द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
१०० द्रव्यगुणः ।
पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्द्धनम् ।
वातघ्नमुत्तमं बल्यं त्वच्यं मेधाग्निवर्द्धनम् ॥ १ ॥
सार्षपं कटु तीक्ष्णोष्णं कफशुक्रानिलापहम् ।
लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित् ॥२॥
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ।
तद्वस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे ॥
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥ ३ ॥
तैलमेरण्डजं तिक्तं कटु स्वादुरसं गुरु ।
ब्रध्नगुल्मानिलकफानुदरान् विषमज्वरम् ॥
रुक्शोफौ च कटौगुह्यकोष्ठपृष्ठाश्रयौ जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ॥५॥
उमाकुसुम्भजं तूष्णं त्वग्दोषकफपित्तकृत् ॥ ६ ॥
करञ्जनिम्बतैलन्तु नात्युष्णं कफपित्तजित् ।
तिक्तं क्रिमिहरं तैलं शेषं योनिवदादिशेत् ॥७॥
स्ववचारणायां ज्ञेयः। सूक्ष्ममिति सूक्ष्मस्रोतोऽनुसारित्वात् ।
व्यवायीति अपक्वमेव सकलदेहव्यापकात् । त्वच्यमित्यभ्यङ्गात् ।
यत्तु वाग्भटे त्वग्दोषकरत्वमुक्तं तैलस्य तल्लक्षणाभिप्रायेणेति
न विरोधः । अन्ये तु तत्रापि त्वग्दोषहृदिति पठन्ति । तन्तु
न टीकाकृद्भिर्व्याख्यातम् ॥ १ ॥
अन्नपानविधौ अन्नपानसंस्कारे ॥ ३ ॥
उमा अतसी ॥ ६ ॥
[द्रव्यगुणः। १०१]
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते।
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ ८ ॥
तिक्तमित्यन्तः करञ्जनिम्बयोस्तैलगुणः। तैलमित्यादिना तु
अनुक्ततैलगुण उक्तः॥ ७ ॥
स्थावरस्नेहेषु तिलतैलप्राधान्यमाह सर्वेभ्य इति ॥ ८ ॥
ननु तैलपदे तैलत्वं प्रवृत्तिनिमित्तम्। तच्च न तावत्तिलो-
द्भवत्वम्। सर्षपतैलादावव्याप्तेः। नापि बीजप्रभवत्वं तद्गतरूपा-
दावतिव्याप्तिः। नापि बीजप्रभवस्नेहत्वं सारतैलादावव्याप्तेः।
अपि च बीजप्रभवस्नेहत्वं न तावत् स्नेहरूपगुणवृत्तिः। तैलं
गन्धवदिति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः। नापि
स्नेहाश्रयद्रव्यवृत्तिः। बीजद्रवमात्रस्यैव तैलत्वापत्तिरिति अनुप-
पत्तिं हृदि निधाय सर्षपादिस्रेहेष्वपि तैलशब्दं व्युत्पादयन्नाह
निष्पत्तेरिति। तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्र-
पातनादिना तथा सर्षपादावपि स्नेहाकर्षणात्। भवति च
समाननिष्पत्तिकतया तच्छब्दता यथा वितुषे धान्ये तण्डुलशब्दो
वृत्ततः स वितुषे विडङ्गेऽपि वर्त्तते। यथा विडङ्गतण्डुला इति।
तद्गुणत्वेन तच्छब्दता यथा गोर्वाहिक इति। तद्गुणत्वञ्च सुश्रु-
तेनोक्तम् यथा
यावन्तः स्थावराः स्नेहाः समासात् परिकीर्त्तिताः।
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥
एतेन तिलस्य विकारस्तैलमिति योगे बाधकाभावात्।
तिलप्रभवस्नेह एव तैलपदप्रयोगात् स्नेहत्वेऽपि शक्तेस्तैलपदं
योगरूढम्। सार्षपादौ तु तैलपदप्रयोगो भाक्त इति भावः।
अन्ये तु गन्धरसविशेषाभिव्यङ्ग्यं तैलत्वं जातिः। अतएव घृत-
१०२ द्रव्यगुणः ।
वसा मज्जा च वातघ्नौ वलपित्तकफप्रदौ ।
मांसानुरूपगन्धौ च विद्यान्मेदोऽपि ताविव ॥६॥
इति तैलवर्गः ।
इक्षोरसो हिमो वृष्यस्तर्पणो जीवनः सरः ।
वातासृक्पित्तजित् स्वादुः स्निग्धः प्रीणनवृंहणः ।
रसो दन्तकृतः श्लेष्मकारणं न विदाहवान् ॥ १ ॥
यान्त्रिकस्तु विदाही स्याद्गुरुस्त्वग्ग्रन्थियोगतः॥२॥
तैलसंशये गन्धरसविशेषनिश्चयात् तैलत्वनिश्चय इति सार्षप-
स्नेहादीनामपि तैलत्वमित्याहुः ॥ ८ ॥
स्नेहसामान्याद् वसादीनामपि गुणमाह वसेति ॥ ६ ॥
इति तैलवर्गः ।
माधुर्य्यसामान्यात् क्षीरवर्गमनु इक्षुविकृतिवर्गेऽभिधातव्ये
उपोद्घातागतेन तैलवर्गेण व्यवधानं कृतम् । सम्प्रति यथोक्तो-
पोद्घातागतं तैलवर्गमभिधाय प्रकृतमिक्षुविकृतिवर्गमाह इक्षो-
रिति । दन्तकृत इति दन्तपीड़नेन कृतः ॥ १ ॥
यान्त्रिक इति यन्त्रपीड़नेन कृतः । ननु यान्त्रिकस्य इक्षु-
रसस्य विदाहित्वे सति रक्तपित्तहरत्वं यत् तद्विरुध्यते । यथा
मधूदकस्येक्षुरसस्य चापि पानाच्छमं गच्छति रक्तपित्तमिति ।
तन्न । यतो दन्तनिष्पीड़ितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भवि-
ष्यति । किं वा यान्त्रिकस्यापि विदाहकारणत्वगादिसंयोगा-
देस्त्यागं कृत्वोपयोगः कार्य्यः । तेन यान्त्रिकस्तु विदाहीति वचनं
द्रव्यगुणाः । १०३
अतीव मधुरो मूले मध्ये मधुर एव च ।
अग्रे चाक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ ३ ॥
पक्को रसो गुरुः स्निग्धः स तीक्ष्णः कफवातजित् ४
फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रलम् ॥ ५ ॥
रूक्षं मधूकपुष्पोत्थं फाणितं त्वथ वातहृत् ।
कफदं मधुरं पाके कषायं वस्तिदूषणम् ॥ ६ ॥
गुड़ो वृष्यो गुरुः स्निग्धः सक्षारो मूत्रशोधनः ।
नातिपित्तहरो मेदःकफक्रिमिवलप्रदः ॥ ७ ॥
प्रायोवादमाश्रित्य बोध्यम् । अन्ये त्वेतद्दोषभिया विदाहीति
शीघ्रपाकीति व्याख्यानयन्ति ॥ २ ॥
इक्षूणामवयवविशेषेण गुणविशेषमाह अतीवेति अक्षि-
ष्विति । ग्रन्थिषु चन्द्रिकाकारस्तु इक्षूणामक्षिषु सर्वसन्धिषु प्ररो-
हजननसमर्था अङ्कुरा इत्याह । अन्ये त्वत्तु चेति पठन्ति तत्
सुबोधम् ॥ ३ ॥
पक्वस्येक्षुरसस्य गुणमाह पक्व इति ॥ सतीक्ष्ण ईषत्तीक्ष्ण
इत्यर्थः ॥ ४ ॥
फाणितं तन्तुलीभूतो रसः । अस्यैव तन्त्रान्तरे क्षुद्रगुड़
इति संज्ञा । तदुक्तं क्षुद्रो गुड़श्चतुर्भागावशेषित इति ॥ ५ ॥
फाणितप्रसङ्गान्मधूकपुष्पकृतफाणितगुणमाह रूक्षमिति ॥ ६ ॥
इक्षुरसस्यैव पाकादतिघनभावं गतस्य गुड़संज्ञा तस्य गुण-
माह गुड़ इति ॥ सक्षार इति क्षारसहचरितलवणरसः क्षार-
शब्देनोच्यते । स्वामिदासाद्यस्तु व्याख्यातारः क्षाराधिकारे
क्षारस्य रसत्वमेव मन्यन्ते । तत्तु न सम्यक् सर्वतन्त्रविरोधात् ।
१०४ द्रव्यगुणः ।
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः ॥८॥
स पुराणोऽधिकगुणो गुड़ः पथ्यतमः स्मृतः ॥६॥
खण्डं वृष्यतमं बल्यं चक्षुष्यं बृंहणं तथा ।
वातपित्तहरं नातिस्निग्धं हृद्यं सुखप्रदम् ॥१०॥
शर्करा वातपित्तासृङ्मूर्च्छाच्छर्दिविषापहा ॥११॥
तमराजस्तु तृष्णाघ्नो ज्वरदाहास्रपित्तजित् ॥१२॥
उक्तं हि चरके क्षरणात् क्षारो नासौ रसो द्रव्यमिति । नाति-
पित्तहर इति । मधुरत्वेऽपि सलवणत्वात् ॥ ७ ॥
अपहृतमलत्वेन शुद्धो यो गुड़स्तस्य गुणमाह पित्तघ्न इति ।
शुद्धो मलापगमनेन धवल इत्यर्थः ॥ ८ ॥
पुराणगुड़स्य गुणमाह स इति ॥ पथ्यतम इति गुड़ान्तरा-
पेक्षया । चन्द्रिकाकारस्तु पथे स्रोतसे हितः पथ्यः पथ्यतमः
सर्वेषां स्रोतोहितानां श्रेष्ठ इत्यर्थः । पथ्यतमस्तु जीर्णत्वेन
रौक्ष्यलाघवादिगुणयोगात् । अतएवोक्तं गुणाधिक इति ।
गुणाश्चात्र स्रोतः शोधनाधिकारिण एव रौक्ष्यलाघवादयो न तु
स्नेहादयः । पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुर्विति युक्ति-
विरोधात् । अप्रस्तुतत्वात् स्नेहादीनां स्रोतःशुद्ध्यकरणत्वाच्चेति
व्याचष्टे । डल्वनस्तु स पुराण इत्यस्य ईषत् पुराणमित्यर्थं व्याख्या-
तवान् ॥ ६ ॥
तस्यैव गुड़स्य संस्कारान्तरेण नामान्तरं गुणान्तरं च निर्दि-
शन्नाह खण्डमिति ॥ १० ॥
अत्र शर्कराशब्दः सामान्यवचनः । तेन यासशर्करामधु-
शर्करागुड़शर्कराणामिवायं गुण इति बोध्यः ॥ ११ ॥
तमराजः शर्कराभेद इति डल्वनः ॥ १२ ॥
द्रव्यगुणः। १०३
वृष्या क्षीणक्षतहिता सस्नेहा गुड़शर्करा ॥ १३ ॥
मधुजा शर्करा रूक्षा तृष्णाच्छर्द्यतिसारनुत् ।
तद्गुणा तिक्तमधुरा सस्नेहा यासशर्करा ॥ १४ ॥
गुड़मत्स्यण्डिकाखण्डशर्करा विमलाः परम् ॥ १५॥
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६ ॥
मधु स्वादुरसं शीतं व्रणशोधनरोपणम् ।
कषायानुरसं रूक्षं वल्यं दीपनलेखनम् ॥
गुड़पदं यासशर्करामधुशर्करयोर्व्यवच्छेदार्थम् ॥ १३ ॥
मधुनः कालान्तरावस्थानादति घनीभूतमवयवं मधुशर्करेति
वदन्ति । दुरालभाक्वाथस्य घनीभावाद् यासशर्करेत्युच्यते ॥ १४ ॥
गुड़ादीनामुत्तरोत्तरं नैर्मल्यातिशयमाह गुड़ेत्यादि । पर-
मित्यत्तरोत्तरं विमलाः । तेन गुडापेक्षया मत्स्यण्डिका विमला
मत्स्यण्डिकापेक्षया खण्डो विमलः खण्डापेक्षया च शर्करा
इति । मत्स्यण्डिकाश्च खण्डमध्ये कृत्रिमाः पाकादिना निष्पन्न-
त्वात् शालूकाकृतयोऽतिकठिना भवन्ति ॥ १५ ॥
एतेषामेव यथा यथा वैमल्यप्रकर्षस्तथा तथा माधुर्यादि-
प्रकर्षोऽपीत्याह यथेति ॥ अत्र गौरवस्थाने केचिल्लाघवं पठन्ति
वदन्ति च । लाघवं हि गुणः प्रशस्तो न गौरवम् उत्तरोत्तरश्च
प्राशस्त्यमेषामुक्तम् । किन्तु यथा यथा सारत्वं भवति तथा
तथा गौरवमप्युपपन्नम् ॥ १६ ॥
माधुर्यसामान्यात् मधुशर्कराप्रसङ्गाच्चानन्तरं मधुगुणाभि-
धानं तस्य सामान्यगुणमाह मध्विति ॥ सन्धानमिति भग्नादि-
सन्धानकरम् । नन्वत्र लध्विति पठ्यते । तथा त्रिदोषप्रशमन-
१०६ द्रव्यगुणः।
सन्धानं लघु चक्षुष्यं स्वर्य्यं हृद्यं त्रिदोषनुत् ।
श्वासहिक्काविषहरमुष्णं क्षाम्बु विरोधि च ॥१७॥
मिति तथाच चरकविरोधः । तत्र हि वातलं गुरु शीतञ्च रक्त-
पित्तापहं मध्विति पठति । एवं वाग्भटेऽपि व्रणशोधनसन्धान-
रोपणं वातलं मध्विति पठ्यते । सत्यम् । तत्र यल्लघुत्वमुक्तं तत्
पुराणमध्वपेक्षया । इदं हि वचनं सौश्रुतम् । सुश्रुते च पुराण-
मेव मध्वधिकृतम् । यथा
विडङ्गं पिप्पली चौद्रं सर्पिश्चाप्यनवं हितम् ।
इति । तेनाधिकृतत्वात् पुराणमधुन एवैते गुणा ज्ञेयाः ।
चरके तु पुराणादिविशेष मनादृत्य गुरुत्वमुक्तम् । चक्रस्तु
लघ्विति लघुपाकमिति व्याख्याय विरोधं परिहरति । त्रिदोष-
प्रशमनत्वञ्चास्य प्रभावान्मिलितत्रिदोषारब्धज्वरहरतया ज्ञेयम् ।
पृथग्वातजननन्तु चरकवाग्भटाभ्यामुक्तमतो न विरोधः ।
त्रिदोषहरत्वे उपपत्तिरपि दर्शिता सुश्रुतेन । यथा तच्च लघु-
त्वात् कषायानुरसत्वाच्च कफघ्नं पैच्छिल्यात् माधुर्य्यात् कषा-
यानुरसत्वाच्च वातपित्तघ्नमिति । न च दृष्टकारणत एव
त्रिदोषहरत्वोपपत्तौ प्रभावकल्पनमयुक्तमिति वाच्यम् । प्रभाव-
मन्तरेण मिलितत्रिदोषारब्धविकारहरणनियमानुपपत्तेः । विष-
हरमिति विषान्वयसम्भवेऽपि विषहरत्वमस्य प्रभावात् ।
अतएवोक्तञ्चरके
विषं विषघ्नमुक्तं यत् तत् प्रभावप्रभावितम् ।
इति । केचिदनयैवानुपपत्त्या वमिहरमिति पठन्ति । तन्न ।
सुश्रुतेऽपि विषप्रशमनमित्युक्तत्वात् । उष्णाक्षाम्बुविरोधीति
उष्णेन क्षाम्बुना च विरुध्यते । सुश्रुते च उष्णविरोधे उपपत्ति-
रपि दर्शिता यथा । तत् सौकुमार्य्याच्च तथैव शैत्यान्ना-
द्रव्यगुणः । १०७
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः ।
माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु ॥ १८ ॥
माक्षिकं तैलवर्णं स्याद् घृतवर्णन्तु पौत्तिकम् ।
क्षौद्रन्तु कपिलं विद्यात् श्वेतं भ्रामरमुच्यते ॥ १९ ॥
नौषधीनां रससम्भवाच्च। उष्णे विरुध्येत विशेषतस्तु तथा-
न्तरीक्षेण जलेन चापि। सौकुमार्य्यादिति सुकुमारं हि उष्णे
विरुध्यते। नवनीतस्यानघृतजलकुसुमवत्। तथैव शैत्या-
दिति शीतस्य स्वभावत एव उष्णविरोधात्। नानौषधीनां
रससम्भवाच्चेति विरुद्धरसवीर्य्यनानाद्रव्यपुष्पस्य रसेन द्रवेण
सम्भवादुत्पत्तेरित्यर्थः। खाम्बुना शीतेनापि मधुनो विरोधित्वे
द्रव्यस्वभावमात्रं हेतुः। उष्णविरोधयोश्चास्पर्शैरिव नोष्णवीर्य्यै-
स्तेनोष्णवीर्य्यत्रिकट्वादिना मधु न विरुध्यते। एतच्चोष्ण-
विरोधित्वमार्घ्यं मधु विहाय बोध्यम्। तस्य विपान्वयत्वासम्भ-
वात्। अतएवोक्तं भोजे। मधून्यष्णैर्विरुध्यन्तेऽन्यत्रार्घ्यादिति
॥ १७ ॥
यद्यपि सुश्रुतेऽष्टविधं मधूक्तम्। यथा।
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥
इति। तथापि मधुनश्चतुर्विधत्वमेव सर्वजनप्रसिद्ध-
मिति कृत्वा चरकवचनमुपन्यस्यति। पिङ्गला मक्षिका महत्यः
पुत्तिकास्तद्भवं पौत्तिकम्। भ्रामराः प्रसिद्धाः। मक्षिका एव
स्वल्पाः पिङ्गलाः क्षुद्रास्तद्भवं क्षौद्रम्। तद्विधा एवास्वल्पा
मक्षिकास्तद्भवं माक्षिकम् ॥ १८ ॥
माक्षिकादिज्ञानार्थं वर्णविशेषानाह माक्षिकमिति ॥ १९ ॥
१०८ द्रव्यगुणः १
बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ।
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् ।
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥ २० ॥
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्॥२१
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।
अपाकादनवस्थानान्न विरुद्ध्येत पूर्ववत् ॥ २२ ॥
इत्यैक्षवादिवर्गः ।
तस्यैव मधुनोऽवस्थाविशेषेण गुणभेदमाह बृंहणीयमिति ।
पक्वमित्यग्निसम्पर्कादेव मधु गृह्णन्ति । अन्ये तु मधुनः पाको
नास्तीति कृत्वा मध्वाधारस्यैव भूरिकालेन स्वयं सुसञ्जातत्वं
पक्वत्वं स्वल्पकालावस्थानाच्चामत्वं वदन्ति ॥ २० ॥
मधुनो योगवाहितामाह तदिति । अत्र केचित् नानाद्रव्या-
त्मकत्वाच्च योगवाहिपरं मध्विति पठन्ति । तन्मतेऽपीयमेवोप-
पत्तिः ॥ प्रभावसहिता मधुनो योगवाहित्वे हेतुः । प्रभावात्तु
नानाद्रव्यात्मकत्वेऽपि मद्यादीनां न योगवाहित्वम् ॥ योग-
वाहितया च येन येन वाजीकरणरसायनदोषहरणादिना
युज्यते तस्य तस्यैव कर्म करोतीति भावः ॥ २१ ॥
इदानीं विषयविशेषे मधुन उष्णेनाप्यविरोधमाह उष्णे-
नेति । वमनेष्विति अचिरावस्थायिभेषजोपलक्षणम् । तेन
वस्तावप्यविरोधो ज्ञेयः । विरेचने तु चिरावस्थानाद्विरुध्यत
एव । पूर्ववदिति सौकुमार्यादिहेतुः । पूर्वस्मादिव नात्र विरोध
इत्यर्थः ॥ २२ ॥
इत्यैक्षवादिवर्गः ।
द्रव्यगुणः । १०६
सर्वं पित्तकरं मद्यमम्लं दीपनपाचनम् ।
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् ।
विकासि सृष्टविण्मूत्रं निद्राभावप्रसक्तिनुत् ॥ १॥
स्तन्यरक्तक्षयहिता सुरा दीपनबृंहणी ।
कार्श्यार्शोग्रहणीदोषमूत्राघातानिलापहा ॥ २॥
कासार्शोग्रहणीदोषप्रतिश्यायविनाशिनी ।
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा ॥ ३ ॥
इदानीं मधुगुडयोनित्वात् तथा मधुशब्दाभिधेयत्वाच्च
मद्यस्य तदनन्तरं मद्यवर्गमाह सर्वमिति । यद्यपि मार्द्वीकमा-
ध्वोकादिमद्यं साक्षादप्रतीयमानाम्लरसं तथापि अम्लकार्य्यदन्त-
हर्षमुखस्रावकारित्वेन अम्लानुरसत्वेन चाम्लत्वमिह ज्ञेयम् । यत्तु
वाग्भटे
सस्वादुतिक्तकटुकमम्लपाकरसं सरम् ।
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ॥
इति । पञ्चरसत्वमुक्तम् । तन्मतेऽप्यम्लानुरसता इतररसानां
ज्ञेया । उक्तं हि
सर्वेषां मद्यमम्लानामुपर्य्युपरि वर्त्तते ।
इति । इन्द्रियबोधनमिति इन्द्रियपाटवकरमिति डल्लनः ।
निद्राभावप्रसक्तिनुदिति निद्राया अभावं नाशं तथा निद्राया
अतिप्रसक्तिञ्च नुदति । अतएवोक्तमन्यत्र
नष्टनिद्रातिनिद्राये हितं पित्तास्रदूषणम् । इति ॥ १ ॥
सुरागुणमाह स्तन्येति । सुराऽत्र लोहितवर्णा ॥ २ ॥
१०
११० द्रव्यगुणः ।
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दिनी ।
प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशिनी ॥४॥
पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी ।
विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥५॥
रूक्षा नातिकफा वृष्या पाचनी वल्कली सुरा ॥६॥
कोहलो भेद्यवृष्यश्च त्रिदोषो वदनप्रियः ॥ ७ ॥
ग्राह्युष्णो जगलः प्रोक्तो रूक्षस्तृट्कफशोथनुत् ॥८॥
कातोलीति प्रसिद्धायाः श्वेतसुराया गुणमाह कासार्श इति
॥ ३ ॥
प्रसन्नागुणमाह छर्दीति । प्रसन्ना मद्यस्योपरि अच्छो भागः ।
अन्ये तु मद्यमेव भेषजयोगात् प्रसन्नं प्रसन्नामाहुः ॥ ४ ॥
यवगोधूमकृतसुरयोः क्रमाद्गुणमाह पित्तलेति । गुर्वी-
त्यन्तो यवसुरागुणः । यवैरित्यनन्तरं कृतेति शेषः । श्लेष्मला तु
मधूलिकेति गोधूमसुरागुणः । मधूलकः स्वल्पगोधूमः । तत्कृत-
क्लिन्नभागा सुरा मधूलिका । अन्ये तु मधूलकां मर्कटहस्ततृणं
तत्फलक्लिन्नकृता मधूलिकेत्याहुः । जेज्जड़स्तु मधूलकपुष्पस-
म्भवं मद्यं मधूलिकामाह ॥ ५ ॥
वल्कलीति प्रसिद्धसुरागुणमाह रूक्षेति । बिभीतककृता
सुरा वल्कली । अतएव केचिद्वल्कलीस्थाने आक्षिकीति पठन्ति ।
अक्षी बिभीतकः ॥ ६ ॥
कोहलाख्यमद्यगुणमाह कोहल इति । यवशक्तुकिण्वकृतं
मद्यं कोहलः । अन्ये तु पौण्ड्रदेशप्रसिद्धां सुरां काञ्चिमानिका-
माहुः ॥ ७ ॥
द्रव्यगुणः। १११
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोधनुत् ।
वक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ ९ ॥
शीधुः पित्तानिलहरः श्लेष्मस्नेहविकारहा ।
मेदःशोथोदरार्शोघ्नो वल्यः पक्वरसो मतः ॥ १० ॥
जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः ।
लेखनः शीतरसिको हितः शोफोदरार्शसाम् ॥ ११ ॥
गौड़ः शीधुः कषायः स्यात् स्वादुः पाचनदीपनः १२
शार्करो मधुरो हृद्यो दीपनो वस्तिशोधनः ।
वातघ्नो मधुरः पाके रुच्य इन्द्रियबोधनः ॥ १३ ॥
शीधुर्मधूकपुष्पोत्थो विदाह्यग्निवलप्रदः ।
रूक्षः कषायः कफहा वातपित्तप्रकोपणः ॥ १४ ॥
जगलो भक्तकिण्वकिक्ककृतः सुरा तस्या गुणमाह ग्राह्येति
॥ ८ ॥
भेदकगन्धद्रव्यविक्रियमाणवक्कसगुणमाह हृद्य इति ॥ ९ ॥
पक्केक्षुरसकृतशीधुगुणमाह शीधुरिति। पक्वरसः कथितेक्षु-
रसेषु यः क्रियते ॥ १० ॥
अपक्केक्षुरसकृतशीधुगुणमाह जरणीय इति। शीतरसिको-
ऽपक्केक्षुरसकृतः ॥ ११ ॥
गुड़कृतशीधुगुणमाह गौड़ इति ॥ १२ ॥
शर्कराकृतशीधुगुणमाह शार्कर इति। इन्द्रियबोधन इन्द्रि-
यपाटवजनकः ॥ १३ ॥
अयन्तु न गुड़योनिः ॥ १४ ॥
११२ द्रव्यगुणः ।
जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ १५॥
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ।
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ॥१६॥
तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्मनुत् ।
क्रिमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ॥ १७ ॥
निर्दिशेद् द्रव्यतश्चान्यान् कन्दमूलफलासवान् ॥ १८
नवं मद्यमभिष्यन्दि दोषकृज्जीर्णमन्यथा ॥ १६ ॥
जम्बुफलरसगुड़ादिकृतशीधुगुणानाह जाम्बव इति । बद्ध-
निष्यन्दो बद्धमूत्रः । तुवर इति कषायः । तौवर इति पाठे
तौवर इति जाम्बवविशेषणं वदन्ति । जम्बुफलरसतुवरोक्वाथ-
गुड़ादिकृतः शीधुरित्यर्थः ॥ १५ ॥
इदानीं पृथङ्मधुगुड़पिष्टयोनिमद्यान्यभिधाय मध्वादि-
योनिमेलननिष्पाद्यं किञ्चिदौषधयुक्तं मद्यमासवसंज्ञकं निर्दि-
शन्नाह तीक्ष्ण इति । सुरा पौष्टी सैवं यत्र तोयकार्य्यं करोति
स सुरासवः ॥ १६ ॥
मैरेयगुणमाह तीक्ष्ण इति ।
आसवस्य सुरायाश्च द्वयोरेकत्र भाजने ।
सन्धानं तं विजानीयात् मैरेयमुभयाश्रयमिति ॥१७॥
अनुक्तासवगुणज्ञानार्थमाह निर्दिशेदिति । द्रव्यत इति ।
द्रव्यगुणतो वीक्ष्य कन्दाद्युपलक्षणम् । तेन काण्डत्वक्पल्लवा
अपि ग्राह्याः ॥ १८ ॥
मद्यस्याल्पकालत्वादिना अपरिणतस्य तथा चिरकालत्वा-
दिना परिणतस्य दोषगुणानाह नवमिति । जीर्णमिति कालेन
परिपक्वम् ॥ १६ ॥
द्रव्यगुणः । ११३
अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ २० ॥
बहुदोषहरश्चैव रोगाणां शमनश्च सः ।
दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ॥ २१ ॥
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् ।
बुद्ध्वा यथा स्वं संस्कारमवेक्ष्य कुशलो भिषक् ॥ २२ ॥
सान्द्रं विदाहि दुर्गन्धि विरसं क्रिमिलं गुरु ।
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलञ्च यत् ।
तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषञ्च यद्भवेत् ॥ २३ ॥
अरिष्टगुणमाह अरिष्ट इति । अरिष्टशब्देन इक्षुविकारस-
हिताभयाचित्रकदन्तीपिप्पल्यादिभूरिभेषज-क्वाथ्यादिसंस्कारवत्
मद्यमभिधीयते । द्रव्यसंयोग इति अभयाचित्रकादिद्रव्यसंयोगः ।
संस्कारस्तु भेषजक्वाथनभाजनसंस्कारयवराशिस्थापनादिः ॥ २० ॥
अधिकगुणत्वमेवाह बह्विति । बहुदोषहर इत्यस्य भाष्यं
कफवातघ्नः पित्ताविरोधेन इति । नञ् ईषदर्थे । रोगाणां शमन
इत्यस्य तु भाष्यं शूलाध्मानेत्यादि । तेन न पौनरुक्त्यम् । किंवा
शेषार्थमेतद्वचनमित्याहुः । दोषाणां शमन इति पाठेऽपि दोष-
शब्दो रोगवचन एवेति ज्ञेयम् ॥ २१ ॥
अरिष्टप्रसङ्गेनासवशीधूनामपि बहुप्रपञ्चेनेहानुक्तानां गुण-
ज्ञानार्थमाह अरिष्टेति । संस्कारमवेक्ष्येति संस्कारद्रव्यगुणान्
बुद्ध्वा ॥ २२ ॥
यादृशं मद्यं वर्ज्यं तदाह सान्द्रमिति । तरुणमिति मन्द-
११४ द्रव्यगुणः ।
चिरस्थितं जातरसं दीपनं कफवातजित् ।
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥२४॥
शुक्तं वलाशपित्तासृक्क्लेदि वातानुलोमनम् ।
भृशोष्णतीक्ष्णारूक्षाम्लं हृद्यं रुचिकरं सरम् ।
दीपनं शिशिरं स्पर्शे पाण्डुहत्कृमिनाशनम् ॥२५॥
तद्वत्तदास्रुतं सर्वं रोचनन्तु विशेषतः ॥ २६ ॥
गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च ।
जातम् । एतच्चोक्तमपि समुदितदोषाभिधानप्रस्तावात् पुनरु-
च्यते ॥ २३ ॥
सेव्यं यन्मद्यं तदाह चिरस्थितमिति ॥ २४ ॥
आसुतत्वसामान्यात् शुक्तादिगुणकर्मणी दर्शयन्नाह शुक्त-
मिति । शुक्तलक्षणं यथा ।
यन्मस्त्वाद्वि शुचौ भाण्डे सगुड़क्षौद्रकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥
इति । अत्रैव गुड़ादिमानं यथा ।
गुड़माक्षिकधान्याम्लमस्तु च द्विगुणं क्रमात् ।
शुक्तसिद्धार्थमावाप्यं प्रायशः कंटुकञ्च तत् ॥ इति ॥२५॥
शुक्तप्रक्षिप्तकन्दादिषु शुक्तगुणानभिदिशति । तदास्रुत-
मिति । शुक्तसन्धानक्षिप्तमार्द्रककरीरादि तद्वदिति शुक्तसमान-
गुणम् ॥ २६ ॥
शुक्तस्य योनिभेदेन गुणमाह गौडानीति । गौड़ानि गुड़-
प्रकृतित्तशुक्तानि । रसशुक्तानि इक्षुरसकृतशुक्तानि । एतच्छुक्तत्रय-
ज्ञानार्थंपरि भाषा यथा ।
द्रव्यगुणः । ११५
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २७ ॥
काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् ।
भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥
शस्तमास्थापने हृद्यं लघुवातकफापहम् ।
गण्डूषधारणाद्वक्त्रमलदौर्गन्ध्यशोषजित् ॥ २८ ॥
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके ।
क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे ॥ २९ ॥
मूत्रं गोजाविमहिषगजाश्वोष्ट्रखरोद्भवम् ।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥
गुड़ाम्बुना सतैलेन सन्धानं संस्कृतं तु यत् ।
कन्दशाकफलैर्युक्तं गुड़शुक्तं तदुच्यते ॥
इति । गुड़शुक्तवदिक्षुरसशुक्तं ज्ञेयम् ।
जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् ।
मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् ।
त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् ॥ इति ॥ २७ ॥
काञ्जिकगुणमाह काञ्जिकमिति । पित्तकरस्यापि काञ्जि-
कस्य दाहशमकत्वं यत् सुश्रुतेनोक्तं तत् स्पर्शेनैव ज्ञेयम् । अन्ये
तु यथा तक्रं कण्ठे कफं करोति उदरे तु हन्ति प्रभावात् तद्व-
दवापि पित्तकरस्यापि काञ्जिकस्य दाहहरत्वं प्रभावेणैव ज्ञेय-
मित्याहुः ॥ २८ ॥
सौवीरतुषोदकयोर्गुणमाह एभिरिति । वितुषयवकृतं सौ-
वीरं सतुषयवक्षतं तुषोदकम् ॥ २९ ॥
द्रव्यपारिशेष्यान्मूत्राण्याह मूत्रमिति । अत्र व्यवहारसिद्ध-
११६ द्रव्यगुणः।
क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान् ।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥
दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम् ॥ ३० ॥
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ॥
गुल्मशूलोदरानाहविरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ ३१ ॥
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ३२॥
कटु तिक्तान्वितं छागमौष्ण्यमारुतकोपनम् ॥ ३३ ॥
सक्षारतिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ ३४ ॥
आश्वं कफहरं मूत्रं वातचेतोविकारनुत् ॥ ३५॥
तीक्ष्णं क्षारे किलासे च नागमूत्रं प्रयोजयेत् ॥३६
त्वात् लोके वेदे च धेनुमूत्रमेव गृह्यते न तु वलीवर्दस्य। अन्ये
तु शुक्रसम्बन्धेन गुरुत्वात् पुङ्गवमूत्रं न ग्राह्यमित्याहुः । तन्न।
शुक्रसम्बन्धस्य स्त्रीष्वपि प्रसक्तत्वात्। अपरे तु स्त्रीमूत्रं लघु-
त्वात् ग्राह्यमित्याहुः । तदप्ययुक्तं येन सेकादौ वाते च मूत्रस्य
गौरवमप्युपयुक्तं तस्माद्यथोक्तमेव श्रेय इति ॥ ३० ॥
सामान्यगुणमभिधाय तेषां विशिष्टगुणमाह गोमूत्रमिति ।
अविशिष्टमूत्रप्रयोगे गव्यमूत्रमेव ग्राह्यमित्यर्थः ॥ ३१ ॥
अविशुद्धिर्वमनादीनाम् ॥ ३२ ॥
चेतोविकार उन्मादापस्मारौ ॥ ३५ ॥
द्रव्यगुणः । ११७
दीपनं गार्दभं मूत्रं गरचेतोविकारनुत् ॥ ३७ ॥
अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम् ॥ ३८ ॥
इति मद्यादिवर्गः ।
विधिना कृत आहारः प्रीणनो धातुपोषकः ।
स्मृत्यायुःपुष्टिवर्णौजःसत्त्वोत्साहविवर्द्धनः ॥ १ ॥
ओदनः चालितः स्विन्नः प्रस्रुतो विषदो लघुः ।
क्षार इति क्षारापाके ॥ ३६ ॥
कारभमित्यौष्ट्रम् । मानुषमूत्रमवहृविषयतया उद्वेगेनानुक्त-
मपि विषहन्तृतया अशून्यताथं पठ्यते ॥ ३८ ॥
इति मद्यादिवर्गः ।
इदानीमुक्तानामेव धान्यादीनां संस्कारविशेषाद्दितं गुण-
मभिधातुं कृतान्नवर्ग आरभ्यते । कृतं करणनिष्पादितं यदन्न-
पेयामण्डादि । ते च पेयादीनां गुणाः संस्कारसंयोगादिजाः
केचित् प्रकृता अपि । न च वाच्यं पेयादीनामिव गुणेन बाधित-
त्वात् शूकधान्यादीनां पृथग्गुणकथनमुक्तमिति । यतः पेया-
दयो हि प्रकृतिगुणानुविधायिनः सन्तो गुणमावहन्ति तेन यः
कृतान्नस्य गुण उच्यते स यदि रक्तशाल्यादिप्रकृतावपि स्यात्
तदा बलवान् स्यात् अथ विपरीतगुणः स्यात् तदा कृतान्नगुण-
स्याल्पत्वं स्यादिति एषोऽर्थः प्रागेव प्रपञ्चित इति नेहोच्यते ।
अत्राहारसामान्यगुणमाह विधिनेत्यादि । विधिनेति वक्ष्यमाण-
विधिना ॥ १ ॥
११८ द्रव्यगुणः ।
भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद् गुरुश्च सः ॥२॥
मण्डस्तु भूरिदोषघ्नो दीपनोऽनिलनाशनः ।
ज्वरहा परमो बल्यः स्वेदनो मार्गशोधनः ॥३॥
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।
वातानुलोमनो हृद्यः पिप्पलीनागरान्वितः ॥४॥
आहारगुणमभिधाय ओदनस्य प्रायेण सर्वजनोपयोज्यत्वात्
प्रथमं तद्गुणमाह ओदन इति । क्षालित इति प्रक्षालिततण्डुल-
कृतः । स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः । किं वा सम्यक्
स्विन्नत्वेन मृदुभूतः प्रस्रुत इति प्रस्रावितद्रवभागः । विशद
इति स्वभावेन । तथा कण्डनेन च शुक्लं यत्तण्डुलं तत्कृतः
एवम्भूत ओदनो लघुर्भवति । भृष्टतण्डुलजस्तु अत्यर्थं लघुः ।
अन्यथा इति क्षालितादिविपर्य्ययो गुरुर्भवतीत्यर्थः ॥ २ ॥
मण्डगुणमाह मण्ड इति । मार्गशोधन इति स्रोतःशुद्धि-
करः ॥ ३ ॥
अत्र पाचनत्वं मण्डस्य दोषशेषं विना नोपपद्यते । सम्यक्
शुद्धौ च दोषशेषो नोपपद्यते इति विरोधं पश्यन् अकारप्रश्लेषा-
दविशुद्धानां पाचन इति कश्चिदाह । तन्न चरकविरोधात् ।
तत्र हि क्षुत्पिपासापहः पथ्यः शुद्धानान्तु मलापह इत्युक्तम् । न
च तत्रापि शुद्धानां मलापह इत्यनुपपत्त्या शुद्धानामित्यस्य ईष-
च्छुद्धानामित्यर्थो व्याख्येय इति वाच्यम् । सम्यक् शुद्धानामपि
घृतभाण्डावलेपन्यायेन कोष्ठोपलेपकदोषापहत्वेन मलापह-
त्वोपपत्तेः । तस्मात् सुश्रुतेऽपि यत् पाचनत्वमुक्तं लाजमण्डस्य
तत् सति दोषशेषे इति ज्ञेयम् । सम्यक् शुद्धौ च पथ्यत्वदीप-
द्रव्यगुणाः । ११८
पेया स्वेदाग्निजननी वातवर्चोऽनुलोमनी ।
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ ५ ॥
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥ ६ ॥
यवागूज्ज्वरतृष्णाघ्नी लघ्वीवस्तिविशोधनी ॥ ७ ॥
सिक्थकैरहितो मण्डः पेया सिक्थसमन्विता ।
नत्वाभ्यामेवास्योपयोगः । अपि च । मण्डोऽप्यतिद्रवा पेयेव ।
सा च ईषद्विशुद्धे निषिद्धा । यथा ।
कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके ।
तर्पणादिक्रमः कार्य्यः पेयाभिष्यन्दयेद्धितान् ॥
तेनाकारप्रश्लेषो न युक्त इति ॥ ४ ॥
द्विधा हि यवागूः पेयाविलेपीभेदात् । तत्र पेयागुणमाह
पेयेति ॥ ५ ॥
विलेपीगुणमाह विलेपीति ॥ ६ ॥
विशिष्टयवागूगुणमभिधाय यवागूसामान्यगुणमाह यवागू-
रिति ॥ ७ ॥
उक्तानामिव मण्डादीनां लक्षणमाह सिक्थकैरिति । तत्र
द्रवसिक्थसमन्विता यवागूरिति यवागूसामान्यलक्षणम् । सा च
द्विविधा पेयाविलेपीभेदात् । मण्डस्तु यवाग्वा एवोपरितनो
भागो न तु पृथङ्मण्डः साध्यते । आयुर्वेदशास्त्रे अदर्शितत्वात् ।
यस्तु क्वचिन्मण्डगुणो मण्डोपयोगो वा श्रूयते सोऽप्येवंरूप एव
बोध्यः । ननु मण्डो हि चतुर्दशगुणजलसाध्यः यवागूस्तु षड्-
गुणसाध्या । यदुक्तम् ।
अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।