हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 348, कुल 742 में से
संदर्भ में पढ़ें७० गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३२९
पाययेत् । अथवा — त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्यांश्च संक्षुद्य प्रसन्ना सह
संयोज्य पाययेत् । पायितो विमुक्तहृदयो भवति । अथवा — त्रिकटुरसोनरज-
नीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पाययेत् । कर्कटकरसं वा पाययेत् ।
सुखी भवति ॥
इति वातिकहृद्रोगः ॥
अथ पैत्तिकः — कटुतीक्ष्णोष्णाम्ललवणक्षारभोजनैः पित्तमुदीर्णं हृद्रोगं जन-
यति ॥
स भवति भक्ष्यभोज्यद्वेषी विमना विकीर्णहस्तः परिमूत्री, विण्मति
ध्यायति । संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छायाभिकाङ्क्षी ॥
तस्य भैषज्यम् — शिशिरमधुरस्निग्धक्रिया । शर्करया घृतमण्डेन वा
गात्रयोः परिषेकं कुर्यात्* । .... .... .... .... .... .... .... .... .... .... .... .... ।
.... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... ॥ अर्हिं-
स्तामधुशिग्रुकरवीरकरीतर्कीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्च समभा-
गान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत् । घृततैलवसाभिः सिद्धमह्य(माहृ)त्य सुखो-
ष्णेन गात्राणि मलेपयेत् । द्विपञ्चमूलानि माषांस्संक्षुद्य यमकस्नेहे साधयित्वा सीधुं
दधि च, तेनापि सुखोष्णेन गात्राणि प्रलेपयेत् । आढकीमधुशिग्रुशणमूलकैर-
ण्डांनां बीजानि विश्वभेषजपृथ्वीकाबलातसीतिलसर्षपयवतण्डुलकुलत्थबदर-
बिल्वचूर्णानि समभागानि पाचयित्वा घृततैलवसाभिर्दध्ना सौवीरसुरामण्डैः सह
संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्त्वा संक्षुद्य स्थापयेत् । पञ्च-
रात्रमासुतं महास्थाल्यां ततस्तमासवं पाचयित्वाऽवतार्य तस्योष्णेन गात्रा [णि]-
प्रलेपयेत् । रालारास्त्रागोक्षुरकवासाकण्टकारिकर्चूररोबूकाग्निमन्थपृश्निपर्ण्यंशुमती
पाषाणभेदिकाबिल्वपाटलीपवातसीमधुककोलकुलत्थान्पाचयित्वा ततस्तं नि-
ष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भं पाययेद्वार णम् । सर्पिस्तैलदधीनि
सुखोष्णानि पृथक्समस्तानि वा, पाययेत् । द्विपञ्चमूलं गृहीतं चैनं स्निग्धेन
मातुलुङ्गरसयुक्तेन रसेन भोजयेत् । स्नेहदानोक्तेनान्यतमेन वातप्रशमनेन स्नेहो-
पक्रमेणोपचरेत् । शशतिकेन(?) चास्य विधिना बस्तिकर्म कुर्यात् । यथोक्तब-
स्तिसिद्धिविधानेन वा बस्तिं दद्यात् । अथोदकपरिषेकोऽभ्यक्तप्रदित्य(?)लेपन-
- इतः परं द्वयोरप्यादर्शयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा
त्यक्ता(त्रुटिता) । ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं त्यक्तम्(त्रुटितम्)” इति
लिखितं दृश्यते ॥
१ ख. ०वा-र० ।
४२