सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 336, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 336

११ द्रोणीकाध्यायः ] हस्त्यायुर्वेदः । ३१७
तस्य व्याधेश्चिकित्सां च लक्षणं संप्रवक्ष्व मे ।
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ।
द्रोणीकशोफो विज्ञेयो जठरे पञ्चधा नृप ॥
निदानानि पृथक्तस्य चिकित्सां च प्रचक्षते ।
तत्राऽऽदौ वातिकस्तावच्छ्वयथुः संप्रवर्तते ॥
व्यायामाच्च व्यवायाच्च रूक्षादपि च भोजनात् ।
तथा बन्धाच्च विविधादतिशीतेन वा तथा ॥
शकृन्मूत्रोपरोधाच्च दुःस्थानाद्वा तथा पुनः ।
उदरे मारुतः शोफं जनयेत्तस्य हस्तिनः ॥
शोफाभिभूतश्च भृशं भ्रममाप्नोति वारणः ।
चञ्चलो मृदुभूतश्च चिरात्पाकं न गच्छति ॥
विविधं स्वभावाद्वातात् .... .... .... .... ।
श्वयथुः स्यात्स विषमस्त्वग्रतो ह्यनवस्थितः ॥
मालतीं सुरसां वंशं (※पाटलां) काटरूषकम् ।
अर्कं मधूकं तर्कारीं तिलपिष्टं च पाययेत् ॥
नाडीस्वेदो घृताक्तस्य .... .... .... .... .... ।
.... .... .... (†वसाया) नाडीस्वेदो विधीयते ॥
तण्डुलानतसीं किण्वं दध्यम्लेन विपाचयेत् ।
रात्रिपर्युषितं शीतं प्रदेहं तस्य कारयेत् ॥
साकपर्णी .... स्वरां .... वसां तैलं घृतं दधि ।
जलजानां च सत्त्वानां मेदो मांसं च पाययेत् ॥
स्वभ्यक्तं सर्पिषा शोफं सुखोष्णं तं प्रलेपयेत् ।
स्योनाकं पाटलीं बिल्वं काश्मर्यं वेणुपत्रिकाम् ॥
आरग्वधं कुवेराक्षीं मेषशृङ्गीं ससैन्धवीम् ।
सुवहां तालपत्रीं च सूक्ष्मपिष्टानि कारयेत् ॥
(※सुखोष्णं सघृतं चैव प्रदेहस्तस्य युज्यते ।

  • खपुस्तके त्रुटितम् । †कपुस्तके नास्ति । ※ धनुराकारमध्यस्थाः श्लोकार्धी
    न कपुस्तके ।
    १ क. तस व्याधिचिकि० । २ क. घृताभ्यक्त । ३ क. सस्वरां ।