हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 334, कुल 742 में से
संदर्भ में पढ़ें१९ भक्तग्रासोपरुद्धाध्यायः ] हस्त्यायुर्वेदः । ३१६
प्रदीपयेत्तु नागस्य तस्य मध्ये हुताशनः ।
इन्दुराकाशमास्थाय यथा दीपस्तथाऽम्भसः ॥
तिष्ठतिष्ठमितो(?)दीपांस्तथा बलिनमम्भसि ।
गजानां नाभिमध्ये तु यवमात्रोऽवतिष्ठते ॥
ह्रस्वकायेषु चान्येषु तिष्ठेत्त्रुटिप्रमाणतः ।
कृमिकीटपतङ्गेषु वल्लमात्रोऽवतिष्ठते ॥
सूर्यो दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः ।
विशोषयति सर्वाणि पल्वलानि सरांसि च ॥
तद्वद्गजानां संभुक्तं जठरो नाभिमाश्रितः ।
मेषुश्च(?) क्षिपमादत्ते सूर्यकान्तो मणिर्यथा ॥
दन्तिनां भोजनं दत्तं नानाद्रव्यसमायुतम् ।
क्षिप्रं सम्यक्प्रदहति तेजोधातुसमायुतः ॥
जाठरो जलसंभूतस्तद्गतिस्तत्परायणः ।
दीप्तेश्च करणा(त्)कोष्ठे सलिलेन च पूरयेत् ॥
अग्निसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
अग्निसोमात्मको राजन्दन्तिनां च चतुर्विधः ॥
सूर्यात्मकानि यात्रीणि(?)पस्मात्सोमात्मकानि च ।
(?)संहृत्पान्सनै तस्मात्खण्डानि न खादति ॥
चिकित्सेद्यस्तु सीदन्तं विषमं चापि दन्तिनाम् ।
आयुर्वेदाभियोगेन स वै राज्ञां चिकित्सकः ॥
उक्तग्रासोपरुद्धस्य लक्षणं संप्रवक्ष्यते ।
वारणानां पुरा राजन्यथावदनुपूर्वशः ॥
मधुराभोजना नित्यमव्यायामास्तथैव च ।
मृत्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः ॥
विदग्धभोजनाद्वाऽपि रात्रौ जागरणेन वा ।
जीर्णाजीर्णाशनाद्वाऽपि सततं पृथिवीपते ॥
हृदये श्लेष्मणा दिग्धे नाभिनन्दति भोजनम् ।
पित्तं च तनुतां याति ग्रहणी चास्य हीयते ॥
१ क. ॰दीपं तन्न ना॰ । २ क. संयुक्तं । ३ क. जील्मुजिल्म्बश॰ ।