सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः । १५
कफादिजनकत्वमुक्तम् । तत्तथाच रसविशेषाणामेव दोषविशेष-
जनकत्वम् । तदुक्तं यथा
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ।
इत्यादिना च यो विपाक उक्तस्तत् सर्वं विरुध्यते अवस्था-
पाकेनैव बाधितत्वादिति । नैवम् । न हि अवस्थापाकोऽयं रस-
स्वभावं निष्ठापाकं बाधते । किञ्च अवस्थायां स्वकार्यं करोति
तेन रसादयोऽपि स्वकार्यं कुर्वन्ति । अवस्थापाकोऽपि स्वीयं
कार्यं करोति यथा मधुरतिक्ताद्यनेकरसे उपयुक्ते मधुरोऽपि
स्वकार्यं करोति । तिक्तादयश्च स्वकार्यं कुर्वन्ति । अयन्तु
विशेषो यदि मधुराख्यस्य अवस्थापाकस्य मधुरादयः श्लेष्म-
जनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति ।
यथा तु विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोक-
मात्रं कफं जनयति । एवं पित्तजनकावस्थापाकेऽपि वाच्यम् ।
कटुतिक्तकषायाणामित्यादिना उक्तश्च निष्ठापाको रसमल-
विवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न
विरोधः । स च भिन्नकालोऽपि अवस्थापाकजन्यदोषानुगुण-
तया अननुगुणतया वा अवस्थापाकाहितदोषाणां वर्द्धनं क्षपणं
वा करोतीति निष्ठापाकाभिधानं शास्त्रे प्रयोजनवदेव । अन्ये
तु ब्रुवते न तावत् षड्रसादप्यन्नात् सामान्येन अवस्थापाके-
ऽपि कफोत्पत्तिः । किन्तु षड्रस एवान्ने मधुरो य आहारांशः स
उद्रिक्तः सन् कफं जनयति । तथा पित्तदोषकोपको य
आहारभागस्तस्माद्विदाहावस्थायामुद्भूतात् अम्लरसात् पित्त-
मुत्पद्यते । एवं वायुरपि वायुजनकाहारांशात् कटुतावस्थायां
भवतीति । एतच्च न सङ्गतम् अन्नस्य भुक्तमात्रस्य इत्यादि-
ग्रन्थविरोधात् । यतोऽत्र षड्रसस्यैव अन्नस्य सामान्येन अव-
स्थापाकात् कफादिजनकत्वं दर्शितं न तु कस्यचिदाहारां-

१६ द्रव्यगुणः।
शस्येति। यदि पुनः षड्रसाहारगतो यः श्लेष्मजनको भागः
स एव स्थानमहिम्ना उद्भूतः सन् सर्वमेवाहारमवस्थापाकसमये
मधुरीकृत्य कफं जनयतीत्युच्यते तदानुमतमेव। अन्ये त्वाहुः।
यन्नान्नस्याग्निसंयोगान्मधुराद्यवस्थितं भवति। किन्तु कफा-
दिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति ते
चान्नं स्वस्वभावं नीत्वा कफादीन् जनयन्ति। उक्तं हि तन्त्रा-
न्तरे मधुरो हृदयादूर्द्धं रसः कोष्ठे व्यवस्थितः।
ततः संवर्द्धते श्लेष्मा शरीरबलवर्द्धनः।
नाभीहृदयमध्येन रसस्त्वम्लो व्यवस्थितः ॥
स्वभावेन मनुष्याणां तत्र पित्तं विवर्द्धते।
अधो नाभ्यान्तु स त्वेकः कटुकोऽवस्थितो रसः ॥
प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्द्धतेऽनिलः।
तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः॥
एतच्च तन्त्रान्तरं श्लेष्मपित्तगतमधुराम्लरसवायुप्राभाविक-
कटुरसाभिप्रायेण वर्णनीयम्। ते च कफादिगता रसा अस्माक-
मप्यग्न्याशयपाकसह्कारितया अनुमता एवेति। तस्माद्-
यथोक्त एवार्थो न्याय्य इति। अयञ्च विपाकाधेयो रसविशेषो
न रसनेन्द्रियग्राह्यः किन्तु तत्तत्कार्य्यैरेवोन्नीयते॥ यथा कटु-
रसाया उष्णवीर्य्याया अपि शुण्ठ्या वृष्यत्वेन मधुरः पाकोऽनु-
मीयते तथा लवणस्य सृष्टविण्मूत्रत्वेन मधुरः पाक उन्नी-
यते। तथा तिक्तकषायोर्बद्धविण्मूत्रतया कटुपाक उन्नीयत
इति। ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुप-
पन्नम्। तथा तिक्तकषाययोः कटुपाकित्वेच पित्तहन्तृत्व-
मनुपपन्नम्। नैवम्। सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे
उष्णवीर्य्यं यदस्ति तेन तत्पित्तरक्तादिकारकत्वम्। विपा-
कस्तु तत्र पित्तरक्तकरणलक्षणे कार्य्ये बाधितोऽपि सृष्टविण्मूत्रा-

दिलक्षणेन लक्ष्यत एव । तथा तिक्तकषाययोरपि कटुविपाको
बलवता शीतवीर्येण बाधितत्वान्न पित्तजनकः । बद्धविण्मूत्र-
तया तु लक्ष्यत एव । एतेन यदुच्यते लवणादिषु विपाको यदि
रसवीर्य्याभ्यां बाधितः स्वकार्य्यकरो न स्यात् तत् किं तेनोपदि-
ष्टेन इति तन्निरस्तं भवति । यतोऽस्त्येव सृष्टविण्मूत्रतादि तत्का-
र्य्यमिति । अन्ये तु एतद्दोषभयात् लवणस्तथेत्यत्र तथाशब्देन
विप्रकृष्टमम्लमाकृष्य लवणोऽम्लः पच्यते इति व्याख्यानयन्ति ।
तन्न कट्वादीनां कटुविपाकः अम्लोऽम्लस्य शेषयोर्मधुर इति
जतूकर्णविरोधात् । न च त्रय एव विपाकाः कथं भवन्ति
तिक्तादयोऽपि कुतो न स्युरिति वाच्यम् । भूतस्वभावस्यापर्य्यनु-
योज्यत्वात् । ननु यत्र रसविपरीत: पाको यथा लवणस्य
मधुरः तिक्तकषाययोश्च कटुः स उच्यतां यस्तु समानगुणो मधु-
रस्य मधुरः अम्लस्याम्लः कटुकस्य कटुकः तत्कथनेन किं प्रयो-
जनम् । यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् ।
लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानु-
गुणोऽपि विपाको वक्तव्य एव । तथा यत्र समानगुणो विपाक-
स्तत्र बलवत्कार्य्यं भवति । विपर्य्यये तु दुर्बलमिति ज्ञेयम् । सुश्रु-
तेन द्विविध एव विपाकोऽङ्गीकृतः मधुरः कटुकश्चेति । द्वैविध्ये
च भूतानां गुरुलाघवेन द्वैविध्यमेव हेतुः । यदुक्तं तेनैव तत्र
पृथिव्यप्तेजोवायूकाशानां द्वैविध्यं भवति तद्गुणसाधर्म्यात् ।
तत्र पृथिव्यापश्च गुर्व्यः । शेषाणि च लघूनि । तस्माद् द्विविध
एव विपाको भवति । तद्गुणसाधर्म्याच्च गुरुता लघुता
ज्ञेत्यर्थः । अत्रापि सुश्रुतमते यद्यप्यम्ललवणौ मधुरविपाकौ
तथापि तयोर्वातहरत्वे सृष्टविण्मूत्रतायाञ्च मधुरकार्य्यकरत्वं
न पुनः पित्तहरत्वे । तथा तिक्तकषाययोः कटुविपाकयोरपि
वातकर्त्तृत्वे बद्धविण्मूत्रतायाञ्च कटुकार्य्यकरत्वं न पुनः

१८ द्र्व्यगुणः ।
पित्तकर्तृत्वे अचिन्त्यत्वात् प्रभावस्य । एतदेवोक्तं माधवे-
नापि ।
स्वादादीनां स्वादुपाकः सुश्रुताचार्य्यसम्मतः ।
तत्कथं पित्तजननौ स्यातामम्लकट्टू रसौ ॥
कटुपाकौ कथं पित्तनाशनौ तिक्ततूवरौ ॥
सिद्धान्तोऽपि ।
अम्लपट्वोः फलं दद्यात् स्वादुपाकः कटुः पुनः ।
कषायतिक्तयोरित्थं सुश्रुताचार्य्यसम्मतः ॥ इति ।
ननु पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः ।
विपक्कः पञ्चधा सम्यक् स्वान् गुणानभिवर्द्धयेत् ॥
इत्यनेन पञ्चधापि विपाकस्तेनैवोक्तः । तत्कथं न विरोध
इति चेन्नैवम् । उपाधिभेदेन विरोधाभावात् । तत्र हि भूत-
भेदमवलम्ब्य पञ्चधात्वम् । अत्र तु लाघवगौरवरूपं भूतगुण-
द्वैविध्यमाश्रित्य द्वैविध्यमुक्तमिति न विरोधः । यथा पञ्चभूता-
त्मकत्वेऽपि द्रव्याणां सौम्याग्नेयत्वाद्वैविध्यमिति । यत् पुनः
सुश्रुतेनाम्लपाको न मन्यते तच्चरकमतानुयायिनो न सहन्ते ।
यतोऽम्लपाकतयैव व्रीहिकुलत्थादीनां पित्तकर्त्तृत्वमुपपद्यते ।
अथ मन्यसे व्रीह्यादेरुष्णवीर्य्यत्वेन तत्र पित्तकर्त्तृत्वम् । तदसत् ।
मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्य उष्णवीर्य्यतायामपि सत्यां
न पित्तकर्त्तृत्वमुपपद्यते । रसविपाकाभ्यामेकस्य वीर्य्यस्य बाध-
नीयत्वात् । किञ्च अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्प-
द्यते । यदि तु उष्णवीर्य्यताकृतं स्यात् तदा कटुगुणभूयिष्ठं
पित्तं स्यात् । दृश्यते च व्रीहिभक्षणादम्लोद्गारादिना अम्लगुण-
भूयिष्ठतैवेति । किञ्च पृथिवीसोमगुणातिरेकान्मधुरः पाको
भवति वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्र-
गुणातिरेको भवति । तदा सोमाग्न्यात्मकस्याम्लस्य उत्पादकः

द्रव्यगुणः । १८
शालयो मधुराः शीता लघुपाका बलप्रदाः ।
पित्तघ्नाल्पानिलकफाः स्निग्धबद्धाल्पवर्चसः ॥११॥
कथं प्रतिक्षेपणीयः । अथवा तन्त्रकारयोः किमनयोरनेन
वचनमात्रविरोधेन कर्त्तव्यम् । यतो यदम्लपाकं चरके ब्रूते
तत् सुश्रुतेन वीर्य्योष्णमिति कृत्वा समाधीयते । अनेन न
कश्चित् द्रव्यगुणे विरोधः । यत्तु सुश्रुते अम्लपाकनिरासार्थं
दूषणमुच्यते । पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तद-
नभ्युपगमादेव निरस्तमिति । विपाकगुणानाह कटुरित्यादि
॥ १० ॥
सम्प्रति द्रव्याणां गुणे वक्तव्ये द्रव्येषु चान्नस्य प्राधान्यात्
अन्नेषु च शूकधान्यानां शूकधान्येषु च शालीनाम् । अतः प्रथमं
तेषां सामान्यगुणानाह शालय इत्यादि । अत्र शालिशब्देन
हैमन्तिकं धान्यमुच्यते । यत्तु अकण्डितशुक्लत्वेन शालित्वमुच्यते ॥
तद्ग्रैष्मिकेषु षष्टिकादिषु शारदेषु व्रीहिषु च गतत्वात्
सकलशाल्यव्यापकत्वाच्च न युक्तम् । लघु शीघ्रं पाको येषां ते
लघुपाका लघुगुणयोगात् शीघ्रपाका इत्यर्थः । तन्त्रान्तरे-
ऽप्युक्तम् ।
अन्नपानविधावुक्तं यद्द्रव्ये गुरुलाघवम् ।
अग्निना तद्विजानीयात् पचनेन चिराचिरम् ॥
इति । न तु लघुगुणयुक्तः पाको येषामित्यर्थः । यतस्तादृशः
पाकः कटुरेव भवति । तथा सति स्निग्धत्वं बलावहत्वञ्चानुप-
पन्नं स्यात् । नन्वेवं बद्धाल्पवर्चस्त्वं मधुरपाके चानुपपन्नम् ।
यदुक्तम् ।
स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः ।
इति । नैष दोषः । शालीनां मधुरपाकित्वेऽपि बद्धाल्पवर्चस्त्वं

२० द्रव्यगुणः ।

द्रव्यप्रभावात् । नन्वेवं कटुपाकत्वेऽपि स्नेहादयो द्रव्यप्रभावा-
देव भविष्यन्तीति चेन्नैतदस्ति शालिनां कटुपाकाङ्गीकारे बहु-
तन्त्रविरोधप्रसङ्गात् । तथाच चरकः
शीता रसे विपाके च मधुराः स्वल्पमारुताः ।
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः ॥
इति । तथा वाग्भटोऽपि । स्वादुपाकरसाः स्निग्धा इत्यादि-
मधुरपाकत्वेऽपि शालीनां शीघ्रपाकित्वं प्रकृतिलघुत्वात् । अत-
एव मात्राशितीये । शालिषष्टिकशशशशखरादीन्याहारद्रव्याणि
प्रकृतिलघून्यपि मात्रामेवापेक्षन्त इत्यनेन लघुत्वं शीघ्रपाक-
कारणमुक्तम् । अन्ये पुनरत्र पाकद्वयमङ्गीकृत्य सुश्रुतचरकयो-
रविरोधं मन्यन्ते । तत्रैको रसपाकोऽन्यश्च द्रव्यपाको यदाह
विश्वामित्रः
पूर्वं रसा विपच्यन्ते पश्चात् द्रव्यं विपच्यते ।
पूर्वस्तत्र तु भाक्तः स्यादुत्तरः पारमार्थिकः ॥
इति । तेन रसपाकमाश्रित्य मधुररसपाकित्वेन शालिनां
गुरुपाकित्वं चरकेणाङ्गीकृतम् । पुनस्तेनैव निष्ठापाकमभि-
प्रेत्य मात्राशितीये शालिषष्टिक इत्यादिना लघुपाकित्वमप्यङ्गी-
कृतम् । सुश्रुतेनापि निष्ठापाकमभ्युपेत्य शालिनां लघुपाकि-
त्वमुक्तम् । स्निग्धत्वं बलावहत्वञ्च रसपाकमभ्युपेत्य उक्तमिति
न विरोधः । तन्तु न सम्यक् रसपाकस्य पूर्वमेव निराकृत-
त्वात् । अवस्थापाकेन सर्वस्यैव रसस्य कटुपाकित्वे तदानीं
मधुरादिरसासम्भवादिति तेजःसंयोगरूपः पाको रसेन सम्भव-
त्येवेति पूर्वमेवोक्तमिति । यदप्युक्तं विश्वामित्रेण तदप्याहार-
स्यामपच्यमानपक्वावस्थाभिर्गुणीभूताहारपरिणामेन गुणभूत-
स्वरूपरसपरिणामाङ्गीकारः । पुनरामविदग्धपक्वावस्थासु प्रत्य-
नीकरसानामपि कफपित्तवातकारित्वविधानार्थम् । तथाहि

द्रव्यगुणः । २१
रक्तशालिस्त्रिदोषघ्नश्चक्षुष्यः शुक्रमूत्रलः ।
तृष्णाघ्नो वलकृत् स्वर्य्यो हृद्यस्तदनु चापरे ॥ १२ ॥
षष्टिको मधुरः शीतो लघुर्वृष्यस्त्रिदोषहा ॥ १३ ॥
मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
वहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः ॥ १४ ॥
अवस्थायां कटुतिक्तकषाया अपि आमाशयस्थानमहिम्ना प्राप्त-
मधुरभावाः कफं कुर्युः । विदाहे पुनरम्लभावेनाशयप्रभावजेन
मधुरतिक्तकषाया अपि पित्तमावहन्ति । एवं पक्वाशयप्रभावो-
पहंहितेन पाकनिःसारभावरौक्ष्येण मधुराम्ललवणा अपि वात-
कारिण इति । तदेतद्विस्तरेण चरके ग्रहणीचिकित्सितेऽभि-
हितम् । वास्तवस्तु द्रव्याणामेव पाकः स च सम्यक् धातुरस-
मलविरेकान्तलक्षण एव निष्ठापाक इत्यभिधीयते । विश्वा-
मित्रेणापि भाक्त इति वदता रसपाकानामभाव एव सूच्यते
न पुनरुभयसम्भव इति ॥ ११ ॥
अनुशब्दो हीनार्थः । तेन रक्तशालिमपेक्ष्य अपरे शालयः
किञ्चिद्धीनगुणा इत्यर्थः । एतेन शेषशालीनामप्यतिदेशेन
गुणा उक्ताः ॥ १२ ॥
यद्यपि षष्टिकादयो बहवो भवन्ति ग्रैष्मिकास्तथापि तेषु
मध्ये प्रधानस्य षष्टिकस्य गुणमाह षष्टिक इति ।
ननु चरके शीतः स्निग्धो गुरुः खादुरित्यनेन षष्टिकस्य
गुरुत्वमुक्तमिह कथं लघुरिति पठ्यते । नैवमवागुरुरित्यकार-
प्रश्लेषाल्लघुत्वमेवार्थः । अतएव मात्राशितीये लघुरित्युक्तम् ॥ १३ ॥
व्रीहिसंज्ञकस्य शारदाशुकधान्यस्य गुणमाह मधुर इति ।
पाटलो व्रीहिविशेषः ॥ १४ ॥

२२ द्रव्यगुणः।

धान्यं शरद्ग्रीष्मभवं पाकेऽम्लं पित्तकृद्गुरु ॥१५॥
धान्यं सर्वं समातीतं पथ्यं लघ्वन्यथा नवम् ।
ततः परं लघुतरं रूक्षं वातप्रकोपणम् ॥ १६ ॥
अनुक्तानां शारदग्रैष्मिकधान्यानां सामान्यगुणमाह धान्य-
मिति । ननु शाल्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं
भवति ते च तण्डुलादयः पृथगेव गुणतो निर्देष्टव्याः ॥
अतस्तत्प्रकृतिगुणाभिधानं व्यर्थं तद्विकृतिगुणेनैव कार्य्य-
करत्वात् । नैव द्रव्याणां हि प्रकृतिगुणसहिता एव विकृति-
गुणाः कार्य्यकराः । यतस्तण्डुलभक्तपेयादयो रक्तशाल्यादि-
प्रकृतिगुणानुगता एव । नहि रक्तशालिकृतभक्तपेया लाजादयो
यथा लघ्वादिगुणास्तथा व्रीहिकृतभक्तपेया लाजादयः । किन्तु
प्रकृतिगुणानुगतरक्तशालिकृतभक्ताद्यपेक्षया गुरव एव । तेन
यत्र प्रकृतिगुणसमानो विकृतिगुणस्तत्र गुणोत्कर्षः । यत्र
प्रकृतिगुणविपरीतो विकृतिगुणस्तत्र गुणापकर्षः । यथा व्रीहे-
र्गुरोर्लघवो लाजाः । अत्र लाजकरणेनाल्पमेव लघुत्वं क्रियते ।
यत्र प्रकृतिगुणैर्न समानो नापि विपरीतो विकृतेर्गुणः । तत्र
द्वयोरपि प्रकृतिविकृतिगुणयोः पृथगेव कार्य्यकारित्वमुत्सर्गत्तः ।
कचित्तु यद्विकृतेर्बलीयस्त्वेन प्रकृतिगुणाभिभावकत्वं यथा
शुक्तासुतार्द्रककरीरादिषु तत्तदासुतं तदितिविशेषागमादेव-
प्रतीयते । तेन तत्र प्रकृतिगुणानां दुर्बलत्वम् । यदपि प्रकृति-
गुणोपमर्द्देन तद्विरुद्धकार्य्यकर्तृत्वं विकृतेः यथा कांस्यभाजने
दशरात्रस्थितस्य सर्पिषो मारकत्वमित्यादि । तदप्यपवादरूप-
मागमवेद्यमेव । तेन यत्रोत्सर्गभूतशास्त्रार्थापवादस्तत्रोपदेशं
शास्त्रकारः करोत्येवेति प्रकृतिविकृत्योः पृथग्गुणाभिधानं युक्त-
मिव । अयञ्च न्याय एवञ्जातीयेषु मांसादिषु ज्ञेयः ॥ १५ ॥

द्रव्यगुणः । २३
दग्धायामवनौ जाताः शालयो लघुपाकिनः ।
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षिणः ॥१७॥
स्थलजाः कफपित्तघ्नाः कषायाः कटुकानुगाः ।
किञ्चित् सतिक्तमधुराः पवनानलबर्द्धनाः ॥ १८ ॥
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।
अदाहिनो दोषहरा वल्या मूत्रविवर्द्धनाः ॥१९॥
इदानीं धान्यानां कालविशेषेण क्रियाविशेषेण च गुण-
विशेषमाह धान्यमिति । ततः परमिति वर्षद्वयात् परमि-
त्यर्थः ॥ १६ ॥
लघुपाकिन इति शीघ्रपाकाः । अन्ये तु कटुपाकिन
इत्याहुः ॥ १७ ॥
स्थलजा इति जाङ्गलभूमिसम्भवाः । अत्र सतिक्तमधुरा
इत्यत्र ईषदर्थेन सहशब्देन सम्बन्धात् किञ्चिदर्थे लब्धे किञ्चि-
दितिपदं पुनरुक्तमिति मन्यमानाः पवनानलबर्द्धना इत्यत्र
योजयन्ति केचित्
कैदारा मधुरा हृद्या बल्याः पित्तनिवर्हणाः ।
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥
कैदारा इत्यनूपदेशजाः जलसमीपभूमिभागजाता इत्यर्थः
॥ १८ ॥
एकवारमुत्पाट्य येऽन्यत्र रोप्यन्ते ते रोप्या अतिरोप्यास्तु
एकवारमुत्पाट्य रोपयित्वा पुनरुत्पाट्य रोपिताः तेन वारद्वयं
रोपिता इत्यर्थः । एतेन प्रथमं यत्रोप्तास्तत्रैव ये पच्यन्ते
तदपेक्षया उत्खातरोपिता लघवस्ततोऽपि रोप्यातिरोप्या

२४ द्रव्यगुणः।
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः ।
तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः॥२०·
गोधूमः स्थैर्य्यकृद्वृष्यः स्निग्धशीतः सरो गुरुः।
सन्धाता बृंहणो बल्यो जीवनो वातपित्तहा ॥२१॥
लघव इत्युपदर्शितम् । शीघ्रपाका इति शीघ्रं जठराग्निना
पच्यन्ते । लघव इत्यनेन लघुपाकित्वमुक्तमिति केचित् ॥ १६ ॥
छिन्नरूढ़ा इति । प्रथमं छिन्नाः पश्चात् रूढ़ाः। अत्र केचिच्चोद-
यन्ति ननु च दग्धायामवनौ जाता इत्यादिना उक्तशाल्यादीनां
यदि पुरोक्तगुणविरोधेन गुणान्तरोत्पत्तिरुच्यते तदा पूर्वगुण-
वर्णनमनर्थकम् तद्विरोधेनेति चेत् तदा पूर्वापरविरोधः । तथा
हि तेषां शालीनां स्निग्धत्वमुक्तं दग्धावनिसम्भूतानान्तु तेषामेव
रौक्ष्यमपीति । तन्न उत्सर्गापवादभेदेनाविरोधात् । एतच्च
पूर्वमुक्तमेव ॥ २० ॥
गोधूमगुणमाह गोधूम इति । अत्र गोधूमस्य स्वादुशीत-
स्निग्धादिगुणयोगात् श्लेष्मकर्तृत्वं ज्ञेयम् अतएव सुश्रुते श्लेष्मकर
इत्युक्तम् । अन्ये तु “चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजन” इति
वसन्ते गोधूमस्य विधानात् श्लेष्मकारित्वमस्यायुक्तमिति मन्य-
मानाः सुश्रुते श्लेष्मकर इत्यस्य स्थाने शोफकर इति पठन्ति ।
तन्न सम्यक् गोधूमगुणपर्य्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात्
वसन्तस्यादानमध्यत्वेन वातपित्तानुबन्धात् स्निग्धशीतस्यापि गोधू-
मस्य तत्रोपयोगोऽपि न विरुध्यते । किंवा गोधूमोऽत्र पुराणो-
ऽभिहितः स च न कफकरः । यदुक्तम्
मधुरं श्लेष्मलं प्रायो जीर्णाच्छा लियवादृते ।
मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥

द्रव्यगुणः । २५
यवः स्वादुः कषायश्च कफपित्तहरो हिमः ।
व्रणेषु सर्वदा पथ्यस्तिलवत् पाकतः कटुः ॥
बहुवातपुरीषश्च मेदोवाततृषापहः ।
वृष्यो बल्यो वड्मूत्रस्थैर्य्याग्निस्रववर्णकृत् ॥ २२ ॥
इति । अतएव वसन्तचर्य्यायां वाग्भटेन
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥
इत्युक्तम् । अन्ये तु आदानमध्यत्वेन यथा चन्दनागुरुभ्यां
मिलित्वानुलेपः । तथा यवगोधूमयोर्यथायथं वातपित्तप्रत्यनी-
कत्वान्मिलितयोरेवोपयोग इत्याहुः ॥ २१ ॥
कषायश्चेति चकारेण मधुरत्वापेक्षया कषायस्य हीनतां
बोधयति । अतएव चरके सकषायश्चेति उपसर्जनार्थः सह-
शब्दः प्रयुक्तः । व्रणेषु सर्वदा पथ्यस्तिलवदिति तिलो यथा व्रण-
लेपे वातपित्तकफेषु शस्यते तथा यवोऽपि सर्वदा इत्यनेन व्रणस्य
सर्वास्वेव अवस्थासु यवस्य हितत्वं बोधयति । तदुक्तम्
तिलवद्यवकल्कन्तु केचिदाहुर्मनीषिणः ।
अविदग्धन्तु शमयेद्विदग्धं पाचयल्यपि ।
पक्वं भिनत्ति भिन्नञ्च शोधयेद्रोपयेदपि ॥
इति । अन्ये तु सर्वदा इत्यनेन व्रणे यवमण्डप्रयोगेणापि
हितमिच्छन्ति । अतएव सुश्रुते हिताहितीये व्रणहितवर्गे
यवः पठितः । पाकतः कटुरिति इह केचिदाचक्षते कटु पाकि-
त्वेन लघुत्वमुक्तम् । न च चरके रूक्षः शीतो गुरुरित्यनेन
विरोधः । तत्रापि अकारप्रश्लेषेणागुरुरिति पाठाङ्गीकारात् ।
गुरुत्वप्रतिज्ञानार्थमीषदर्थे नञं प्रश्लेषयन्ति । अतएव लघुरित्य-
सन्दिग्धमपि न पठितम् । तथापि एतदर्थमेवासन्दिग्धार्थमिव
३

२६ द्रव्यगुणः।
श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा ।
तद्वच्च कङ्गुनीवारकोरदूषाः प्रकीर्त्तिताः ॥ २३ ॥
मुङ्गः कषायो मधुरः कफपित्तास्रजिल्लघुः ।
ग्राही शीतः कटुः पाके चक्षुष्यो नातिवातलः ।
प्रधाना हरितास्तत्र बल्या मुद्गरसाः स्मृताः ॥ २४॥
मसूरो मधुरः शीतः संग्राही कफपित्तहा ॥ २५॥
असन्दिग्धमपि लघुपाक इति न कृतम्। अन्ये तु चरकोक्त-
गुरुगुणस्यापि यवस्य कटुविपाकित्‍वं द्रव्यप्रभावादेव समर्थनीय-
मित्याहुः । बहुवातपुरीष इति कुक्षौ वातकर्त्तृत्वेन ज्ञेयम् ।
तेन मेदोवाततृषापह इत्यनेनोक्तवातहन्तृत्वं न विरुध्यते ।
किंवा मेदसावृतो वातो मेदोवातः । तेन मेदसावृत एव वायौ
यवो हितोऽनिवारणे तु रूक्षकषायशीतकटुपाकतया कारण-
भूत एव । बल्यत्वञ्च स्रोतोविशुद्धिकरत्वेन सम्यक् रससञ्चा-
रिणेष्टं न तु देहस्योपचयकारकत्वेन रौक्ष्यादिधर्मयोगाद्
यवस्य । अतएव सुश्रुते स्थूलविलेखनं इत्युक्तम् । बद्धमूत्रो-
ऽल्पमूत्र एतेन प्रमेहिणां हितमिति डल्हणो व्याचष्टे ॥ २२ ॥
तृणधान्यानां गुणमाह श्यामाक इति । कङ्गुः काङ्नीति
लोके । नीवार उडीति लोके । कोरदूषः कोद्रवः ॥ २३ ॥
शूकधान्यमनु तदुपकरणत्वेन शमीधान्यं वाच्यम् । तत्रापि
प्राधान्यात् मुङ्गगुणं प्रागभिधत्ते मुङ्ग इति । मधुर इति रसतः
पाकतश्च । सुश्रुतेऽप्युक्तम् । विपाके मधुरा इति विपाके मधुरा-
णामप्येषां बद्धवर्चस्त्वं प्रभावात् । ऋते मुद्गमसूराभ्यामन्ये-
त्वाध्मानकारकाः । एतच्च स्वजात्युत्कर्षपरं वचनं न पुनः सर्वथै-
वाध्माननिषेधपरमित्याहुः ॥ २४ ॥ २५ ॥

द्रव्यगुणः । २७
माषो बहुमलो वृष्यः स्निग्धोष्णमधुरो गुरुः ।
वातनुद् वृंहणो बल्यो मेदोमांसकफप्रदः ॥ २६॥
राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् ।
तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥२७॥
चणको वातलः शीतः कफासृक्पित्तपुंस्त्वनुत्॥२८॥
सतीला वातला रक्तपित्तघ्ना बद्धवर्चसः ॥ २६ ॥
माषगुणमाह माष इति । अत्र वृष्य इत्यनेन शुक्रस्रुति-
करत्वं शुक्रवृद्धिकरत्वञ्चेति द्विविधमेव वृष्यत्वं विवक्षितम् ।
अतएवोक्तं वाग्भटेन शुक्रवृद्धिविरेककृदिति । सुश्रुतेऽपि
वृष्य इत्युक्त्वा पुनः शुक्रावहत्वमुक्तमेतदुभयरूपवृष्यत्वपरि-
ग्रहार्थम् ॥ २६ ॥
राजमाषगुणमाह राजमाष इति । सरति जलक्षिप्ततैल-
वदाशयं व्याप्नोतीति सरः । सरत्वं हि स्थिरविपरीतगुणः ।
अयञ्च गुणो जलबहुलस्यैव द्रव्यस्य भवति । तदुक्तं शीतस्निग्ध-
मृदुस्तिमितसरपिच्छिलमाप्यमिति । तत्स्वादुरिति तयोः
रसपाकयोः स्वादुः । उक्तं हि सुश्रुते ।
कषायभावान्न पुरीषभेदो न मूत्रलो नैव कफस्य कर्त्ता ।
स्वादु विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥
अलसान्द्रो राजमाष इति चक्रादयः । अस्य च विपाके
मधुरस्यापि प्रभावादेव बद्धविण्मूत्रत्वम् कफहारित्वमवृष्यत्वञ्चेति
गयदासः । अन्ये तु तत्स्वादुरिति माषवत् स्वादुरित्याहुः ।
ये तु सर इत्यस्य वर्चोभेदार्थत्वं वर्णयन्ति तन्मते सुश्रुतविरो-
धोऽपरिहार्य्यः ॥ २७ ॥ २८ ॥
सतीलो वर्त्तुलकलायः । भिन्नवर्चस इत्यपपाठः ।

२८ द्रव्यगुणः।
तुवरी कफपित्तघ्नी कलायश्चातिवातलः ॥ ३० ॥
मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः॥ ३१॥
कुलत्थः कफवातघ्नो ग्राह्युष्णस्तुवरः कटुः ।
शुक्राश्मरीगुल्मकासश्वासानाहान् सपीनसान् ।
हन्त्यर्शोमेदसो हिक्कां रक्तपित्तकरश्च सः ॥ ३२ ॥
हरेणवः सतीलाश्च विज्ञेया बद्धवर्चसः । इति सुश्रुतपाठात्
द्रव्यगुणपर्य्यालोचनया बद्धवर्चस्त्वस्यैव युक्तत्वात् ॥ २६ ॥
तुवरी तोरीतिलोके । कलायस्त्रिपुटकलायः, तेउडोति
लोके । वर्त्तुलस्य पूर्वोक्तत्वात् चकारात् कलायोऽपि कफ-
पित्तघ्नः । तदुक्तं चरके
चणकाश्च मसूराश्च खण्डौकाः सहरेणवः ।
पित्तश्लेष्मणि शस्यन्ते इति । अत्र खण्डौकस्त्रिपुटकलायः ।
वातल इति तुवरीत्यनेनापि सम्बध्यते । यदुक्तं चरके । आढकी
कफपित्तघ्नी वातलेति ॥ ३० ॥
मुकुष्टः कोमोठ इति ख्याते । अस्य च क्रिमिकर्त्तृत्वम्
सुश्रुतेनोक्तम् ॥ ३१ ॥
कफवातघ्न इति । कफघ्नो वातघ्नः संयुक्तकफवातघ्नश्च । तेषु
तेषु प्रदेशेषु प्रत्येकं वाते कफे च तथा संयुक्तयोश्च कफवातयो-
र्हितत्वेन कुलत्थस्योद्दिष्टत्वादिति गयदासः । तुवर इति कषायः
कटुरिति सुश्रुतमते विपाके कटुरित्यर्थः । उक्तञ्च
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः ।
इति । चरकमते त्वम्लपाकः । तदुक्तं उष्णः कषायाः
पाकेऽम्ला इति । उभयथापि रक्तपित्तकरत्वमिति द्रव्यगुणे
न विरोध इति प्रागेवोक्तम् ॥ ३२ ॥

द्रव्यगुणः । २६
वन्यः कुलत्थस्तद्वच्च विशेषान्नेत्ररोगनुत् ॥ ३३ ॥
काकाण्डोमात्मगुप्तानां माषवत् फलमादिशेत्॥३४
ईषत्कषायो मधुरः सतिक्तः
संग्राहकः पित्तकरस्तथोष्णः ।
तिलो विपाके मधुरो बलिष्ठः
स्निग्धो व्रणालेपन एव पथ्यः ।
वन्यकुलत्थगुणमाह वन्य इत्यादि । तद्वदिति गुणैः कुलत्थ-
सदृशः ॥ ३३ ॥
शूकशिम्बासदृशशिम्बः काकाण्डः शूकरशिम्बीतिलोके ।
उमा अतसी । आत्मगुप्ता शूकशिम्बिः । अन्येतु फलानि माष-
वद्विद्यात् काकाण्डोमात्मगुप्तयोरिति वाग्भटे द्विवचनं दृष्ट्वा
काकाण्डोमा कटभीति व्याचक्षते ॥ ३४ ॥
व्रणालेपन एव पथ्य इत्येवकारेण व्रणे तिलानामालेपने
पथ्यत्वमभ्यवहारे पुनरपथ्यत्वमेव बोधयति । अतएव व्रणविरुद्ध-
वर्गे नवधान्यादौ तिलः पठितः । सेयं स्वभावोपजनितै-
वाधारशक्तिरस्य । यदुक्तं सुश्रुते यव कुर्वन्ति तदधिकरण-
मिति । धान्याम्लस्य बहिरन्तःप्रयोगे दाहहरणकारणत्व-
वदिति । येऽपि स्निग्धो व्रणे सर्वत एव पथ्य इति पठन्ति तन्म-
तेऽपि बहिरालेपनेनैव सर्वत्र वातकृते पित्तकृते कफकृते च
पथ्य इति ज्ञेयम् । यद्वक्ष्यति
माधुर्याच्च तथैवोष्ण्यात् स्नेहाच्चानिलनाशनः ।
कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तनुत् ॥
औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः ।
इति । ननु मधुरपाकित्वदेव तिलस्य गुरुत्वं सिद्धं तत् किं

३० द्रव्यगुणः ।
दन्त्योऽग्निमेधाजननॊऽल्पमूत्र-
स्त्वच्योऽतिकेश्योऽनिलहा गुरुश्च ॥ ३५ ॥
तिलो विपाके मधुरो गुरुश्चेति । सत्यं एतदेवहि विपाकमधुरस्य
तिलस्य गुरुत्ववचनं मधुरपाकस्यापि क्वचिद्गुरुत्वं व्यभिचरतीति
बोधयति । तेन रक्तशाल्यादीनां मधुरपाकित्वेऽपि लघुत्व-
प्राभाविकं सिद्धं भवतीति गुरुत्वं हि मधुरपाकित्वे अतिदिष्टं
न तु स्वभावभूतम् । तेन गुरुत्वस्यातिदेशिकत्वेन तद्व्यभिचा-
रोऽपि न दोषायेति । अत्र केचित् ननु यथा विपाकानां
मधुरादीनां मधुरादिरसेष्विव गुरुत्वलघुत्वे अतिदिश्येते । एवं
वीर्येऽप्युष्णादयो गुणा आतिदेशिकाः प्रसज्येरन् । अतस्तत्रापि
व्यभिचारः कथं न स्यात् ? नैवं वीर्यस्य उष्णादयः स्वभावभूता
न पुनरातिदेशिकाः उपाध्यन्तराभावात् । रसेषु हि मधुराम्ल-
लवणतिक्तादय एव उपाधयः सन्ति । तथैव पाकानामपि
मधुरकट्वम्लरूपा एवोपाधयः । तेन तत्र लघुत्वादयोऽतिदेष्टुं
युज्यन्ते न पुनर्वीर्येषूष्णादयः । येनोष्णादय एव गुणा वीर्याणि
नहि तस्मिन्नेव स्वभावे स एव स्वभावोऽतिदिश्यते । अतएव न
व्यभिचारी स्वयमेव तत्स्वभावत्वात् तदभावे च तस्याभावा-
द्येति । भवति चात्र ।
उपाध्यन्तरसद्भावात् पाकानां गुरुलाघवम् ।
अतिदिष्टमतस्तत्र व्यभिचारोऽपि सम्भवी ॥
शीतोष्णादिस्वभावस्य वीर्यस्यान्योऽस्ति नोपधिः ।
व्यतिरेको न शीतादेस्तदन्यः कोऽपि नान्वयि ॥
इत्याहुः । तिलानां त्वच्यत्वं केश्यत्वञ्चाधिकरणशक्त्या ।
तदुक्तं यत्र कुर्वन्ति तदधिकरणमिति ॥ ३५ ॥

द्रव्यगुणः । ३१
तिलेषु सर्वेष्वसितं प्रधानम्
मध्यः सितो हीनतरास्तथान्ये ॥ ३६ ॥
शिम्बास्तु विविधा रूक्षा बलघ्नाः स्वादुशीतलाः ।
विदाहिनोऽग्निशमना विज्ञेयाः कफनाशनाः ।
शुक्रदृष्टिचयकराः कटुपाकाः प्रमाथिनः ॥ ३७ ॥
सितासिताः पीतकरक्तवर्णा
भवन्ति येऽनेकविधास्तु शिम्बाः ।
यथादितस्ते गुणतः प्रधाना
ज्ञेयास्तथैषां रसपाकयोश्च ॥ ३८ ॥
अत्र तिलानां वर्णभेदेनानेकविधत्वं तत्र कस्यचित् प्राधान्यं
कस्यचित् मध्यत्वमित्यादि दर्शयन्नाह तिलेष्विति । अन्ये इति ।
पीतलोहितहरिता इत्यर्थः ॥ ३६ ॥
शिम्बी धान्यमध्य एव शिम्बित्वसामान्यात् । शिम्बाना-
मपि सामान्यगुणकर्म निर्दिशन्नाह शिम्बा इति । स्वादुशीतला
इति स्वादवः शीतलाश्चेति । कफनाशना इत्यनेन वातपित्त-
कर्तृत्वं सूचयति । तदुक्तं सुश्रुते
रूक्षः कषायो विशदोऽल्पशुक्रबलामदृष्टिचयकृद्विदाही ।
कटुविपाके मधुरश्च शिम्बः प्रभिन्नविण्मारुतपित्तलश्च ॥
इति । प्रमाथिन इति भिन्नवर्चसः ॥ ३७ ॥
वर्णविशेषेण शिम्बानां गुणविशेषमाह सितासिता इति ।
यथादित इति । पदार्थानतिक्रत्तौ वीप्सायामव्ययीभावः ।
तेनाव्यतिक्रमेणादौ आदाविति वा अर्थः । गुणत इति रसवीर्य्य-
विपाकगुणैः तेनासितात् कृष्णात् सितो गुणतः प्रधानं पीता-

३२ द्रव्यगुणाः।
सहाद्वयं मूलकजाश्च शिम्बाः
कुशिखवल्लीप्रभवाश्च शिम्बाः ।
ज्ञेया विपाके मधुरा रसे च
बलप्रदाः पित्तनिबर्हणाश्च ॥ ३६ ॥
विदाहवन्तश्च भृशं विरूक्षा
विष्टभ्य जीर्य्यन्त्यनिलप्रदाश्च ।
रुचिप्रदाश्चैव सुदुर्जराश्च
सर्वे स्मृता वैदलिकाश्च शिम्बाः ॥ ४० ॥
दसितः। रक्तादपि पीतः श्रेष्ठ इत्यर्थः। ज्ञेयास्तथोष्णा रस-
पाक्योरिति यथादित एव वीर्येणोष्णा रसपाकयोश्च प्रधाना
इत्यर्थः। अन्ये तु यथोदितास्ते गुणतस्तथार्द्रा इति पठन्ति।
अत्रायमर्थः ये शिम्बा येन प्रकारेण रसपाकयोरुदितास्ते तथै-
वार्द्रा ज्ञेया नतु शुष्काः ॥ ३८ ॥
शिम्बानामेव जातिविशेषेण गुणकर्मविशेषं दर्शयन्नाह
सहाद्वयमिति। सहाद्वयं मुद्गपर्णी माषपर्णी च। तयोः
प्रकरणात् शिम्बा एव मूलकजाश्च शिम्बा इति मूलकशिम्बाः।
अन्ये तु मूलकपर्णोजाश्चेति पठन्ति। अत्र मूलकपर्णी शोभा-
ञ्जनः युक्तञ्चैतत्। मूलकशिम्बस्य कटूष्णत्वेन वातकफहन्तृ-
त्वस्यैव युक्तत्वादिति गयदासः। कुशिखिर्मुस्तकशिम्बिः वल्ली-
प्रभवा इति अल्पवल्लीप्रभवाः। अन्ये तु कुशिखिवल्ली ग्राम्य-
शिम्बिवल्लीत्याहुः ॥ ३६ ॥
इदानीं मुद्गादीनामामावस्थायां ये शिम्बास्तेषां गुणमाह
विदाहवन्त इति। विष्टभ्य जीर्य्यन्त्यनिलप्रदाश्चेति सवाततोद-
शूलामलपमलां प्रवृत्तिं कृत्वा चिरेण पचन्त इत्यर्थः। च

द्रव्यगुणः । ३३
षष्टिका यवगोधूमा लोहिता ये च शालयः ।
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ॥ ४१॥
कफवातहरस्तीक्ष्णः सिद्धार्थो रक्तपित्तकृत् ।
स्निग्धोष्णः क्रिमिकुष्ठघ्नः कटुको रसपाकतः ॥४२॥
तद्गुणा राजिका वाच्यास्तद्गुणोऽन्योऽपि सर्षपः ।
रसे पाके च कटुकः कुसुम्भः कफनाशनः ॥ ४३॥
अनार्त्तवं व्याधिहतमपर्यागतमेव च ।
अभूमिजं नवञ्चापि न धान्यं गुणवत् स्मृतम् ॥४४॥
यवगोधूममाषाश्च तिलाश्चाभिनवा हिताः ।
अनिलप्रदा इत्यन्तो गुणः पूर्वोक्तसहादयादीनाम् रुचिप्रदा
इत्यादिगुणस्तु वैदलिकानामार्द्रशिम्बानामित्याह । वैदलिका
इति विदलयोग्यतामात्रेण ग्रहणं तेन माषादीनां ग्रहणं
तिलादीनाञ्च निरास इति ॥ ४० ॥
इदानीं शूकधान्यशमीधान्येषु ये श्रेष्ठास्तानाह षष्टिका
इति ॥ ४१ ॥
शिम्बिप्रकरणानुरोधात् सिद्धार्थकानाञ्च गुणानवैवाह कफे-
त्यादि । सिद्धार्थः श्वेतसर्षपः ॥ ४२ ॥
इदानीं धान्यानां हेयत्वनिमित्तं दोषं दर्शयन्नाह अनार्त्तव-
मिति । अनार्त्तवमिति अन्यर्तुभवम् । व्याधिहतमिति धान्यस्य ये
रोगाः कुङ्कुमिकादयस्ते च कृषीवलसम्प्रदायप्रसिद्धाः तैर्हतमभि-
भूतम् । अपर्यागतमपक्वम् । अभूमिजमिति उपरोपल्यका-
दिसविषभूमिजम् । नवञ्चापीति चकारेण अनतिदोषता नवस्य
-शकेः ॥ ४४ ॥

३४ द्रव्यगुणः ।
पुराणा नीरसा रूक्षा न तथार्थकरा मताः ।
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥४५॥
इति धान्यवर्गः ।
सर्वं वातहरं मांसं वृष्यं वल्यं स्मृतं गुरु ।
प्रीणनं बृंहणं हृद्यं मधुरं रसपाकयोः ॥ १ ॥
हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः ।
मधुरो मधुरः पाके सुगन्धिर्दोषनाशनः ॥ २ ॥
कषायो मधुरो हृद्यः पित्तासृक्कफवातहा ।
संग्राहौ रोचनो वल्यश्लेषामेघो ज्वरापहः ॥ ३ ॥
नवधान्यस्य यद्दोषवत्त्वमुक्तं तस्यापवादमाह यवेति ।
विरूढ़मित्यङ्कुरितम् । अन्ये तु विगताङ्कुरजननशक्तिकमि-
त्याहुः ॥ ४५ ॥
इति धान्यवर्गः ।
अन्नार्थं धान्यवर्गमभिधाय तदुपकरणव्यञ्जनार्थं मांसवर्गो
वक्तव्यः । अत्र मांसानां सामान्यगुणमाह सर्वमिति ॥ १ ॥
हरिणस्य मधुरपाक्तित्वेऽपि बद्धविण्मूत्रत्वं प्रभावाद्रक्तशालि-
वदिति चक्रः । दोषनाशन इति दोषशब्दोऽत्र दोषसामान्या-
द्दोषत्रयमेवाभिधत्ते । अतएव सन्निपातहेतु अन्ये पठन्ति ॥ २ ॥
तेषामिति जङ्गालमृगाणां मध्ये एण इति कृष्णहरिण
पूर्वन्तु ताम्रवर्णहरिणस्य गुण उक्तः । उक्तञ्च सुश्रुते
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते ॥ ३ ॥