सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 342, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 342

१७ अतियाताध्यायः ] हस्त्यायुर्वेदः । ३२३
जघनभ्रंशनं चापि भ्रंशनं च तथोरसः
भञ्जनं गात्र................ रोगं चापि बलक्षयम् ॥
अत्यर्थं कर्मयोगेन शोषं वा घोरमृच्छति ।
क्लाम्यमानस्तु दौर्बल्यं कर्मातिनयनोद्भवात् ॥
आहारैः पेशलैश्चापि न वृद्धिमुपगच्छति ।
कर्मातिनीतो मातङ्गस्त्वतियातो निरुच्यते ॥
दारुणेभ्यो लघुभ्यश्च कर्मभ्यस्तं निवर्तयेत् ।
करेणुसहितं चैनं यथाकालं विचारयेत् ॥
रम्येषु वनखण्डेषु पुष्पाढ्येषु सुगन्धिषु ।
फुल्लपुष्करषण्डेषु जलेषु च विगाहयेत् ॥
वृक्षेभ्यश्च लताः फुल्लाः सुगन्धाः षट्पदाकुलाः ।
व्यपकृष्य सुमार्गेण भक्षयन्तं विचारयेत् ॥
चन्दनस्पर्शशीतं वा कर्दमं हारयेद्रजम् ।
पांशूंश्चाऽऽहारयेदेनं कूलेष्वपि सृजेदपि ॥
यवसानि विचित्राणि हरितानि मृदूनि च ।
विशालानि मृणालानि पल्लवानि मृदूनि च ॥
इक्षूनपि च शालींश्च कवलानि प्रदापयेत् ।
मनःप्रसादश्च तथा बलं चैवोपजायते ॥
ततः संजातमांसाय वारणाय महीपते ।
प्रसन्नां प्रतिपानार्थं गुडयुक्तां प्रदापयेत् ॥
भृष्टैरष्टाभिरथवा प्रसन्नां लवणैर्युताम् ।
ततोऽस्मै षष्टिकानां च शालीनां चाऽऽशुसंस्कृतम् ॥
ओदनं दापयेद्वैद्यः शर्कराघृतसंयुतम् ।
बृंहणीयानि वृक्षाणि मांसान्यस्मै ततः परम् ॥
वेसवारं रसं वाऽपि कारयित्वा प्रदापयेत् ।
मांसैः क्षीरैस्तथा स्नेहैर्विचित्रैर्यवसैरपि ॥
बस्तिभिर्बृंहणीयैश्च शीतेन विविधैरपि ।
अतियातस्य नागस्य बलं शीघ्रं प्रवर्तते ॥
१ क. ख. ०तोऽतिरु० । २ क. ख. ०रखण्डे० । ३ ख. ०तान् । त० ।
४ ख. ०नां वा सुसं० ।