द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 32, कुल 176 में से
संदर्भ में पढ़ें२४ द्रव्यगुणः।
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः ।
तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः॥२०·
गोधूमः स्थैर्य्यकृद्वृष्यः स्निग्धशीतः सरो गुरुः।
सन्धाता बृंहणो बल्यो जीवनो वातपित्तहा ॥२१॥
लघव इत्युपदर्शितम् । शीघ्रपाका इति शीघ्रं जठराग्निना
पच्यन्ते । लघव इत्यनेन लघुपाकित्वमुक्तमिति केचित् ॥ १६ ॥
छिन्नरूढ़ा इति । प्रथमं छिन्नाः पश्चात् रूढ़ाः। अत्र केचिच्चोद-
यन्ति ननु च दग्धायामवनौ जाता इत्यादिना उक्तशाल्यादीनां
यदि पुरोक्तगुणविरोधेन गुणान्तरोत्पत्तिरुच्यते तदा पूर्वगुण-
वर्णनमनर्थकम् तद्विरोधेनेति चेत् तदा पूर्वापरविरोधः । तथा
हि तेषां शालीनां स्निग्धत्वमुक्तं दग्धावनिसम्भूतानान्तु तेषामेव
रौक्ष्यमपीति । तन्न उत्सर्गापवादभेदेनाविरोधात् । एतच्च
पूर्वमुक्तमेव ॥ २० ॥
गोधूमगुणमाह गोधूम इति । अत्र गोधूमस्य स्वादुशीत-
स्निग्धादिगुणयोगात् श्लेष्मकर्तृत्वं ज्ञेयम् अतएव सुश्रुते श्लेष्मकर
इत्युक्तम् । अन्ये तु “चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजन” इति
वसन्ते गोधूमस्य विधानात् श्लेष्मकारित्वमस्यायुक्तमिति मन्य-
मानाः सुश्रुते श्लेष्मकर इत्यस्य स्थाने शोफकर इति पठन्ति ।
तन्न सम्यक् गोधूमगुणपर्य्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात्
वसन्तस्यादानमध्यत्वेन वातपित्तानुबन्धात् स्निग्धशीतस्यापि गोधू-
मस्य तत्रोपयोगोऽपि न विरुध्यते । किंवा गोधूमोऽत्र पुराणो-
ऽभिहितः स च न कफकरः । यदुक्तम्
मधुरं श्लेष्मलं प्रायो जीर्णाच्छा लियवादृते ।
मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥