सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः । ३५
शशः स्वादुः कषायश्च लघुः पित्तकफापहः ।
नातिशीतलवीर्य्यत्वाद् वातसाधारणो मतः ॥४॥
नातिशीतं गुरु स्निग्धं मांसमाजमदोषलम् ।
शरीरधातुसामान्यादनभिष्यन्दि बृंहणम् ॥ ५ ॥
वातसाधारण इति । वातस्य चयं शमञ्च न करोतीत्यर्थः ।
अतएव चरके "शशः स्वादुः प्रशस्तश्च सन्निपातेऽनिलावरे" इत्यु-
क्तम् ॥ ४ ॥
अदोषलमिति । यद्यपि सुश्रुतेन
अतिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः ।
छागलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥
इत्युक्तम् । तथापि अन्यपदेश्वपित्तकफजनकत्वाददोषलमि-
त्युक्तम् । यत्तु त्रिदोषनुद्देहधातुसामान्याच्छागलं लघ्वित्युक्तम् ।
तदपि ग्राम्यत्वेन प्रभूतकफजननयोग्यस्यापि छागलस्य तदजनक-
त्वात् समाधेयम् । यथा मधुरस्य दाड़िमस्य मधुरद्रव्यान्तरवत्
कफाजनकत्वेन त्रिदोषहरत्वम् । यथा वा सहकारतैलस्य रूक्षत्वं
स्वजातीयापेक्षया यथाविधस्नेहाकर्त्तृत्वात् । यथा वा चतु-
र्भागावशिष्टन्तु तोयं कफहरं स्मृतमित्यत्र कफं प्रति इतरपानीय-
वदजनकत्वेन कफहरत्वमुच्यते । एवमन्यत्रापि एवंजातीये
प्रतुदविष्किररसमज्जादौ श्लेष्महरत्वादि व्याख्येयम् । शरीरधातु-
सामान्यादिति मनुष्यमांसस्यापि नातिशीतगुरुस्निग्धत्वादि-
त्यर्थः । अयञ्च बृंहणत्वे हेतुः । एतेन यद्यपि मांसान्तरमपि
मांसत्वेन शरीरमांसतुल्यं तथापि तत्र गुणसामान्याभावादाज-
मांसवन्न सर्वरूपेण बृंहणमित्यर्थः । एतेन भङ्ग्या नृमांसस्यापि
शक्त्याचार्य्येण उक्ता इत्येवावधेयम् । अन्ये तु शरीरधातु-

३६ द्रव्यगुणः ।
मेषस्य मधुरं मांसं पित्तश्लेष्महरं गुरु ॥ ६ ॥
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ७ ॥
माहिषं तर्पणं वृष्यं स्निग्धोष्णमधुरं गुरु ।
निद्रापुंस्त्वबलस्तन्यवर्धनं मांसदार्थ्यकृत् ॥ ८ ॥
सामान्यादिति अनभिष्यन्दित्वे हेतुमाहुः । तन्न अप्रयोजकत्वात् ।
स्वमते तु ग्राम्यस्य बृंहणस्याप्याजमांसस्यानभिष्यन्दित्वं प्रभावा-
देव मन्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपद्यते तत्रैव प्रभाव-
कल्पनस्यैवौचित्यात् ॥ ५ ॥
मेषगुणमाह मेषस्येति । अत्र क्वचित् पुस्तके पित्तश्लेष्म-
करमिति पाठो दृश्यते । स च प्रमादपाठ एव । यतः शरद्विधौ
उरभ्राणामुपयोग उक्तः । यदुक्तम् उरभ्रान् शरभान् शशा-
निति । न च पित्तश्लेष्मकरत्वे मेषस्य तत्रोपयोगो युज्यते ।
अतएव चक्रेणापि
मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकमिति ।
चरकवचनेनाविकमांसस्य मधुरशीतत्वेन पित्तहरत्वं बोध्य-
मिति व्याख्यातम् । यत्तु रक्तपित्तनिदाने चरकेण वराहमहिषा-
विकेत्यादिना आविकस्य रक्तपित्तनिदानत्वमुक्तम् । तदपि द्रव्या-
न्तरसंयुक्तस्याप्याविकमांसस्य न तु केवलस्येत्यवधेयम् । अतएव
सुश्रुतेऽपि “बृंहणं मांसमौरभ्रं पित्तश्लेष्मापहं गुरु” इत्युक्तम् ।
वाप्यचन्द्रस्तु पित्तश्लेष्मावहमिति पठति व्याचष्टे च । यद्यप्यौरभ्र-
मांसं पित्तश्लेष्मकरमत्रोक्तम् । तथापि सातिशयं पित्तं श्लेष्माणञ्च
न करोतीति तदप्यनादरणीयमुक्तयुक्तेरेव ॥ ६ ॥
मेदः पुच्छो मेषभेदः स च पुच्छदेशे लम्बमानमांसपिण्डः ॥७॥
अत्र वृष्यं तथा पुंस्त्ववर्धनमिति च द्वयमुक्तं माषवदुभय-
रूपवृष्यप्राप्तिरिति बोध्यम् ॥ ८ ॥

द्रव्यगुणः । ३७
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान् ।
कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति ॥ ९ ॥
हयमांसं बलकरमुष्णं मारुतनाशनम् ॥ १० ॥
गवयस्यापि मांसन्तु स्निग्धं कासनिवर्हणम् ।
रसे पाके च मधुरं व्यवायस्य तु वर्द्धनम् ॥ ११ ॥
खड्गिमांसं कफघ्नन्तु कषायमनिलापहम् ।
पित्र्यं पवित्रमायुष्यं बद्धमूत्रविरूक्षणम् ॥ १२ ॥
वाराहपिशितं बल्यं रोचनं स्वेदनं गुरु ।
स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ १३ ॥
लावो लघुकटुर्गाही स्वादुः शीतस्त्रिदोषनुत् ॥ १४ ॥
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ।
ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्द्धनः ॥ १५ ॥
पित्र्यमिति । एतद्गुणकथनञ्च यद्यपि चिकित्सायां नोप-
युज्यते तथापि प्रसङ्गादुक्तम् ॥ १२ ॥
पक्षिगुणानाह लाव इत्यादि । कटुरिति कटुपाकः
तदुक्तं सुश्रुते लावकः कटुपाकश्चेति । लघुरिति प्रकृतिलघुः
कटुपाक इत्यनेन च विपाकलघुत्वञ्चेति चरकः ॥ १४ ॥
सर्वदोषघ्न इति । सर्वग्रहणं रक्तोपलक्षितदोषग्रहणार्थ-
मित्याहुः । अन्ये तु
तित्तिरिः स जयेत् शीघ्रं त्रीन् दोषाननिलोल्वणान् ।
इतिवचनात् ग्रन्थाधिक्यात् वाताधिक्यदोषत्रयप्राशस्त्यं सर्व-
शब्दस्याहुः ॥ १५ ॥
४

३८ द्रव्यगुणः।
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ।
मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात् ॥१६॥
ईषदुष्णा गुरुस्निग्धा वृंहणा वर्त्तकाः स्मृताः ॥१७॥
क्रकरा लघवो हृद्यास्तथा चैवोपचक्रकाः ।
वातपित्तहरा वल्या मेधाग्निवलवर्द्धनाः ॥ १८ ॥
वर्ही दृक्श्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् ।
हितो बल्यो गुरुश्चोष्णो वातघ्नो मांसशुक्रलः ॥१९
पारावतो गुरुः शीतो रक्तपित्तहरः स्मृतः ।
रसे पाके च मधुरः कषायो विषदोऽपि च ॥२०॥
तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः ।
शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ॥२१॥
कषायः स्वादुलवणो गुरुः काणकपोतकः ॥२२॥
कपिञ्जलो गौरतित्तिरिः । एतेन पूर्वोक्ततित्तिरिशब्दस्य
गोवलीवर्दन्यायात् कृष्णतित्तिरिपरत्वमित्याहुः ॥ १६ ॥
क्रकरः प्रसिद्धो लावसद्दशः कपिञ्जलात् स्थूलः । उपचक्रकः
क्रकरभेदः । कृष्णचञ्चुर्मदाविल इति डल्हणः । चकोरभेद इति
तु त्रिविक्रमः ॥ १८ ॥
पारावत इति । गृहवासी पारावतः । वनवासिकपोतस्य
वक्ष्यमाणत्वात् ॥ २० ॥
वनवासिनः कपोता इति वनवासिपारावता इत्यर्थः । न
तु वनवासिपाण्डुकपोताः तेषां काणकपोतत्वेन अपथ्यतमत्वा-
दित्याहुः ॥ २१ ॥

द्रव्यगुणः । ३६
कुक्कुटो बृंहणो वन्यः स्वेदस्वरबलावहः ।
स्निग्धोष्णोऽनिलहा वृष्यो ग्राम्यस्तद्वद्गुरुस्तु सः॥२३
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्द्धनः ।
सन्निपातहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥ २४ ॥
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ।
शोषकासक्षयहितं संग्राही लघु दीपनम् ॥२५॥
गुरुष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ।
बृंहणाः शुक्रलाश्चोक्ता हंसाः पवननाशनाः ॥२६॥
शरारिबककादम्बवलाकाः पवनापहाः ।
स्निग्धाः सृष्टमला वृष्या रक्तपित्तहरा हिमाः ॥२७॥
काणकपोतो वनवासिपाण्डुकपोत इति गयदासः । अत्र
चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन त्रिदोषकरत्वं मलदूषकत्व-
ञ्चास्य समुच्चीयत इत्याहुः ॥ २२ ॥
वन्य इति वनभवः । तद्वदिति वनकुक्कुटवत् । गुरुस्तु स
इति विशेषेण ग्राम्यकुक्कुटो गुरुस्तेन वनकुक्कुटस्यापि किञ्चिद्-
गुरुत्वं सिद्धम् । अतएव
गुरुष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः ।
इति । सामान्येन गुरुष्णत्वादिहेतूपन्यासो न विरुध्यत
इत्याहुः ॥ २३ ॥
कुलिङ्गो वनचटको ग्राम्यचटकाकारः । पीतमस्तक वाऐ
इति लोके । गृहकुलिङ्गो गृहवासिचटक एव ॥ २४ ॥
शरारिः शरालिरिति लोके प्रसिद्धः । बकः स्वनामख्यातः ।

४० द्रव्यगुणः ।
कूर्मादयः स्वादुपाकरसा वल्यानिलापहाः ।
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः२८
कृष्णः कर्कटकस्तेषां वल्यः कोष्णोऽनिलापहः ।
शुक्रसन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ॥२६॥
———
गोधा विपाके मधुरा कषायकटुका रसे ।
वातपित्तप्रशमनी बृंहणी बलवर्द्धिनी ॥ १ ॥
शल्यकः खादुपित्तघ्नो लघु शीतो विषापहः ॥२॥
मूषिको मधुरः स्निग्धो व्यवायी शुक्रवर्द्धनः ॥३॥
दुर्नामानिलदोषघ्नः कृमितूषीविषापहः ।
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्द्धनाः ॥४॥
जङ्घाला वातपित्तघ्नास्तीक्ष्णा वस्तिविशोधनाः ।
कादम्बो नीलवर्णः कलहंस इत्युच्यते । बलाका वकभेद एव
॥ २७ ॥
———
विलेशयानां गुणमाह गोधेत्यादि ॥ १ ॥
मूषिक इति । व्यवायी अखिलं देहं व्याप्य गच्छति
पाकम् । उक्तञ्च व्यवायी देहमखिलं व्याप्य पाकाय कल्पत
इति । अयञ्च सरगुणस्यैव प्रकर्षः ॥ ३ ॥
इदानीमनुक्तमांसगुणसंग्रहार्थं तत्तदुपाधिना वर्गीकृत्य वर्ग-
भेदेन मांसगुणा वाच्याः । तत्र समासतो द्विविधा मांसजातयः
जाङ्गला आनूपाश्च । तत्र जाङ्गलवर्गोऽष्टविधः । त

द्रव्यगुणः। ४१
कषायमधुराश्चैव लघवो बलवर्धनाः ॥ ५ ॥
विष्किरा मधुराः शीताः कषाया लघुपाकिनः ॥ ६ ॥
प्रतुदाः कषायमधुराः श्लेष्मपित्तहरा हिमाः ।
बद्धमूत्रमला रूक्षाः फलाहारानिलावहाः ॥ ७ ॥
जङ्गाला विष्किराः प्रतुदा गुहाशयाः प्रसह्याः पर्णमृगा विले-
शया ग्राम्याश्चेति । तत्र एणहरिणतरक्षुप्रभृतयो जङ्गालाः ।
प्रसस्तजङ्घावत्त्वेनैषा संज्ञा जङ्गालशब्दश्च वेगवति रूढः । चञ्चु-
चरणाभ्यां विकीर्य्य भक्षणाद्विष्किराः । ते च वर्त्तकमयूरकुकु-
टादयः । तथा प्रतुद्य बहुधा अभिहत्य भक्षयन्तीति प्रतुदाः ।
ते च कोयष्टिकशारिकाभृङ्गराजशुकप्रभृतयः । सिंहव्याघ्रा-
दयो गुहाशयाः । प्रसह्य हठादाकृष्य भक्षयन्तीति प्रसह्याः । ते
च काककङ्ककुररश्येनगृध्रप्रभृतयः । प्रायः पर्णवति वृक्षे
चरन्तीति पर्णमृगाः । ते च वृक्षशायिका वानरमानुष्यासर्प-
प्रभृतयः । वृक्षशायिका वृक्षमूषिकाः कटा इति प्रसिद्धाः ।
विले शेरते विलेशयास्ते च शल्यकगोधामूषिकप्रभृतयः । प्रायो
ग्रामे चरन्तीति ग्राम्याः । ते च छागमेषादयः । आनूपवर्गस्तु
पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्या-
श्चेति । कूले पानीयसमीपे चरन्तीति कूलचराः । ते च गज-
गवयमहिषप्रभृतयः । जले प्लवन्तीति प्लवाः । ते च हंससार-
सक्रौञ्चचक्रवाकप्रभृतयः । कोषे तिष्ठन्तीति कोषस्थाः । ते च
शङ्खशुक्तिशम्बूकप्रभृतयः । पादवन्तः पादिनः । ते च कूर्मकुम्भीर-
कर्कटप्रभृतयः । मत्स्याः प्रसिद्धाः । एतेषां क्रमेण सामान्य-
गुणं निर्दिशन्नाह जङ्गाला इत्यादि ॥ ५ ॥
फलेनाहारीभूतेनानिलमावहन्तीत्यर्थः । फलाहारा मरुत्करा
शुकाः

४२ द्रव्यगुणः ।
गुहाशया वातहरा नेत्रगुह्यविकारिणाम् ।
हिता गुरुष्णमधुराः स्निग्धा मांसाशिनोऽधिकम् ॥ ८
प्रसह्याः स्वादुवीर्य्योष्णास्तेषां मांसाशिनस्तु ते ।
ते शोषभस्मकोन्मादे हिताः क्षीणे विशेषतः ॥ ९ ॥
दृक्शुक्रास्रहितः पर्णमृगः स्वादुर्गुरुस्तथा ।
सृष्टमूत्रपुरीषश्च कासार्शःश्वासनाशनः ॥ १० ॥
विलेशया वातहरा बृंहणा रसपाकयोः ।
मधुरा बद्धविण्मूत्रा वीर्य्योष्णाश्च प्रकीर्त्तिताः ॥ ११
ग्राम्या वातहराः सर्व्वे बृंहणाः कफपित्तलाः ।
मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः ॥ १२ ॥
कूलचरा मरुत्पित्तहरा वृष्या बलावहाः ।
मधुरस्निग्धशीताश्च मूत्रलाः श्लेष्मलास्तथा ॥ १३॥
प्लवा वृष्या हिमाः स्निग्धा रक्तपित्तानिलापहाः ।
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥ १४ ॥
कोषस्थाः पादिनश्चैव स्निग्धाः शीतानिलापहाः ।
इति केचित् पठन्ति । अत्र स्वजात्यपेक्षयैव रौक्ष्यं न मसूरादि-
वत् । एवमनिलावहत्वेनापि वातहरत्वे स्वजात्यपकृष्टतां सूच-
यतीति प्रागेव व्याख्यातम् ॥ ७ ॥
वातहरा इत्यनेन पित्तश्लेष्मकर्त्तृत्वं सूचयति । तथा चका-
रात् कासश्वासकार्श्यहरत्वञ्च बोध्यम् । उक्तञ्च वातं हन्युः
श्लेष्मपित्ते कुर्युः स्निग्धाः कासश्वासकार्श्यापहाः स्युरिति ॥ ११ ॥
अनूपानां गुणमाह कूलचरा इति ॥ १३ ॥

द्रव्यगुणः । ४३
वर्त्तस्याः मधुरा वृष्याः पित्तघ्नाः कफकारकाः ॥१५॥
मत्स्याः स्निग्धोष्णामधुरा वातजिन्मललोमनाः ।
पित्तमांसबलश्लेष्मशुक्राभिष्यन्दकारकाः ॥ १६ ॥
रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितात्तिर्जित् ।
कषायानुरसः स्वादुर्वार्तघ्नो नातिपित्तकृत् ॥१७॥
शकुलो मधुरो रुच्यः कषायो विशदो लघुः ॥१८॥
शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः ।
वातपित्तहरो वृष्य आमवातकरो मतः ॥ १९ ॥
आड़िमत्स्यो गुरुः स्निग्धः स्वादुर्वृष्यो बलप्रदः॥२०॥
इल्लिसो मधुरः स्निग्धः पित्तश्लेष्मप्रकोपणः ।
नृणां व्यवायनित्यानां हितो वह्निविवर्द्धनः ॥२१॥
एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः ॥२२॥
पर्वतो मधुरः स्निग्धः कषायानुरसो गुरुः ॥ २३॥
भाकुटो मधुरो वृष्यः कषायानुरसो गुरुः ॥२४॥
यद्यपि मत्स्या द्विविधाः सामुद्रा नादेयाश्च । तत्र समुद्राणां
तिमिप्रभृतीनां प्रायशोऽनुपयोगात् तानुपेक्ष्य नादेयानां गुणा
वाच्याः । नादेयशब्दश्च समुद्रभिन्नजलभवमात्रोपलक्षकः । तेन
सरस्तड़ागजानामपि ग्रहणम् । तत्र मत्स्यानां सामान्यगुणं
निर्द्दिशन्नाह मत्स्या इति । मललोमना इति मलानुलोमनाः
सृष्टमला इत्यर्थः । अतएव सृष्टविण्मूत्रमारुता इति माधव-
करः ॥ १६ ॥
मत्स्यभेदेन गुणभेदं दर्शयन्नाह रोहित इति ॥ १७ ॥
शकु-

४४ द्रव्यगुणः ।
पाठीनः श्लेष्मलो वृष्यो निद्रालः पिशिताशनः ।
दूषयेद्रक्तपित्तञ्च कुष्ठरोगं करोत्यसौ ॥ २५ ॥
वर्मिमत्स्यस्तथा वृष्यो मधुरो रसपाकतः ॥ २६ ॥
कुलिशः कषायमधुरः कुञ्चकः कफपित्तहा ॥ २७ ॥
शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपिणी ॥ २८ ॥
मद्गुरो मधुरो वृष्यो विपाके मधुरो गुरुः ॥ २९ ॥
गुत्यमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः ॥ ३० ॥
कवय्यः स्निग्धमधुराश्चलदङ्गो गड़ोयथा ॥ ३१ ॥
क्षुद्रमत्स्यास्तु लघवो ग्राहिणो ग्रहणीहिताः ॥ ३२ ॥
मत्स्यकूर्मखगाण्डानि स्वादुवाजीकराणि च ॥ ३३ ॥
चरः शरीरावयवः स्वभावो धातवः क्रियाः ।
कुलिशः कुड़िश इति प्रसिद्धः । कुञ्चक इञ्चाकः । अन्ये
व्याघ्रमत्स्यमाहुः । स च आड़िमत्स्याकृतिर्बृहत्कायः ॥ २७ ॥
गुत्यमत्स्यो देशान्तरे प्रसिद्धः । अन्ये तु चन्द्रकमाहुः ॥ ३० ॥
चलदङ्गश्चेङ्ग इति प्रसिद्धः । गड़ो यथेति रूक्ष इत्यर्थः ॥ ३१ ॥
इदानीं गौरवलाघवज्ञानार्थं ये ये विवेचनीयास्तानाह
संक्षेपेण चर इति । अस्मिन्निति अन्नपानगुणाधिकारे । चर्य्यत
इति चरो देशो भक्ष्यश्च । चर गतिभक्षणयोरित्यतो निष्पन्नत्वात्
सामान्येन गृह्यते । कस्मिन् देशेऽयं विहरति धन्वनि अनूपे जले
वियति वा किं पुनरयमाहरति गुरु लघु शीतमुष्णं स्निग्धं
रूक्षं वा तद्विहाराहारगुणभावितशरीरधातवो मृगस्य पक्षिणो
वा तत्तद्गुणमेव मांसमिति । तथा हि चरकः

द्रव्यगुणः । ४५
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते॥३४
चरोऽनूपजलाकाशधन्वायो भक्ष्यसंविधिः ।
इति । भक्ष्यसंविधिर्भक्षणम् । तत्रानूपजलाकाशधन्वाय
इत्यनेन गतिरूपश्चर उच्यते । भक्ष्यसंविधिरित्यनेन भक्ष्यरूप-
श्चर उच्यते । एतत् उदाहरणं यथा ।
जलजानूपजाश्चैव जलानूपचराश्च ये ।
गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः ।
लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥
इति । अत्र जलजत्वेन च जले वा अनूपे वा गतिरेव
दर्श्यते । न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते । प्रायः
काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह जलानूपचराश्च य इति ।
एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम् । एवमनू-
पचराद्यपि ज्ञेयम्। गुरुभक्ष्या इत्यादिना तु भक्ष्यरूपचरकृतगुण-
कथनम् । धन्वजा धन्वचारिण इत्यपि गतिरूपचरगुणकथ-
नम् । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन बाहुल्येन
आकाशचारिणामपि श्येनादीनां स्वजातिप्रसङ्घान्तरापेक्षया
लाघवं बोध्यम् आकाशस्य लघुत्वात् । ये तु ब्रुवते आकाश-
चारिणां गौरवलाघवानियमादकथनमिति । तन्न । तथा सति
आकाशस्य अप्रयोजनकत्वेन चरोऽनूपजलाकाशधन्वाद्य इत्या-
काशकथनं निष्प्रयोजनं स्यात् । एवञ्च देशविशेषाद्भक्ष्यविशेषाच्च
मृगादीनां गौरवं लाघवं वा निर्देश्यमिति चरपरीक्षाप्रयोजन-
मिति भावः । शरीरावयव इति शरीरावयवपरीक्षाप्रयो-
जनम् । यथा
ऊरुग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । इति ।
श्लो०- सक्थिमांसाद्गुरुतरं क्रोड़स्कन्धशिरस्पदम् ॥

४६ द्रव्यगुणः ।
इत्यादि । स्वभाव इति स्वभावस्तद्रव्यजातिप्रभवः स्वाभा-
विको धर्मः । तत् प्रतिनियतं गुरुलाघवम् । यथा
स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः ।
इत्यादि । धातव इति शोणितादयः । तदुदाहरणञ्च
धातूनां शोणिताद्यानां गुरु विद्यात् यथोत्तरम् ।
इति । क्रियेति क्रिया चेष्टा तद्यथा
अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः ।
इति । विशिष्यन्त इति लघुत्वेन विशिष्टा भवन्तीत्यर्थः ।
लिङ्गमिति लिङ्गं स्त्रीत्वादि यदाह
गौरवं लिङ्गसामान्ये पुंसां स्त्रीणास्तु लाघवम् ।
इति । लिङ्गसामान्य इति जातिसामान्ये । तथाच हारीतः
चतुष्पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान् ।
इति । जतुकर्णेऽप्युक्तम्
बन्ध्या छागी प्रशस्ता स्यादभावे वर्करीमता ।
तथाच पराशरः ।
चतुष्पात्सु स्त्रियो ग्राह्याः पुंमांसो विहगेषु च ।
इति । यत्तु भाषितं काशिराजेन छागमेव नपुंसकं
तदनार्षं सर्वतन्त्रविरोधात् । प्रमाणमिति
महाशरीरा गुरवः स्वजातौ लघवोऽन्यथेति ।
संस्कारोऽन्यथात्वं तद्यथा मांसरसगुणनिर्देशे सुश्रुतः
स्नेहगोरसधान्याम्लफलाम्लैरन्वितञ्च यत् ।
यथोत्तरं गुरुं विद्यादिति । चरकेऽपि
गुरूणां लाघवं विद्यात् संस्कारात् सविपर्य्ययम् ।
व्रीहेर्लाजा यथाच स्युः शक्तूनां सिद्धपिण्डकाः ॥
इति । सविपर्य्ययमिति संस्काराल्लघूनामपि गौरवं विद्या-
दित्यर्थः । गुरोरपि व्रीहेर्लाजा लघव इत्यर्थः । लघूनां...

द्रव्यगुणः । ४७
कृशात् स्वयं मृतान्मांसं विषव्याड़हतादपि ।
बालं तोयाग्निविक्निन्नं रोगिशुष्कं न पूजितम् ॥
अगोचरभृतं यच्च मेध्यं वृद्धं तथैव च ।
सिद्धं पर्युषितं तद्वद्दुर्गन्धि ग्रथितञ्च यत् ॥
क्रिमिजग्धञ्च यन्मांसमायुष्कामो विवर्जयेत् ॥ ३५॥
एभ्योऽन्येषामुपादेयं मांसं दोषविवर्जितम् ।
लावतित्तिरिसारङ्गकुरङ्गैकपिञ्जलाः ॥
मयूरवर्म्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥ ३६ ॥
शक्तूनां सिद्धपिण्डका गुरव इत्यर्थः । सिद्धपिण्डका इत्याग्निपा-
चिताः पिण्डाः । मात्रेति मात्रावशाद् गुरूणामपि लघुत्वं लघू-
नामपि गुरुत्वमित्यर्थः । तदुक्तम् ।
अल्पादाने गुरूणान्तु लघूनाञ्चातिसेवने ।
मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥
इति । मात्रा चेति चकारेण वह्निरनुक्तोऽपि मात्रायाः
कारणभूतः समुच्चीयते । तेन मात्राया भूयस्त्वाल्पीयस्त्वेनाग्नि-
रपि परीक्ष्यत इत्यर्थः । तेनाग्निवलमभिसमीक्ष्य भूयसी अल्पी-
यसी वा मात्रा कार्य्येति केचित् । एवं चरादिकं परितः सर्वतो-
भावेन विचार्य्य मांसादिद्रव्याणां गुरुलाघवं वाच्यमिति
पिण्डार्थः ॥ ३४ ॥
यादृशं मांसमनुपादेयं तदाह कृशादिति । अगोचरभृतमि-
त्यानूपं धन्वदेशे पुष्टम् । मेध्यमिति मेदुरम् । सिद्धं पर्युषित-
मिति पक्वं सत् पर्युषितम् ॥ ३५ ॥
उपादेयमाह एभ्य इति । सारङ्गो गौरहरिणः । वर्म
शकलं तदस्यास्तीति वर्मी रोहितः तदुक्तं चरके रोहितो मत्स्या-

२. द्वितीय वर्ग: गुडूच्यादि वर्ग (गुडूची, निम्ब, पटोल, वासा, कण्टकारी)

४८ द्रव्यगुणः।
पोताधानास्तु सर्वेषां सुस्निग्धा लघुदीपनाः ।
महाप्रमाणा गुरवः क्रियावन्तोऽल्पचेष्टिनः ॥३७॥
मत्स्याण्डानि विशेषेण वातपित्तहराणि च ।
ज्ञेयानि हृद्यरुच्यानि कटुपाकीनि चैवहि ॥३८॥
हंसवीजं परं बल्यं वृंहणं वातनाशनम् ।
पाके लघुतरं प्रोक्तं सर्वामयविवर्जितम् ॥ ३९ ॥
विष्टम्भिनः शुष्कमत्स्या अबल्या दुर्जरा मताः ।
सिङ्गला ग्रहणीदोषशमनी पवनापहा ॥ ४० ॥
इति मांसादिवर्गः ।
शाकानि प्रायशस्तानि विष्टम्भीनि गुरूणि च ।
रूक्षाणि बहुवर्चांसि सृष्टविण्मरुतानि च ॥ १ ॥
पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्याद् यथोत्तरम् ॥२॥
नामिति। ब्रह्मदेवोऽपि वर्मी महाशकलो रोहितभेदः न तु
सर्पाकारमत्स्य इत्याह ॥ ३६ ॥
इति मांसादिवर्गः ।
अत्र व्यञ्जनेषु श्रेष्ठत्वात् प्रथमं मांसगुणमभिधाय अनन्तरं
शाकगुणे वाच्ये प्रथमं शाकानां सामान्यगुणमाह शाकानीति ॥१॥
तत्र शाकभेदेन गुणभेदमभिधातुं शाकभेदमाह पत्रमिति ।
संस्वेदजमिति छत्रकादि ॥ २ ॥

द्रव्यगुणाः । ४६
जीवन्ती सर्वदोषघ्नी चक्षुष्या मधुरा हिमा ॥३॥
तण्डुलीयमसृक्पित्तविषनुत् स्वादुपाकतः ॥४॥
वास्तूकस्तु सरो हृद्यो दोषनुत् पाकतो लघुः ।
सक्षारः क्रिमिहा मेध्यो रुच्योऽग्निवलवर्द्धनः ॥५॥
लघुपत्री तु या चिल्लो सा वास्तूकसमा मता ॥६॥
तत्र शाकेषु जीवन्ती श्रेष्ठा । उक्तं हि वाग्भटे
वरा शाकेषु जीवन्ती मारिषस्त्ववरः स्मृतः ।
इति । तद्गुणमाह जीवन्तीति । जीवन्ती स्वनामख्याता
स्वर्णनाड़ इति चक्रः । सा द्विधा मधुरा अमधुरा च । तत्र
मधुराया एव त्रिदोषहन्तृत्वम् । अमधुरायास्तु वातपित्तह-
न्तृत्वमेव । तदुक्तं वृद्धवाग्भटे
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ।
शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु ॥
तत्रामधुरायाः किञ्चिन्न्यूनत्वेन न त्रिदोषहरत्वमिति बोध-
यति । अतएवाह चरकः
भण्डी शतावरीशाकं बला जीवन्तिजञ्च यत् ।
पर्वेच्छाः सर्वपुष्पाश्च वातपित्तहरं मतम् ॥ इति ॥ ३ ॥
तण्डुलीयं क्षुद्रमारिषः । पाकत इत्यनन्तरं चकारो लुप्त-
निर्दिष्टो ज्ञेयः । तेन रसतोऽपि स्वादुरित्यर्थः ॥ ४ ॥
दोषनुदिति । त्रिदोषहरः पाकतो लघुरिति कटुरित्यर्थः ।
उक्तञ्च
कटुविपाके क्रिमिहा मेधाग्निवलवर्द्धनः ।
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः परः ।
चरकेऽपि त्रिदोषघ्नत्वमुक्तम् ॥ ५ ॥
५

५० द्रव्यगुणः ।
मूलकपोतिका कण्ठ्या सर्वदोषहरी लघुः ।
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी ॥७॥
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् ॥८॥
तदेव स्निग्धसिद्धन्तु वातनुत् कफपित्तकृत् ॥६॥
शुष्कन्तु शोथशमनं गरदोषहरं लघु ॥ १० ॥
तत्फलं कफवातघ्नं तत्पुष्पं कफपित्तजित् ॥११॥
हिलमोची तु कुष्ठघ्नी भेदनी कफपित्तनुत् ॥१२॥
उपोदिका सरा स्निग्धा वल्या श्लेष्मकरी हिमा ।
चिल्ली गौरवास्तूकः । क्षेत्रवास्तूक इत्यन्ये ॥ ६ ॥
मूलकस्य बालमहदामसिद्धशुष्कभेदेन गुणमाह मूलक-
पोतिकेति । मूलकपोतिका अतिबालमूलकम् । अत्र स्निग्ध-
सिद्धाया एव मूलकपोतिकायाः सर्वदोषहरत्वम् अन्यथा तु
दोषकृत्त्वम् यदाह मूलकगुणे वाग्भटः
वातश्लेष्महरं शुष्कं सर्वमामन्तु दोषलम् ।
इति । अत्र सर्वमिति बालं वृद्धञ्च । सर्वपदञ्च पूर्वेण
परेण च सम्बध्यते । तेन सर्वदोषहरस्यापि बालमूलकस्या-
मावस्थायां दोषलत्वं न तु वृद्धस्यैवेत्यरुणः ॥ ७ ॥
महतः परिणतस्य मूलकस्य गुणमाह महदिति । आम-
मित्यनग्निपक्वमिति निबन्धसंग्रहः ॥ ८ ॥
शुष्कमूलकगुणमाह शुष्कमिति । अस्य च वातकफहरत्वं
ज्ञेयम् । यदाह
बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।
स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥ १० ॥
मूलकफलपुष्पयोर्गुणमाह तत्फलमिति ॥ ११ ॥

˙द्रव्यगुणः। ५१
स्वादुपाकरसा हृद्या वातपित्तमदापहा ॥ १३ ॥
सुनिषण्णन्तु संग्राही अविदाहि त्रिदोषनुत् ॥१४॥
मारिषो मधुरः शीतो विष्टम्भी गुरुपित्तनुत् ॥१५॥
पालङ्गा बह्वविण्मूत्रा कफघ्नी तण्डुलीयवत्॥१६॥
कासमर्दोऽग्निदः कण्ठ्यः
स्वादुस्तिक्तस्त्रिदोषनुत् ॥१७॥
कालशाकं गरश्लेष्मशोथघ्नं दीपनं कटु ॥ १८ ॥
कलायपत्रं मधुरं रूक्षं भेदि च वातलम् ॥१९॥
सतीलकं त्रिदोषघ्नं कटुपाकं सतिक्तकम् ॥२०॥
सुनिषण्णकं सुसुनिया इति ख्यातम्। ब्रह्मदेवस्तु तल्ल-
क्षणमाह।
चाङ्गेरीसदृशैः पत्रैः सुनिषण्णं चतुर्दलम्।
शाको जलान्विते देशे चतुष्पत्रीति सूच्यते ॥ १४ ॥
तण्डुलीयवदित्यनेन मधुररसपाकत्वादिकमतिदिश्यति।
अस्याश्च कफहरत्वं रूक्षत्वादिप्रकर्षात् ॥ १६ ॥
अस्य च त्रिदोषहरत्वेऽपि विशेषात् पित्तहरत्वं बोध्यम्।
यदाह सुश्रुतः।
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः।
विशेषतः पित्तहरः सतिक्तः कासमर्दक इति ॥ १७ ॥
कलायस्त्रिपुटकलायः। सतीलाख्यस्य वक्ष्यमाणत्वात् ॥१९॥
सतीलको वर्त्तुलकलायः। अस्य च त्रिदोषहरत्वेऽपि विशे-
षात् कफपित्तहरत्वं ज्ञेयम्।
कफपित्तहरं तिक्तं शीतं कटु विपच्यते।

५२ द्रव्यगुणः।
षाणकं दुर्जरं स्वादु कौसुम्भन्तु कफापहम् ॥२१॥
पुवर्नवायुग्ममुष्णावीर्य्यं रसायनं सरम् ।
कफानिलामदुर्नामव्रध्नशोथोदरापहम् ॥ २२ ॥
कञ्चटं तिक्तकं ग्राहि रक्तपित्तापहं स्मृतम् ॥२३॥
चाङ्गेरी तु कषायोष्णा मधुरा वह्निदीपनी ।
साम्ला वातकफौ हन्ति ग्रहण्यर्शीविकारनुत् ॥२४॥
चुक्रकं दुर्जरं भेदि अम्लं पित्तकरं गुरु ॥ २५ ॥
कलम्बिका गुरुर्वृष्या कषाया स्तन्यवृद्धिदा ॥२६॥
सार्षपं गुरु शाकञ्च बद्धमूत्रं त्रिदोषकृत् ॥ २७ ॥
ग्रीष्मसुन्दरकस्तिक्तो रोचनः कफपित्तनुत् ॥२८॥
नाड़ीचः पिच्छिलः शीतो विष्टम्भी वातकोपनः ।
रक्तपित्तहरः स्वादुर्मण्डूक्यद्याश्च तद्गुणाः ॥२६॥
पटोलपत्रं पित्तघ्नं नालं तस्य कफापहम् ।
फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचनम् ॥३०॥
निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् ॥३१॥
पर्पटस्तु सवेत्राग्रस्तिक्तः पित्तकफापहः ॥ ३२ ॥
इति चरकसंवादात् ॥ २० ॥
स्वादिति । रसतः पाकतश्च । कफापहमिति कफहरम् ॥२१॥
चाङ्गेरीगुणे साम्लेति ईषदम्ला ॥ २४ ॥
मण्डूकी मण्डूकपर्णी मणिमणीतिख्याता । आदिशब्दाद्
गोजिह्वादीनां ग्रहणम् । गोजिह्वा दार्वीशाकः ॥ २६ ॥

द्रव्यगुणाः। ५३
त्रिदोषशमनी वृष्या काकमाची रसायनी।
नात्युष्णा शीतवीर्य्या च भेदनी कुष्ठनाशिनी ॥३३॥
वायुं वत्सादिनी हन्यात् पित्तघ्नी तु सुवर्चला ॥३४॥
राजक्षवकशाकन्तु त्रिदोषशमनं लघु ।
ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥३५॥
दीपनाः कफवातघ्नाश्चिरबिल्वाङ्कुराः सराः ॥३६॥
न्यग्रोधोदुम्बराश्वत्थप्लचपद्मादिपल्लवाः ।
कषायस्तम्भनाः शीता हिताः पित्तातिसारिणाम्३७
अवलगुजः कटुः पाके तिक्तः पित्तकफापहः ॥३८॥
वार्त्ताकं कटु तीक्ष्णोष्णं मधुरं कफवातजित् ।
वत्साद्नी गुडूची। अस्याश्च पित्तकफहन्तृत्वं बोध्यम् ।
तदुक्तं सुश्रुते ।
अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः ।
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥
इति। अन्ये तु पत्रप्रधाने गुडूचीशाके तिक्तरसप्राधान्यात्
पित्तकफहरत्वमेवेत्याहुः । सुवर्चला सूर्य्यावर्त्तभेदः। अन्येतु
मारिषसदृशनालमार्त्तगलसदृशपत्रं लम्पकमाहुः ॥ ३४ ॥
राजक्षवको दुग्धिका। अन्येतु राजक्षवको बृहत्पत्रः
क्षवयुकारक इत्याहुः ॥ ३५ ॥
चिरबिल्वः करञ्जकः ॥ ३६ ॥
अवलगुजो बागुजोत्यन्नम् ॥ ३८ ॥
जीर्णमिति परिणतम्। अत्र जीर्णं पित्तलमित्यनेना-
परिणतस्यापि पित्ताविरोधित्वमिति बोधयति। अतएव माध-

५४ द्रव्यगुणः।
रोचनं वह्निजननं जीर्णन्तु पित्तलं मतम् ॥ ३६॥
कण्डूकुष्ठक्रिमिघ्नानि कफवातहराणि च ।
फलानि बृहतीनान्तु कटुतिक्तलघूनि च ॥४०॥
कारवेल्लः सकर्कोटो रोचनः कफपित्तनुत् ॥४१॥
कूष्माण्डकं पित्तहरं बालं मध्यं कफावहम् ।
पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् ॥
सर्वदोषहरं हृद्यं पथ्यञ्चेतोविकारिणाम् ॥४२॥
सक्षारा मधुरा रूक्षा रुच्या वातकफापहा ।
वेन वार्त्ताकगुणे हृद्यं रुच्यमपित्तलमित्युक्तम् । अन्ये तु पठन्ति
सा बाला कफपित्तघ्नी पक्वा सक्षारपित्तला ।
सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ ३६ ॥
अन्ये तु कण्टकारीफलं पृथगेव पठन्ति ॥ ४० ॥
कारवेल्लः स्वनामख्यातः । कर्कोटो बृहत्कर्कोटोऽल्प-
कर्कोटी च ॥ ४१ ॥
कूष्माण्डस्य बालावस्थाभेदेन गुणमाह कूष्माण्डकमिति ।
मध्यस्य कफावहत्वेन वातपित्तहरत्वं सूच्यते । यदाह वाग्भटः
कूष्माण्डं वातपित्तजित् । अतएव कफमावहति करोतीति
कफावहमिति डल्लनोऽप्याचष्टे । अयन्तु सौश्रुतः श्लोकः । पक्व-
मित्यत्र शुक्रमिति पठ्यते । तथापि स एवार्थः । पक्वस्य शुक्ल-
वर्णत्वात् चक्रेण स्पष्टार्थं पक्वमित्युक्तम् । सर्वदोषहरमिति
सर्वग्रहणं रक्तोपसंग्रहार्थम् । सर्वदोषसहमित्यन्ये पठन्ति ।
अत्रायमर्थः न करोति न वा शमयतीत्यर्थ इति निबन्धसंग्रह-
कृतः । चेतोविकारा अपस्मारादयः ॥ ४२ ॥