृततैलवसाभिः सिद्धमह्य(माहृ)त्य सुखो-
ष्णेन गात्राणि मलेपयेत् । द्विपञ्चमूलानि माषांस्संक्षुद्य यमकस्नेहे साधयित्वा सीधुं
दधि च, तेनापि सुखोष्णेन गात्राणि प्रलेपयेत् । आढकीमधुशिग्रुशणमूलकैर-
ण्डांनां बीजानि विश्वभेषजपृथ्वीकाबलातसीतिलसर्षपयवतण्डुलकुलत्थबदर-
बिल्वचूर्णानि समभागानि पाचयित्वा घृततैलवसाभिर्दध्ना सौवीरसुरामण्डैः सह
संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्त्वा संक्षुद्य स्थापयेत् । पञ्च-
रात्रमासुतं महास्थाल्यां ततस्तमासवं पाचयित्वाऽवतार्य तस्योष्णेन गात्रा [णि]-
प्रलेपयेत् । रालारास्त्रागोक्षुरकवासाकण्टकारिकर्चूररोबूकाग्निमन्थपृश्निपर्ण्यंशुमती
पाषाणभेदिकाबिल्वपाटलीपवातसीमधुककोलकुलत्थान्पाचयित्वा ततस्तं नि-
ष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भं पाययेद्वार णम् । सर्पिस्तैलदधीनि
सुखोष्णानि पृथक्समस्तानि वा, पाययेत् । द्विपञ्चमूलं गृहीतं चैनं स्निग्धेन
मातुलुङ्गरसयुक्तेन रसेन भोजयेत् । स्नेहदानोक्तेनान्यतमेन वातप्रशमनेन स्नेहो-
पक्रमेणोपचरेत् । शशतिकेन(?) चास्य विधिना बस्तिकर्म कुर्यात् । यथोक्तब-
स्तिसिद्धिविधानेन वा बस्तिं दद्यात् । अथोदकपरिषेकोऽभ्यक्तप्रदित्य(?)लेपन-
- इतः परं द्वयोरप्यादर्शयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा
त्यक्ता(त्रुटिता) । ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं त्यक्तम्(त्रुटितम्)” इति
लिखितं दृश्यते ॥
१ ख. ०वा-र० ।
४२
३३० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
संकरभागपिण्डोत्करिकोपनाहफालपाषाणकारीषाग्निमांसस्वेदादिभिर्विविधैर्वन्मर्द-
नोपेतस्य स्नेहपानभोजनबस्तिनस्यकर्मप्रयोगरसभोजनलशुनगुग्गुलुविधानोपयो-
गादिभिश्च न शान्तिरस्ति । भययुर्वेदमा लिङ्गविशेषाणां प्रोतसंभजान्बहुवेक-
ह्यमस्करांसगदेशादीनां च सततमुपलभ्यते । ततश्चास्य कर्म विधेयं भवति ।
तस्य सुयन्त्रितस्य(स्तर)रक्षारक्षितस्य . संनिहितस्थानशयनपानाशनोपपन्नस्य
यथाविधि गजस्य रणजयतोपेतस्य सर्वसंभृतसंस्कारस्य कुलपरिकरपरिवारि-
तस्य सदशपत्रविधानेन विज्ञातशरीरविध्येन(धानेन) दृष्ट्वाऽग्निप्रणिधानेनासम्मू-
ढहस्तस्यायुर्वेदविदा ज्ञातेन विपश्चिता भिषजाऽग्निप्रणिधानं क्रियमाणं यथातु-
रकालमप्रदोषं भवति । अग्निहिं दुष्प्रयुक्तो महता तापेन प्राणभिदा हस्तिनमाप्र-
सादं प्रतियुनक्ति । स चेवं प्रज्ञावता तेन परीक्ष्यकारिणा प्रणिहितवता प्रयुक्ता-
न्तरावगाहपङ्कपूटलादापूरयति । शोकस्तम्भकम्पपरिसर्वास्मरणस्नायुक्षेपणसंको-
चननमसोषणसूयेन स्थिरकठिनत्वादीनि वो परिचति । तत्राग्निदाहोपकरणा-
न्येवंविधानि भवन्ति—अर्धचन्द्राकृतीनि जन्ताभिमण्डलानि(?) वृत्तानि सूक्ष्मा-
ङ्गुष्ठपरिणाहानि । हस्तिनः समीपे ✳कर्णारावेसनं कुर्यात् । अस्प पूजां कृत्वा
निरग्निं च साग्निप्रणिधानं कुर्यात् । सर्पिषाऽभ्यज्य गात्रं श्वेतवर्णैरभिलाञ्छितैः
सम्यग्दहति । भवन्ति चात्र श्लोकाः—
पत्तिनपादे(?) पत्तिनहस्ते(?) नन्द्यावर्ताकृतिं दहेत् ।
वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत् ॥
प्रोहे पत्राकृतिं कुर्याद्रसं(?)रोधजमालिग्येत (दिशेत्) ।
प्रतीकासांसफलकबाहुदेशेषु शक्तयः ॥
उत्कृष्टाशीव्यापस्कारभागे चक्राकृतिर्भवेत् ।
अग्निमार्गे भिषक्कुर्यात्परासु ˙˙˙˙ ˙˙˙˙गात्रवत् ॥
पञ्चाङ्गुलप्रमाणात्तु कार्यमेवातिसंभवात् ॥
अथैवै ˙˙˙˙मुरोरोधरेषादूर्ध्वव्यवस्थितम् (?) ।
करणीयानि रायाजानुगो पञ्चाङ्गुलान्तरा ।
निःसंशयो निराबाधा भवन्ति निरुपद्रवाः ।
शिरास्नाव्यस्थिधमनीसंधीनां नपने अपि ।
सम्यग्दहेन्न पिशितात्परतोऽग्निं न कारयेत् ॥
✳ 'कर्मारावेशनं' इति भवेत् ॥
१ क. ॰स्य सं॰। २ क. विज्ञातेन । ३ क. न । ४ क. ख. ॰या निराशाया नि॰ । ५ क. ॰हेन्मयि पि॰।
७० गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३३१
कालमत्वरवैदेहवर्णप्रकृतिकारणम् ।
वेदनादोषाद्भूतज्ञाव्याख्यायचतुराणि च ॥
विपश्चिदृष्टांकं क•••••••• •••• •••• •••• ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• त्रिकर्म ज्ञात्वाऽग्निं प्रतिचारयेत् ।
सम्येगामातिदग्धानाम्पलिङ्गान्यतः परम् ॥
ततः म्रौयोरवतुश्चैत्र(?)कपोतागरुडममम् ।
समं रूक्षं संकुचितं निष्परिस्राववेदनम् ॥
विलीनश्वयथुप्रायं सम्यग्दग्धं विनिर्दिशेत् ।
स्फोटोद्गमपरिस्रावं तथा प्रक्लेदमार्दवम् ॥
तथैव वेदना शोफमामदग्धस्य लक्षणम् ।
स्रस्तगात्रापरकरकर्णमेहनवालधिः ॥
दुर्मना ध्यायति परा•••• •••• नाभिनन्दति ।
वृज•••• •••• मूर्छा वातरक्तमूत्री भवत्यपि ॥
भ्रमीनिदानं लभते शीकरी जातप्रतिप्रणाम् (?) ।
मुखे शोषो ज्वरो ग्लानिः सीदनं जृम्भणान्वितम् ॥
छायाभिलाषी सततमत्यर्थमुदकप्रियः ।
स्थाने न लभते शर्म सर्वतः प्रतिदुःखितः ॥
अतिरिष्टेव कुतभू (?) व्रणपाकश्च दारुणः ।
उपद्रवाश्च बहवो भवन्तीति यतस्ततः ॥
निवर्ता(वृत्ता) ये वा सुशीतैः प्रदेहैरवगाहनैः ।
सशर्करैः पयःपानैर्दधिमस्तुसुरासवैः ॥
शतधौतघृतालेपैर्दाहवेगस्याऽऽर्तिं हरेत् ।
अथ शीतप्रवातावास्थितं चैनं कुशकाशरक्तोत्पलकह्लारनलनलिनबिशमृणा-
लकुमुदकुन्दपद्मकोशीरनलमूलमञ्जिष्ठासारिवारक्तचन्दनप्रपौण्डरीकमधुकमधुर-
क्षीरत्वग्रजनीमुनिषण्णकवञ्जुलादिभिः प्रकाममालिम्पेत् । इक्षुक्षीवनीलिकापो-
टगलदूर्वामृणालेन्दीवराम्बुष्ठकादेर्घृतसामोदकं मत्स्यपिण्डकागर्भमुपाहरेत्। मन्द-
दग्धं पुनर्देहेत् । सम्यग्दग्धं पयसा परिषेचयेत् । सुरया वा शालितन्दुलपि-
१ क. ख. ॰म्यग्वामा॰ । २ क. प्रायाव॰ । ३ क. ख. ॰रिश्रावं ।
३३२ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थानम्]
ष्टेन दुग्धालोडितेन पुनः पुनः प्रदेहयेत् । निवृत्तेदेहेवेदनाच्चैवं त्र्यहं पञ्चाहं
वा सिद्धार्थकासीसविकंहन्त(?)नागरमधुपष्टिकाडोभचूर्णेन व्रणानवचूर्णयेत् ।
ऊर्ध्वं वा सप्तरात्रं तु सततं तैलेन सर्पिषा वा परिषेचयेत् । त्रिसप्तरा-
त्रादूर्ध्वं द्विव्रणीयोक्तेन विधानेनोपचरेत् । तैलसेकश्चात्राव्रणारोहणात्सर्वमग्नि-
दग्ध···· ···· ····षिच्यमानं स्नेहेन प्रवे(द्दे)शो कोऽप्यमलेपविमामनात् । अङ्गो-
द्वेष्टनप्रसुप्तिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्जयतीत्येनशमशूलत्रयरूढव्रणमपि
परिषेचयेत् । सूपचण्डव्रणव(त्)वातघ्नोत्कारिकायाक्षाहाज्य(?) च पूर्वं पाणिना
मर्दयेत् । ततो लङ्गुष्ठानविधानेर्यथायोगं
५० गात्ररोगाध्यायः] हस्त्यायुर्वेदः। १३३
कनासामधुकविदारीतुषसारिवाभिः पयसा च घृतं मध्यमपाकं कारयित्वा पाय-
येत् । सर्पिषा सुस्निग्धं मुद्गोदनं भोजनमुपहरेदिति ॥
तत्र श्लोकः—
प्रदेहः शीतलैः स्निग्धैर्मधुरैः पानभोजनैः ।
पैत्तिको गात्ररोगस्तु प्रशान्तिमुपगच्छति ॥
(इति) पैत्तिकगात्ररोगः ॥
असाम्ये त्वन्ते मिथोऽपचारान्मधुरस्निग्धभोजनाद्यायामाध्वनोरप्रयोगा-
च्छ्लेष्मा प्रकोपमुपगच्छति । स वारणस्योपसृत्य गात्राणि विष्टभ्य तिष्ठति ।
ततोऽतत्व(?) गात्राणां कारयेत् ॥
अतसीतिलसर्षपमाषविडङ्गानां चूर्णानि सक्तुभिः संयोज्य तैलदधिसुरालव-
णघृतसौवीरकयुक्तेन सुखोष्णेन गणेन प्रलिप्य गात्राणि, अजगोमहिषाश्वाश्व-
तरकरिकरभाणां मूत्रपुरीषाणि प्रभूतलवणेन सुस्निग्धानि पाचयेत् । तेनास्य
सुखोष्णेन संकरेण बहलेन गात्राणि प्रलेपयेत् । श्लेष्मोऽसाध्यय (?) जाङ्गलं
पौष्णवीर्यं च संप्रदापयेत् । यवान्नं चैव पिप्पलीशृङ्गवेरं सतैलं चूर्णं पाचयेत् ।
समरिचं भोजयेद्व्याधिप्रशमनं च सपञ्चलवणां मधुमिश्रां पाययेत् ॥
तत्र श्लोकः—
तिक्तं च कटुकं चास्मै भक्ष्यं लघु तथैव च ।
भोजनं दापयेद्वैद्यः श्लेष्मरोगं(गः) प्रशाम्यति ॥
(इति) श्लेष्मजो गात्ररोगः ॥
अथ विषमापरगात्रानासामाकर्षणात्सहसाऽतिस्नेहातिरौक्ष्याति .... .... .... सर्व-
धातुप्रकोपो भवति । प्रकृत्या चास्य धातवो दोषाश्चान्योन्यमभिवर्धयन्ति । (त)-
तः सांनिपातिकश्च जायते गात्ररोगः । ततः श्वयथुरत्यर्थं ग्रथितेषु स्थानेषु
प्रभिद्यते । असृक्स्रवति प्रभिन्नश्च पुनराध्मायते । पुनश्च सहसैव प्रं(भिद्यते ।
सर्वधातुलिङ्गानां चात्र संप्लवो दृश्यते । तेनाभिभूतो वारणो दैन्यमत्यर्थं प्राण-
मांसक्षयं च लभते ततः सांनिपातिकेनाभिभूतस्य चिकित्सितमुपदेक्ष्यामः। याव-
दसृक्स्रवति तावत्पित्तशोफोक्तैः प्रदेहैरुपक्रमेत । उपक्रमो नेकूतय(?) योग-
वसातैलघृतैः सदा गात्रसेकः प्रशस्यते । खदिरकदम्बाश्वकर्णश्लेष्मातक-
कन्द(द)रमलवंशवञ्जुलशिशुविल्बपित्तगर्दभल्लातकानां पत्रभङ्गान्समानीय
महास्थाल्यामावाप्य सलिले पाचयेत् । सहासविषातर्कारीगूमूतिकापत्रभ-
ङ्गान गोमूत्रेण निष्क्वाथ्य ततोऽस्य गात्राणां नाडीस्वेदं कुर्यात् । तेनास्य श्वे (स्वे)-
१ क. ॰रीकुशसा॰ । २ क. ॰षोऽतिप्र॰ । ३ क. प्रतिभि॰ ।
३३४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
दसेको गात्राणां कुर्यात् पाठातिविषांहींस्रावचामधुकलाङ्गलीमूलानि लोध्रल-
शुनप्रपौण्डरीकशुकनासामञ्जिष्ठाहरीतकीद्विहरिद्राप्रियङ्गुतण्डुललवणकिण्ववातसी
- .... .... .... त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम् । प्रणश्य-
तोऽनेनास्य गात्रस्तम्भवेपथू( †नश्यति ) भोजनं चास्मै रक्तशालीनां जाङ्गल-
रसविदधां दापयेदिति ॥
तत्र श्लोकौ भवतः—
इति दोषसमुत्थानां कीर्तिता भेषजक्रिया ।
चतुर्णां गात्ररोगाणामुत्पत्तिश्च सलक्षणा ॥
स (य) एतान्साधयेद्वैद्यो गात्ररोगान्यथाविधि ।
स पूज्यः सततं राज्ञा दानमानपरिग्रहैः ॥
इति सांनिपातिकः ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
गात्ररोगो नाम सप्ततितमोऽध्यायः ॥ ७० ॥
अथैकसप्ततितमोऽध्यायः ।
अथाङ्गपतिरव्यहितमनाः समासीनमग्निकल्पमुवाच पालकाप्यम्—"भगवन्,
वनेष्वधिकबलसत्त्वगुणयुक्ता दन्तिनः" इत्येवमवन(ग)तोऽस्मि। तत्र तेषां विह-
सानरणगमने रोगमुपलक्षयेद्गात्राणाम् । स कथमुत्पद्यते व्याधिः । कतिविधा-
बाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भग्नव्या(?)वेवति विच्यु-
तिविश्लिष्टपरिस्रस्तानि जानीयात् । इति । कश्चित्सद्यत उत्पद्यते, कश्चित्तलेन,
कश्चित्मोहे, कश्चिदपस्कारेण, कश्चिद्दुरसा, कश्चिद्दंसे, कश्चित्सर्वदुःखिता,(?)
इति । तेषां तत्त्वतो ज्ञानं साध्ययाप्यप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्च
२व्याधीन्यदि सतपर्त्तित्तो(?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्तं भगवता (?) ! - अथ विनपादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्—दन्तिनां
खलु महाराज द्विविधो गात्ररोगो भवति—आगन्तुर्देहजश्चेति* । षडाबाधो - अत्र किंचित्त्रुटितमिव प्रतिभाति । † प्रक्षिप्तमिह प्रतीयते । * अत्रैव
'द्वादशविधोत्पत्तिः' इति त्रुटितं प्रतिभाति 'स द्वादशविधोत्पत्तिरिति यदुक्तम्' इत्य-
ग्रिमग्रन्थानुरोधात् ।
१ क. भग्नव्यावेवतिविश्लि० । २ क. ०धीन्स यदि । ३ क. ०त्तित्त्वो हि० ।