सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 335, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 335

११६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने ]
उष्णालुर्वातशीलश्च दुर्मना गुरुमस्तकः ।
भक्तद्वेषं च तं रोगं विद्याच्छ्लेष्मोपसर्जनात् ॥
विज्ञानमेतद्व्याख्यातं चिकित्सितमतः शृणु ।
द्वे पञ्चमूले संहृत्य पिप्पलीमूलमेव च ॥
हस्तिपिप्पली (लीं) च चिरबिल्वैः सह विपाचयेत् ।
विपक्वमनुपूर्वेण सुखोष्णमनुपाययेत् ॥
एतत्पीत्वा तु राजेन्द्र ततः संपद्यते सुखी ।
पिप्पलीं शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् ॥
हस्तिमूत्रेण संयोज्य तैलेन च नराधिप ।
सपञ्चलवणां शुण्ठीं पिप्पलीमूलसंयुताम् ॥
ग्रहणीदीपनं देयमेतत्पानमनेकपे ।
नागपिप्पलिमाहृत्य हस्तिमूत्रेण पेषयेत् ॥
एवं प्रतिनये दद्यात्केवलं युक्तितो भिषक् ।
दीप्यते ग्रहणी तेन यवसं वाऽभिनन्दति ॥
हृष्टपुष्टमनाश्चैव न भवत्येव वारणः ।
यवसान्युष्णवीर्याणि कफघ्नानि च दापयेत् ॥
अग्नेर्विवर्धमानस्य पानं भोजनमिष्यते ।
यथा हि मथनादग्निः स्वल्पोऽरणिसमुत्थितः ॥
पूर्वं गोमयचूर्णेन ततस्तृणेन वै नृप ।
क्रमशः तनुभिः काष्ठैः स्थूलैश्च तदनन्तरम् ॥
विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि ।
एवं गजानां विधिवच्छनैराग्निरुदीरितः ॥
भुक्तं सर्वमशेषेण दहत्यग्निरिवेन्धनम् ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
भक्तग्रासोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
अथ षट्षष्टितमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
द्रोणीक इति यः पूर्वं संग्रहे समुदाहृतः ॥
१ क. ॰ष्णानुर्वीनशी॰ । २ क. ॰लीमरिचबि॰ । ३ क. ॰पाचये॰ । ४ ख. पीषयेत् । ५ क. ख. हिमवना॰ ।