सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 347, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 347

१२८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
समभागानि पयसा पाचयेदितियुक्तितः ।
परिस्राव्य च तत्क्वाथं शर्कराचूर्णसंयुतम् ॥
पाययेद्वारणं राजन्संगुक्तं मधुकेन च ।
श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम् ॥
आरग्वधं मधूकानि काश्मर्यं च शतावरीम् ।
पयस्यां पृश्निपर्णीं च मूलमिक्षुरकस्य च ॥
गर्भोतिक( मुंतं च ) समञ्जिष्ठं भव्यं पारावतानि च ।
काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत् ॥
सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम् ।
चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते ॥
व्यामिश्रलक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः ।
उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते ॥
स्वकं चिकित्सितं तस्य यथायोगं विधीयते ।
रोगाणामथ तुल्यत्वात्कर्म कार्यं तु भेषजे ॥
संनिपातसमुत्थेऽपि शिरोरोगस्तथैव च ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुल्मो
नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥
अथैकोनसप्ततितमोऽध्यायः ।
'अथातो हृद्रोगचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा-
लकाप्यः ॥
इह खलु भो हृद्रोगास्त्रिभिर्दोषैः संभवन्ति वातपित्तकफैः। तत्राऽऽदौ वातिकं
हृद्रोगं वक्ष्यामः—तत्र व्यायामाद्व्यायापरूक्षकटुकषायभोजनादत्यशनाच्च वातः
प्रकुपितः प्राप्य हृदयमनुपीय तिष्ठति हृद्रोगं जनयति ॥
ततो विजृम्भति भूमौ परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहार-
मभिलषति ॥
तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्य चिकित्सितमुपक्रमेत—सामुद्रविडसु-
वर्चिकायवक्षारोद्भिदरोमकसैन्धवघटीलवणसौवर्चलानि च प्रसन्नया सह संयोज्य
१ क. ॰दनियु॰ । २ क. ख. परिश्राव्य । ३ क. पृष्टिप॰ । ४ क. ख. कर्मकार्यस्तु ।