द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 33, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । २५
यवः स्वादुः कषायश्च कफपित्तहरो हिमः ।
व्रणेषु सर्वदा पथ्यस्तिलवत् पाकतः कटुः ॥
बहुवातपुरीषश्च मेदोवाततृषापहः ।
वृष्यो बल्यो वड्मूत्रस्थैर्य्याग्निस्रववर्णकृत् ॥ २२ ॥
इति । अतएव वसन्तचर्य्यायां वाग्भटेन
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥
इत्युक्तम् । अन्ये तु आदानमध्यत्वेन यथा चन्दनागुरुभ्यां
मिलित्वानुलेपः । तथा यवगोधूमयोर्यथायथं वातपित्तप्रत्यनी-
कत्वान्मिलितयोरेवोपयोग इत्याहुः ॥ २१ ॥
कषायश्चेति चकारेण मधुरत्वापेक्षया कषायस्य हीनतां
बोधयति । अतएव चरके सकषायश्चेति उपसर्जनार्थः सह-
शब्दः प्रयुक्तः । व्रणेषु सर्वदा पथ्यस्तिलवदिति तिलो यथा व्रण-
लेपे वातपित्तकफेषु शस्यते तथा यवोऽपि सर्वदा इत्यनेन व्रणस्य
सर्वास्वेव अवस्थासु यवस्य हितत्वं बोधयति । तदुक्तम्
तिलवद्यवकल्कन्तु केचिदाहुर्मनीषिणः ।
अविदग्धन्तु शमयेद्विदग्धं पाचयल्यपि ।
पक्वं भिनत्ति भिन्नञ्च शोधयेद्रोपयेदपि ॥
इति । अन्ये तु सर्वदा इत्यनेन व्रणे यवमण्डप्रयोगेणापि
हितमिच्छन्ति । अतएव सुश्रुते हिताहितीये व्रणहितवर्गे
यवः पठितः । पाकतः कटुरिति इह केचिदाचक्षते कटु पाकि-
त्वेन लघुत्वमुक्तम् । न च चरके रूक्षः शीतो गुरुरित्यनेन
विरोधः । तत्रापि अकारप्रश्लेषेणागुरुरिति पाठाङ्गीकारात् ।
गुरुत्वप्रतिज्ञानार्थमीषदर्थे नञं प्रश्लेषयन्ति । अतएव लघुरित्य-
सन्दिग्धमपि न पठितम् । तथापि एतदर्थमेवासन्दिग्धार्थमिव
३