हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 341, कुल 742 में से
संदर्भ में पढ़ें३२२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
क्षौद्रेण युक्तं द्विरदाय पानमानाहगुल्मापहरं प्रविष्टम् ॥
द्रोणीकशोफं कृमिकोष्ठकासमसंशयं हन्ति च वारणानाम् ।
पटोलपत्रैः सह निम्बपत्रैः शुद्धेषु शुद्धं प्रपिबेच्च यूषम् ॥
शाल्योदनं चापि मृदुः(र्दु) सुसिद्धं दद्याद्यथोक्तं यवसं विचित्रम् ।
तत्र श्लोकः—
द्रोणीको यदि भवति द्विपस्य भिन्नः स क्षिप्रं प्रणुदति जीवितं विवृद्धः ।
एतं यः शमयति वारणस्य वैद्यः स प्राप्यो भवति परां नृपेण पूजाम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
द्रोणीकशोफो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
अथ सप्तषष्टितमोऽध्यायः ।
आतयातो गजो राजन्यथा भवति तच्छृणु ।
अयोगेनानभिज्ञेन यो गजो वाहितो भृशः ॥
( †स्नेहैर्विधाभिर्यवसैस्तथैव सरसार्जुनैः ।
पोष्यते यस्तु मातङ्गो योज्यते न च कर्मणा ॥
लभते चाग्निदौर्बल्यमानाहे चैव वारणः ॥ )
तृष्णामथ च वैवर्ण्यं शारदत्वं तथैव च ।
स यदाऽल्पेस्स्रुतो नागो युक्तः कर्मविशारदैः ॥
अकर्मगे(?) प्रयुज्येत गजः संपानकर्मणि ।
वातास्तथाऽपि च ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
हस्तियुद्धेऽपि चात्यर्थमथ सांग्रामिकेऽपि वा ।
त्वरया कर्मलोभाद्वा प्रयोगस्यातिमात्रया ॥
बलाबलमविज्ञाय योक्ता नांगं प्रपीडयेत् ।
अत्यर्थं कर्मयोगेन तदा गात्राणि मारुतः ।
पित्तेन सहितस्तस्य व्यापादयति हस्तिनः ॥
प्रत्यङ्गं सौप्रतीकाशौ (?) प्रोहापस्कारमेव च ।
॰॰॰॰ ॰॰॰॰ ॰॰॰॰ 'सकुटिके' ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
† 'धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥
१ क. योगज्ञो वा° । २ क. °ल्पश्रुतो । ख. °ल्पश्रुतौ मा° । ३ स. नाङ्गं ।