हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 337, कुल 742 में से
संदर्भ में पढ़ें३१८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
स्नेहपानं च नागस्य गात्राभ्यङ्गं च दापयेत् ।
औदकानां च सत्त्वानां रसैस्तं प्रति भोजयेत् ॥)
अशान्तौ सर्वथा शोफे क्षिप्रं रक्तं प्रमोक्षयेत् ।
निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रतिचूर्णयेत् ॥
गृहधूमहरिद्राभ्यां साकुष्ठां सैन्धवेन च ।
इत्येष वातिकः प्रोक्तो वक्ष्यते पित्तसंभवः ॥
अम्लोष्णभोजनान्नित्यं कटुकात्यशनादपि ।
लवणस्यातियोगाच्च पित्तवातं प्रकुप्यति ॥
उरोद्रोणीं समाश्रित्य श्वयथुस्तस्य जायते ।
श्वयथुस्तस्य पीताभो रक्ताभश्चापि लक्ष्यते ॥
पित्ताद्दाहस्तु नागस्य क्षिप्रं पाकं च गच्छति ।
हस्तिकर्णपलाशानि श्लक्ष्णचूर्णानि कारयेत् ॥
सर्पिषा सह संयोज्य प्रदेहं तस्य कारयेत् ।
श्यामामंशुमतीं चैव एरण्डं लशूनानि च ॥
दद्यात्प्रपौण्डरीकं च विषामतिविषां तथा ।
मकरस्य च मांसानि गोमांसं चैव पोचयेत् ॥
दार्वाप्रलेपं विज्ञाय ततस्तमवतारयेत् ।
तेन प्रदेहं नागस्य बहलं तस्य दापयेत् ॥
समूलमिह संहृत्य धत्तूरं सारिवां तथा ।
पयसा सह पिष्टानि प्रदेहः सघृतो भवेत् ॥
अतिप्रवृद्धे श्वयथौ प्रच्छन्नं तस्य कारयेत् ।
निर्दोषं शोणितं दृष्ट्वा कषायैः प्रति चूर्णयेत् ॥
अश्वत्थस्य कषायेण सर्जस्य ककुभस्य च ।
हरिद्रागृहधूमाभ्यां लशुनैः सैन्धवेन च ॥
इत्येष पित्तजः प्रोक्तो वक्ष्यते कफसंभवः ।
नागस्याल्पप्रचाराच्च वसन्ते संचितः कफः ॥
उदरे श्वयथुस्तस्य जायते श्लेष्मसंभवः ।
दारुणः कठिनश्चैव शीतो वै मन्दवेदनः ॥
एतद्वै तस्य विज्ञानं व्याख्यास्यामश्चिकित्सितम् ।
गोमयं वेणुपत्राणि स्वेदार्थे पाचयेद्भिषक् ॥
१ ख. पाययेत् ।