सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 340, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 340

११ द्रोणीकशोफाध्यायः ] हस्त्यायुर्वेदः । ३२१
तस्यास्थिभिः स्वेदमिमं विदध्यान्मूत्रैश्च वक्ष्यामि निबोध तन्मे ॥
वराहमेषाविखराश्वमोजान्यस्थीनि युक्तानि तु माहिषेण ॥
चूर्णं तिलानामपि चात्र दद्यात्स्वेदं यथावद्विदधीत वैद्यः ॥
स पञ्चमूलैरपि संविदध्यात्स्वेदं तु नाड्या विधिवद्यथोक्तम् ॥
तं प्रच्छयेद्वा यदि शस्त्रसाध्यं संप्रच्छय चापि प्रतिचूर्णयेच्च ॥
गृहस्य धूमो लवणानि पञ्च तथा हरिद्रे कटुरोहिणी च ॥
•••• •••• ••••नागस्य च चूर्णनं हि भूयः प्रलिप्ते शृणु भेषजानि ।
पत्राणि चार्कस्य सुवर्चिका च तिला वचाः स्युः कटुरोहिणी च ॥
कुष्ठं घृतं चित्रकसैन्धवं च यंवाश्च लेपो गजमूत्रमिश्रः ।
शिग्रोश्च मूलं लशुनानि कुष्ठं•••• •••• •••• •••• •••• ॥
•••• •••• •••• ••••क्षारा गर्मन्तिकाक्षारमथापि माषान् ।
विपाच्य मूत्रे करिणः प्रलिम्पेद्घृतेन पूर्वं श्वयथुं प्रलिप्तम् ॥
काकादनां चातिविषां हरिद्रे शतावरीं नागबलां सकुष्ठाम् ।
करञ्जबीजानि सुवर्चिकां च भद्राच्च (?) दारु प्रपुनाडबीजम् ॥
किरातकन्दं गजकर्णपर्णमूलानि मूत्रेण गजस्य पिष्ट्वा ।
घृतेन पूर्वं श्वयथुं प्रलिप्य ततः प्रलेपः कफनाशनोऽयम् ॥
निम्बं सकुष्ठं लशुनं वचां च गण्डीरमूलं गजकर्णमूलम् ।
बीजानि शिग्रोः सुवहां हरिद्रे पूतीकमूलं कटुरोहिणीं च ॥
तेजोवतीतां(?) लवणानि पञ्च मूत्रेण सर्वं विधिवच्च तत्पचेत् ।
आवापमन्नं दधिमस्तु दद्यान्मुस्तां वचां लाङ्गलिकीं विशालाम् ॥
किर्लासिमूलान्यथ मोरटं च पिप्पल्य •••• •••••••••पलां च ।
क्षीरं च किण्वं च वसां घृतं च मत्स्यांश्च तैलं च समं विपाच्य ॥
दर्वीप्रलेपं विधिवद्विपाच्य प्रलिप्य वस्त्रैरुपनाहयेच्च ।
अर्कस्य पत्रैः करिकर्णपर्णैः संग्राहयेच्चाऽऽविकचर्मणा च ॥
द्रोणीक एतेन कृतप्रदेहः क्षिप्रं प्रणाशं द्विरदस्य याति ।
अन्योऽपि यः स्याच्छ्वयथुः शरीरे नागस्य शीघ्रं विजयं प्रयाति ॥
ज्योतिष्मती चातिविषा विडङ्गपाठाश्वगन्धा मधुकं वचा च ।
मुस्तं वयःस्थामथ देवदारु लोधुं (?) सतेजोवति चित्रकं च ।
गवेधुकां चापि तथा विदध्यात्कुष्ठं हरिद्रां सरलं शुकास्यम् ॥
रोहिण्यशोको च जलेन कृत्वा क्वाथं यथावत्परिमूत्रणं तँत् ।
१ ख. यथा च । २ क. ॰पर्णीमू॰ । ३ क. ॰लापिम्॰ । ४ क. तत्परिक्षौ॰ ।
४१