सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 344, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 344

१८ गुल्माध्यायः ] हस्त्यायुर्वेदः । ३२५
पुरीषमुत्सृजेच्चैनं सां पश्चादपि लक्ष्यते ।
तस्याऽऽनाहं सृजेत् ......... कोष्ठवायुर्भ्रमन्त्येति ॥
गर्जत्यपि मन्दमन्दं वृष्टिकाले यथा घनः ।
प्रमेहति प्रसक्तं च विमनाः संकुचत्यपि ॥
स्तम्भमाश्रित्य विष्टब्धः स्थूलं च श्वसिति द्विपः ।
प्रमेहे चापि विच्छिन्नं गलमूर्ध्वमुदस्यति ॥
इत्येतैर्लक्षणैर्जुष्टो वातगुल्मातुरो द्विपः ।
पूतीकं चित्रकं दन्तीं गण्डीरं सुवहां वचाम् ॥
पिप्पलीं सैंधवं पाठां वृत्तकुष्ठं महौषधम् ।
कुलत्थांश्च यवांश्चैव समभागान्प्रपेषयेत् ॥
तैलं नै (लेन) सुरया वाऽपि सक्तायां पाययेद्विपम् ।
गण्डीरं चविकं श्यामां द्रवन्तीं सुरसां वचाम् ॥
पिप्पलीं मरिचं चैव सलिलेन विपाचयेत् ।
वस्त्रपूतं तु तं क्वाथं सकुष्ठं लवणान्वितम् ॥
तत्प्रातः पाययेन्नागं मेरेयेणाभिमूर्च्छितम् ।
रोहिषं पञ्चमूले द्वे वर्षाभूर्वृश्चिकालिका ॥
वसुको वशिरश्चैव क्षमुन (?) क्वाथयेज्जले ।
सकृष्णलवणं क्वाथं तथा वस्त्रपरिस्रुतम् ॥
सुरया मूर्छितं नागं यातँरुण्या(?)प्रपाययेत् ।
मधुशिग्रु च गण्डीरं चित्रकं बदराणि च ॥
यवान्वान्वकुलत्थांश्च पञ्चमूलानि पाचयेत् ।
क्वाथेन सहितं तस्य अवगाहं च कारयेत् ॥
दशोत्तरं सलवणं( स्निग्धं )वारणं प्रतिपाययेत् ।
मृदुशाल्योदनं चैव रसेन सह भोजयेत् ॥
क्रियाः सर्वाश्च नागस्य स्निग्धाभ्यक्तस्य कारयेत् ।
विधिनाऽनेन नागस्य वातगुल्मः प्रशाम्यति ॥
सक्रियः सनिदानश्च पित्तगुल्मः प्रवक्ष्यते ।
अम्लोष्णकटुतीक्ष्णानि क्षाराणि च यदा द्विपः ॥
१ ख. सानोपश्चापि । २ क. कोष्ठे वा° । ३ क. °त्यपि ॥ ग° ।
४ क. दन्तो । ५ क. च । ६ क. ख. °रिश्रुतम् । ७ क. °तरूण्याप्रयपा°। ८ क.
ख. °ते । आम्लो° ।

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन) · पृष्ठ 344, कुल 742 में से · SarvaKosh