सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 126, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 126

११८ द्रव्यगुणः ।
भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद् गुरुश्च सः ॥२॥
मण्डस्तु भूरिदोषघ्नो दीपनोऽनिलनाशनः ।
ज्वरहा परमो बल्यः स्वेदनो मार्गशोधनः ॥३॥
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।
वातानुलोमनो हृद्यः पिप्पलीनागरान्वितः ॥४॥
आहारगुणमभिधाय ओदनस्य प्रायेण सर्वजनोपयोज्यत्वात्
प्रथमं तद्गुणमाह ओदन इति । क्षालित इति प्रक्षालिततण्डुल-
कृतः । स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः । किं वा सम्यक्
स्विन्नत्वेन मृदुभूतः प्रस्रुत इति प्रस्रावितद्रवभागः । विशद
इति स्वभावेन । तथा कण्डनेन च शुक्लं यत्तण्डुलं तत्कृतः
एवम्भूत ओदनो लघुर्भवति । भृष्टतण्डुलजस्तु अत्यर्थं लघुः ।
अन्यथा इति क्षालितादिविपर्य्ययो गुरुर्भवतीत्यर्थः ॥ २ ॥
मण्डगुणमाह मण्ड इति । मार्गशोधन इति स्रोतःशुद्धि-
करः ॥ ३ ॥
अत्र पाचनत्वं मण्डस्य दोषशेषं विना नोपपद्यते । सम्यक्
शुद्धौ च दोषशेषो नोपपद्यते इति विरोधं पश्यन् अकारप्रश्लेषा-
दविशुद्धानां पाचन इति कश्चिदाह । तन्न चरकविरोधात् ।
तत्र हि क्षुत्पिपासापहः पथ्यः शुद्धानान्तु मलापह इत्युक्तम् । न
च तत्रापि शुद्धानां मलापह इत्यनुपपत्त्या शुद्धानामित्यस्य ईष-
च्छुद्धानामित्यर्थो व्याख्येय इति वाच्यम् । सम्यक् शुद्धानामपि
घृतभाण्डावलेपन्यायेन कोष्ठोपलेपकदोषापहत्वेन मलापह-
त्वोपपत्तेः । तस्मात् सुश्रुतेऽपि यत् पाचनत्वमुक्तं लाजमण्डस्य
तत् सति दोषशेषे इति ज्ञेयम् । सम्यक् शुद्धौ च पथ्यत्वदीप-