सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 343, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 343

व्याधिश्च प्रशमं याति योगैरेभिर्नरेश्वर ।
इत्येवमतियातस्तु योक्तुर्दोषेण जायते ॥
तस्मात्सुग्राय(?) मातङ्गो तदेव ( न देयः ) पृथिवीपते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽति-
यातो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥
अथाष्टषष्टितमोऽध्यायः ।
रोमपादो महातेजाः प्रणम्य शिरसा शुचिः ।
पालकाप्यं मुनिवरं विनयात्परिपृच्छति ॥
गुल्माः पञ्च मुनिश्रेष्ठ ध्यारयो(?)•••• •••• ।
पूर्वं प्रोक्ता भगवता नामतो रोगसंग्रहे ॥
समुत्थानं च रूपं च तेषां विस्तरतो मम ।
चिकित्सां चानुपूर्वेण भगवन्वक्तुमर्हसि ॥
एवं पृष्टः स भगवान्पालकाप्यस्ततोऽब्रवीत् ।
शृणुष्वैवं महाराज प्रसन्नेनान्तरात्मना ॥
गुल्माः पञ्च महाराज ये प्रोक्ताः संग्रहे मया ।
तेषां निदानमुत्पत्तिं चिकित्सां च प्र॑वक्षते ॥
वातात्कफात्पित्ताच्चैव शोणितादपि केवलात् ।
जायन्ते दन्तिनां गुल्माः संनिपाताच्च पञ्चमः ॥
स्निग्धभक्तैश्च मांसैर्वा यदा नागो निराकृतः ।
बस्तिभागाच्छयान्नाभे रसन्नानि(?) लभेतपुनः ॥
कटुतिक्तकषायाणां रसानां चातिसेवनात् ।
शुष्काणि च यदा नागो यवसानि च भोजयेत् ॥
विद्यात्तदा तदुत्पत्तिं•••• •••• •••• •••• •••• •••• ।
अल्पतेजोऽन्नदानाद्रा्र(द्वा) सहसा कुप्यतेऽनिलः ।
स तस्य जनयेद्गुल्मं समन्ताद्धृदयोंश्रितः ॥
१ क. भवान्वै वक्तुं । २ क. प्रचक्ष्वते । ख. प्रचक्ष्यते । ३ क. मांसैश्च ।
४ ख. ॰भेत् ॥ क॰ । ५ क. ख. ॰यास्तृतः ।