हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 353, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 353
३३४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
दसेको गात्राणां कुर्यात् पाठातिविषांहींस्रावचामधुकलाङ्गलीमूलानि लोध्रल-
शुनप्रपौण्डरीकशुकनासामञ्जिष्ठाहरीतकीद्विहरिद्राप्रियङ्गुतण्डुललवणकिण्ववातसी
- .... .... .... त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम् । प्रणश्य-
तोऽनेनास्य गात्रस्तम्भवेपथू( †नश्यति ) भोजनं चास्मै रक्तशालीनां जाङ्गल-
रसविदधां दापयेदिति ॥
तत्र श्लोकौ भवतः—
इति दोषसमुत्थानां कीर्तिता भेषजक्रिया ।
चतुर्णां गात्ररोगाणामुत्पत्तिश्च सलक्षणा ॥
स (य) एतान्साधयेद्वैद्यो गात्ररोगान्यथाविधि ।
स पूज्यः सततं राज्ञा दानमानपरिग्रहैः ॥
इति सांनिपातिकः ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
गात्ररोगो नाम सप्ततितमोऽध्यायः ॥ ७० ॥
अथैकसप्ततितमोऽध्यायः ।
अथाङ्गपतिरव्यहितमनाः समासीनमग्निकल्पमुवाच पालकाप्यम्—"भगवन्,
वनेष्वधिकबलसत्त्वगुणयुक्ता दन्तिनः" इत्येवमवन(ग)तोऽस्मि। तत्र तेषां विह-
सानरणगमने रोगमुपलक्षयेद्गात्राणाम् । स कथमुत्पद्यते व्याधिः । कतिविधा-
बाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भग्नव्या(?)वेवति विच्यु-
तिविश्लिष्टपरिस्रस्तानि जानीयात् । इति । कश्चित्सद्यत उत्पद्यते, कश्चित्तलेन,
कश्चित्मोहे, कश्चिदपस्कारेण, कश्चिद्दुरसा, कश्चिद्दंसे, कश्चित्सर्वदुःखिता,(?)
इति । तेषां तत्त्वतो ज्ञानं साध्ययाप्यप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्च
२व्याधीन्यदि सतपर्त्तित्तो(?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्तं भगवता (?) ! - अथ विनपादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्—दन्तिनां
खलु महाराज द्विविधो गात्ररोगो भवति—आगन्तुर्देहजश्चेति* । षडाबाधो - अत्र किंचित्त्रुटितमिव प्रतिभाति । † प्रक्षिप्तमिह प्रतीयते । * अत्रैव
'द्वादशविधोत्पत्तिः' इति त्रुटितं प्रतिभाति 'स द्वादशविधोत्पत्तिरिति यदुक्तम्' इत्य-
ग्रिमग्रन्थानुरोधात् ।
१ क. भग्नव्यावेवतिविश्लि० । २ क. ०धीन्स यदि । ३ क. ०त्तित्त्वो हि० ।