सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

॥ श्रीः ॥
श्रीधनंजयविरचितं
दशरूपकम् ।
धनिककृतयावलोकाख्यया व्याख्यया समेतम् ।
प्रथमः प्रकाशः ।
इह सदाचारं प्रमाणयद्भिर्निर्विघ्नेन प्रकरणस्य समाप्त्यर्थमिष्टयोः प्रकृताभि-
मतदेवतयोर्नमस्कारः क्रियते श्लोकद्वयेन—
नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन घनध्वानो निबिड-
ध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः ।
अत्र खण्डश्लेषाक्षिष्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य ताण्डवे
यथा मेघध्वनिः पुष्करायत इति प्रतीतेः ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ २ ॥
एकत्र मत्स्यकूर्मादिप्रतिमानामुद्देशेन, अन्यत्रानुकृतिरूपनाटकादिना यस्य
भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति तस्मै विष्णवेऽभिमताय प्रकृताय
भरताय च नमः ॥
श्रोतुः प्रवृत्तिनिमित्तं प्रदर्श्यते—
कस्यचिदेव कदाचिद्द्यया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ ३ ॥
तं कंचिद्विषयं प्रकरणादिरूपं कदाचिदेव कस्यचिदेव कवेः सरस्वती योज-
यति । येन प्रकरणादिना विषयेणान्यो जनो विदग्धो भवति ॥
स्वप्रवृत्तिविषयं दर्शयति—
उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि-
श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किंतु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि॥४॥
यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार
करणाङ्गहारानकरोत्, हरस्ताण्डवमुद्धतं नृत्तं कृतवान्, लास्यं सुकुमारं नृत्तं

[Header: २ दशरूपकं [ प्रकाशः १ ]

पार्वती कृतवती, तस्य सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य तु
दशरूपस्य संक्षेपः क्रियत इत्यर्थः ॥
विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—
व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ ५ ॥
व्याकीर्णे विक्षिप्ते विस्तीर्णे च रसशास्त्रे मन्दबुद्धीनां पुंसां मतिमोहो भवति,
तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ॥
इदं प्रकरणं दशरूपज्ञानफलम् । दशरूपं किंफलमित्याह—
आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादुपराङ्मुखाय ॥६॥
तत्र केचित् 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं
च साधुकाव्यनिषेवणम् ॥' ( भामहः ) इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वे-
नेच्छन्ति तन्निरासेन स्वसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां फलम् ,
न पुनरितिहासादिवत्त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठम् ॥
'नाट्यानां लक्षणं संक्षिपामि' ( १।४ ) इत्युक्तम् , किं पुनस्तन्नाट्यमित्याह—
अवस्थानुकृतिर्नाट्यं
काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन तादात्म्यापत्तिर्ना-
ट्यम् ॥
रूपं दृश्यतयोच्यते ।
तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ॥
रूपकं तत्समारोपाद्
नटे रामाद्यवस्थारोपेण वर्तमानत्वाद्रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्त-
मानस्य शब्दत्रयस्य 'इन्द्रः पुरन्दरः शक्रः' इतिवत्प्रवृत्तिनिमित्तभेदो दर्शितः ॥
दशधैव रसाश्रयम् ॥ ७ ॥
रसानाश्रित्य वर्तमानं दशप्रकारकम् । एवेत्यवधारणं शुद्धाभिप्रायेण, नाटिकायाः
संकीर्णत्वेन वक्ष्यमाणत्वात् ॥
तानेव दशभेदानुद्दिशति—
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ ८ ॥
ननु, 'डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः । काव्यं च सप्त नृत्यस्य
भेदाः स्युस्तेऽपि भाणवत् ॥' इति रूपकान्तराणामपि भावादवधारणानुपप-
त्तिरित्याशङ्क्याह—

श्लो० ५–११] अवलोकसमेतम् । ३
अन्यद्भावाश्रयं नृत्यं
रसाश्रयान्नाट्याद्भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभे-
दान्नृत्यमिति नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात्तत्कारिषु च नर्तकव्यपदे-
शाल्लोकेऽपि चात्र प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेद-
लाच्छ्रीगदितादेरवधारणोपपत्तिः । नाटकादि च रसविषयम् । रसस्य च
पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थहेतुकत्वाद्व्याक्यार्थाभिनयात्मकत्वं रसा-
श्रयमित्यनेन दर्शितम् । नाट्यमिति च ‘नट अवस्पन्दने’ इति नटेः किंचि-
च्चलनार्थत्वात्सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । यथा च
गात्रविक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्तादन्यन्नृत्यं तथा वाक्यार्थाभि-
नयात्मकान्नाट्यात्पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ॥
प्रसङ्गान्नृत्तं व्युत्पादयति—
नृत्तं ताललयाश्रयम् ।
तालः=चञ्चत्पुटादिः, लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशन्यो
नृत्तमिति ॥
अनन्तरोक्तं द्वितयं व्याचष्टे—
आद्यं पदार्थाभिनयो मार्गो देशी तथा परम् ॥ ९ ॥
नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं च देशीति ॥
द्विविधस्यापि द्वैविध्यं दर्शयति—
मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १० ॥
सुकुमारं द्वयमपि लास्यम्, उद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्योप-
योगं दर्शयति—तच्च नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवान्तरपदार्थाभि-
नयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ॥
अनुकारात्मकत्वेन रूपाणामभेदात्किंकृतो भेद इत्याशङ्क्याह—
वस्तु नेता रसस्तेषां भेदको
वस्तुभेदान्नायकभेदाद्रसभेदाद्रूपाणामन्योन्यं भेद इति ॥
वस्तुभेदमाह—
वस्तु च द्विधा ।
कथमित्याह—
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ ११ ॥
प्रधानभूतमाधिकारिकम् । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं
प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ॥

४ दशरूपकं [ प्रकाशः १
निरुत्याधिकारिकं लक्षयति—
अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्याधिकारिकम् ॥ १२ ॥
फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, तेनाधिकारेणाधि-
कारिणा वा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ॥
प्रासङ्गिकं व्याचष्टे—
प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्स्वप्रयोजनसिद्धिस्तत्प्रासङ्गिकमि-
तिवृत्तं प्रसङ्गनिर्वृत्तेः ॥
प्रासङ्गिकमपि पताका-प्रकरीभेदाद्द्विविधमित्याह—
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १३ ॥
दूरं यदनुवर्तते प्रासङ्गिकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवा-
साधारणनायकचिह्नवत्तादुपकारित्वात् । यदल्पं सा प्रकरी, श्रवणादिवृत्ता-
न्तवत् ॥
पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति—
प्रस्तुतागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् ।
पताकास्थानकं तुल्यसंविधानविशेषणम् ॥ १४ ॥
प्राकरणिकस्य भाविनोऽर्थस्य सूचकं रूपं पताकावद्भवतीति पताकास्थान-
कम् । तच्च तुल्येतिवृत्ततया तुल्यविशेषणतया च द्विप्रकारम्,—अन्योक्तिसमा-
सोक्तिभेदात् । यथा रत्नावल्याम् ( ३।६ )—
‘यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥’
यथा च तुल्यविशेषणतया,—
‘उद्दामोत्कलिकां विपाण्डुरुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥’ ( रत्ना० २।४ )
एवमाधिकारिकद्विविधप्रासङ्गिकभेदात्त्रिविधस्यापि त्रैविध्यमाह—
प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तन्त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ॥ १५ ॥
मिश्रं च संकरात्ताभ्यां दिव्यमर्त्यादिभेदतः ।
इति निगदव्याख्यातम् ॥
१ ‘अतिव्यापि’ इति पाठः. २ ‘अविरतैः’ इति पाठः । ३ ‘नान्तो’, ‘त्रेधा’
इति पाठौ.

१. प्रथम प्रकाश: वस्तु (कथावस्तु) भेद, पञ्च अर्थप्रकृति, पञ्च कार्य-अवस्था व पञ्च सन्धि

तस्येतिवृत्तस्य किं फलमित्याह—
कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ॥ १६ ॥
धर्मार्थकामाः फलम् । तच्च शुद्धमेकैकमेकानुबन्धं द्वित्र्यनुबन्धं वा ॥
तत्साधनं व्युत्पादयति—
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
स्तोकोद्दिष्टः कार्यसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद्बी-
जम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायण-
व्यापारो विष्कम्भके न्यस्तः—यौगंधरायणः—कः संदेहः । (‘द्वीपादन्य-
स्माद्’ (१।६) इति पठति ।) इत्यादिना ‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ’
(१।७) इत्यन्तेन ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुधिष्ठिरोत्साहो
बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ॥
अवान्तरबीजस्य संज्ञान्तरमाह—
अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम् ॥ १७ ॥
यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्त-
रकार्यहेतुः—‘उदयनस्येन्दोरिवोद्दीक्षते । सागरिका—(श्रुत्वा ।) कंहं एसो
सो उदयणणरिंदो जस्स अहं तादेण दिण्णा ।’ (रत्ना० १।२३) इत्यादि ।
विन्दुर्जले तैलविन्दुवत्प्रसारित्वात् ॥
इदानीं पताकार्यं प्रसङ्गाद्व्युत्क्रमोक्तं क्रमार्थमुपसंहरन्नाह—
बीजविन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १८ ॥
:अर्थप्रकृतयः=प्रयोजनसिद्धिहेतवः ॥
अन्यदवस्थापञ्चकमाह—
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १९ ॥
यथोद्देशं लक्षणमाह—
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
‘इदमहं संपादयामि’ इत्यध्यवसायमात्रमारम्भ इत्युच्यते । यथा रत्नाव-
ल्याम् (१।७)—‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे ।’
इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भो यौगंधरायणमुखेन दर्शितः ॥
अथ प्रयत्नः—
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ २० ॥
तस्य फलस्याप्राप्तावुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्नावल्या-
मालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—‘तँहावि णत्थि अण्णो दंसणु-
१ ‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया. २ ‘दैवे-
नेत्थं’ इति पाठः । ३ ‘तथापि नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथा
समीहितं करिष्यामि ।’ इति च्छाया.

वाओ त्ति जहा तहा आलिहिअ जधासमीहिअं करिस्सं ।' ( रत्ना० पृ० ५४ )
इत्यादिना प्रतिपादितः ॥
प्राप्त्याशामाह—
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।
उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा । यथा
रत्नावल्यां तृतीयेऽङ्के (पृ० १४४) वेषपरिवर्ताभिसरणादौ समागमोपाये सति
वासवदत्तालक्षणापायशङ्कायाः— '१एवं यदि आआलवादाली विअ आअच्छिअ
अण्णदो ण णइस्सदि वासवदत्ता ।' इत्यादिना दर्शितत्वादनिर्धारितैकान्ता
ममागमप्राप्तिरुक्ता ॥
नियताप्तिमाह—
अपायभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ॥ २१ ॥
अपायाभावदवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति । यथा रत्नावल्याम्—
'विदूषकः— २साअगरिआ दुक्करं जीविस्सदि ।' ( पृ० १३८ ) इत्युपक्रम्य,— ३'किं
ण उवायं चिंतेसि ।' ( पृ० १३९ ) इत्यनन्तरम्,—'राजा—वयस्य, देवीप्रसादनं
मुक्त्वा नान्यमत्रोपायं पश्यामि ।' ( पृ० १३९ ) इत्यनन्तराङ्गार्थबिन्दुनानेन देवी-
लक्षणापायस्य प्रसादेन निवारणान्नियता फलप्राप्तिः सूचिता ॥
फलयोगमाह—
समग्रफलसंपत्तिः फलयोगो यथोदितः ।
यथा रत्नावल्यां रत्नावलीलाभचक्रवर्तित्वावाप्तिरिति ॥
संधिलक्षणमाह—
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ॥ २२ ॥
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ।
अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभिर्योगाद्यथासंख्येनैव
वक्ष्यमाणा मुखाद्याः पञ्च संधयो जायन्ते ॥
संधिसामान्यलक्षणमाह—
अन्तरैकार्थसंबन्धः संधीरेकान्वये सति ॥ २३ ॥
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ॥
के पुनस्ते संधयः—
मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।
यथोद्देशं लक्षणमाह—
मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ २४ ॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।
१ 'एवं यदि अकालवातालीवागत्यान्यतो न नेष्यति वासवदत्ता ।' इति च्छाया.
२ 'सागरिका दुष्करं जीविष्यति ।' इति च्छाया. ३. 'किं नोपायं चिन्तयसि ।'
इति च्छाया. ४ 'संश्रया' इति पाठः.

, why did I see something strange?
Ah, under the repha/i-matra, it is just:
स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥
Let's look at it again:
'स्व' 'व्या' 'पा' 'र' 'दै' 'व' 'यो' 'र्नि' 'ष्प' 'त्ति' 'मु' 'क्त' 'वा' 'नि' 'ति' 'प' 'रि' 'न्या' 'सः' ॥
Yes! It is completely normal:
स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥
There is nothing weird there at all! It is simply "स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः ॥".

Now let's check line 35 again:
"हेलनुराग..." vs "हेत्वनुराग..." vs "हेतुनुराग...":
Wait, let's look at line 35 very carefully:
First word:
Look at the mark: under 'हे', there is an underline. That's a pencil stroke from a reader.
Then the characters:
Wait, could it be 'ल' 'नु' 'रा' 'ग'?
Yes, it is printed as "हेलनुराग" or "हेत्वनुराग"?
Wait, why would NSP print "हेलनुराग"?
Could it be "हेत्वनुराग"?
Wait, look

[हेडर: ८ | दशरूपकं | [ प्रकाशः १ ]

यथा च वेणीसंहारे ( १।२२ )—
'मन्थास्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥'
इत्यादिना 'यशोदुन्दुभिः' ( १।२५ ) इत्यन्तेन द्रौपद्या विलोभनाद्विलोभनमिति ॥
अथ युक्तिः—
संप्रधारणमर्थानां युक्तिः
यथा रत्नावल्याम् (पृ० १५)—'मयापि चैनां देवीहस्ते सबहुमानं निक्षिपता
युक्तमेवानुष्ठितम् । कथितं च मया यथा वाभ्रव्यः कञ्चुकी सिंहलेश्वरमात्येन
वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतस्य रुमण्वतो
घटितः।' इत्यनेन सागरिकाया अन्तःपुरस्थाया वत्सराजस्य सुखेन दर्शनादि-
प्रयोजनावधारणाद्वाभ्रव्यसिंहलेश्वरमात्ययोः स्वनायकसमागमहेतुप्रयोजनत्वेनाव-
धारणाद्युक्तिरिति ॥
अथ प्राप्तिः—
प्राप्तिः सुखागमः ।
यथा वेणीसंहारे (पृ० १९)—'चेटी—भट्टिणि, परिकुविदो विअ कुमारो
लक्खीअदि ।' इत्युपक्रमे,—'भीमः—
मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥ (१।१५)
द्रौपदी—( श्रुत्वा सहर्षम् ) णाध, अस्सुदपुव्वं खु एदं वअणं । ता पुणो
पुणो भण ।' (वे० सं० १९) इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः
प्राप्तिरिति । यथा च रत्नावल्याम् (पृ० ४६)—'सागरिका—(श्रुत्वा सहर्षं
परिवृत्य सस्पृहं पश्यन्ती ।) कधं अअं सो राआ उदयणो जस्स अहं तादेण
दिण्णा । ता परप्पेसण दूसिदं मे जीविदं एदस्स दंसणेण बहुमदं संजादं ।' इति
सागरिकायाः सुखागमात्प्राप्तिरिति ॥
अथ समाधानम्—
बीजागमः समाधानं
यथा रत्नावल्याम् (पृ० ३८)—'वासवदत्ता—तेणें हि उअणेहि मे


१ 'भर्त्रि, परिकुपित इव कुमारो लक्ष्यते ।' इति च्छाया. २ 'नाथ अश्रुतपूर्वं
खल्वेतद्वचनम् । तत्पुनः पुनर्भग ।' इति च्छाया. ३ 'कथमयं स राजोदयनो यस्याहं
तातेन दत्ता । तत्परप्रेषणदूषितं मे जीवितमेतस्य दर्शनेन बहुमतं संजातम् ।' इति
च्छाया. ४ 'तेन ह्युपनय मे उपकरणानि ।' इति च्छाया.

श्लो० २८ ] अवलोकसमेतम् । ९
उवअरणाईं । सागरिका—१भट्टिणि, एदं सव्वं सज्जं । वासवदत्ता—
(निरूप्यात्मगतम्।) २अहो पमादो परिअणस्स । जस्स एव्व दंसणपहादो पअत्तेण
रक्खीअदि तस्स जेव कहं दिट्ठिगोअरं आददा । भोदु । एव्वं दाव । (प्रकाशम् ।)
हञ्जे सागरिए, कीस तुमं अज पराहीणे परिअणे मअणूसवे सारिअं मोत्तूण
इहागदा । ता तहिं जेव गच्छ ।' इत्युपक्रमे,—'सागरिका—( स्वगतम् ।)
३सारिआ दाव मए सुसंगदाए हत्थे समप्पिदा । पेक्खिदुं च मे कुतूहलं । ता
अलक्खिआ पेक्खिस्सं ।' ( रत्ना० पृ० ३९) इत्यनेन वासवदत्ताया रत्नावलीवत्स-
राजयोर्दर्शनप्रतीकारात्सारिकायाः सुसंगतार्पणेनालक्षितप्रेक्षणेन च वत्सराजसमा-
गमहेतो

१० दशरूपकं [ प्रकाशः १
अथ परिभावना—
परिभावोऽद्भुतावेशः
यथा रत्नावल्याम् (पृ० ४४)—'सागरिका—(दृष्ट्वा सविस्मयम् ।) कधं१
पच्चक्खो जेव अणंगो पूअं पडिच्छेदिता । अहंपि इध ठिदा जेव णं पूजइस्सं ।'
इत्यनेन वत्सराजस्यानङ्गरूपतयापह्नवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोको-
त्तरत्वाद्भुतरसावेशः परिभावना ।
यथा च वेणीसंहारे (पृ० ३०)—'द्रौपदी—किं२ दाणिं एसो पलअजलध-
रत्थणिदमंसलो खणे खणे समरदुंदुभी ताडीअदि त्ति ।' इति लोकोत्तरसमरदुन्दु-
भिध्वनेर्विस्मयरसावेशाद्रौपद्याः परिभावना ॥
अथोद्भेदः—
उद्भेदो गूढभेदनम् ।
यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा 'अस्ता-
पास्त-' (१।२३) इत्यादिना 'उदयनस्य-' इत्यन्तेन बीजानुगुण्येनैवोद्भेदना-
दुद्भेदः ।
यथा च वेणीसंहारे (पृ० २९)—'आर्य, किमिदानीमभ्यवस्यति गुरुः ।'
इत्युपक्रमे '(नेपथ्ये ।)
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद्द्युतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः
क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ ( १।२४)
भीमः—(सहर्षम् ।) जृम्भतां जृम्भतां संप्रत्यप्रतिहतमार्यस्य क्रोधज्योतिः ।'
इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधस्योद्भेदः ॥
अथ करणम्—
करणं प्रकृतारम्भो
यथा रत्नावल्याम् (पृ० ४४)—'३णमो दे कुसुमाउह, ता अमोहदंसणो मे
भविस्ससि त्ति दिट्ठं जं पेक्खिदव्वं । ता जाव ण को वि मं पेक्खइ ता
गमिस्सं ।' इत्यनेनान्तराङ्कप्रकृतनिर्वृत्तदर्शनान्तरारम्भणात्करणम् ।
यथा च वेणीसंहारे (पृ० ३१)—'तत्पाञ्चालि, गच्छामो वयमिदानीं कुरुकुल-
क्षयाय' । सहदेवः—'आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता विक्रमानुरूपमा-
चरितुम् ।' इत्यनेनानन्तराङ्कप्रस्तूयमानसंग्रामारम्भणात्करणमिति । सर्वत्र चेहो-
देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ॥
१ 'कथं प्रत्यक्ष एवानङ्गः पूजां प्रतिच्छेदिता । अहमपीहास्थितैवैनं पूजयिष्यामि ।'
इति च्छाया. २ 'किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभि-
स्ताड्यते ।' इति च्छाया. ३ 'नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति ।
दृष्टं यत्प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तद्गमिष्यामि ।' इति च्छाया.

न्यासविक्रान्तपत्तौ । Wait, look atपदन्यास: Is it पदन्यास? Let's read: प-द-न्या-स. Yes, पदन्यास`.

  • Line 8 (L9):
    स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे
    स्फी-ता-सृ-क्-पा-न-गो-ष्ठी-र-स-द-शि-व-शि-वा-तू-र्य-नृ-त्य-त्-क-व-न्धे
    Wait: रसदशिवशिवा?
    Veṇīsaṃhāra 1.27:
    स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे (or त्कवन्धे).
    Here it's त्कवन्धे (व).

  • Line 9 (L10):
    संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥'
    Notice the single quote at the end: ॥'

  • Line 10 (L11):
    `इत्यनेन विषण्णाया द्रौपद्याः क्रोधोत्साहबीजानुगुण्येनैव प्रोत्साहनाद्भेद इति ॥

१२ दशरूपकं [ प्रकाशः १
विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः प्रेंगमनं निरोधः पर्युपासनम् ॥ ३१ ॥
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।
यथोद्देशं लक्षणमाह—
रैत्यर्थेहा विलासः स्याद्
यथा रत्नावल्याम्—'सागरिका—हिअैअ, पसीद पसीद । किं इमिणा
आआसमेत्तफलेण दुल्लहजणप्पत्थणाणुबन्धेण ।' इत्युपक्रमे,-'तँहावि आलेख्वगदं
णं जगं कडुअ जधासमीहिदं करिस्सं । तथावि तस्स णत्थि अण्णो दंसणोवा-
उ त्ति ।' इत्येतैर्वत्सराजसमागमरतिं चित्रादिजन्यामुद्दिश्य सागरिकायाश्चेष्टा-
प्रयत्नोऽनुरागबीजानुगतो विलास इति ॥
अथ परिसर्पः—
दृष्टनष्टानुसर्पणम् ॥ ३२ ॥
परिसर्पों
यथा वेणीसंहारे( २।२ )—'कञ्चुकी—योऽयमुद्यतेषु बलवत्सु, अथवा किं
बलवत्सु, वासुदेवसहायेष्वरिष्वव्याप्यन्तःपुरसुखमनुभवति । इदमपरमयथातथं
स्वामिनः,—
आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने-
स्तापायास न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयभ्रान्तस्य चैकाकिनो
बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥'
इत्यनेन भीष्मादिवधे दृष्टस्याभिमन्युवधाच्चादृष्टस्य वलवतां पाण्डवानां वासुदेवस-
हायानां सङ्ग्रामलक्षणविन्दुवीजप्रयत्नान्वयेन कञ्चकिमुखे बीजानुसर्पणं परि-
सर्प इति ।
यथा च रत्नावल्यां सारिकावचनचित्रदर्शनाभ्यां सागरिकानुरागबीजस्य
दृष्टनष्टस्य 'क्कासौ क्कासौ' इत्यादिना वत्सराजेनानुमरणात्परिसर्प इति ॥
अथ विधूतम्—
विधूतं स्यादरतिस्
यथा रत्नावल्याम् (पृ० ६२)—'सागरिका—सँहि, अहिअं मे संतावो बाधेदि ।
( सुसङ्गता दीर्घिकातो नलिनीदलानि मृणालिकाश्चानीयास्या अङ्गे ददाति । ) साग-
१ 'प्रगयणम्' इति पाठः. २ 'रत्युत्येहा' इति पाठः. ३ 'हृदय, प्रसीद
प्रसीद । किमनेनायासमात्रफलेन दुर्लभजनप्रार्थनानुबन्धेन ।' इति च्छाया. ४ 'तथा-
प्यालेख्यगतं तं जनं कृत्वा यथासमीहितं करिष्यामि । तथापि तस्य नास्त्यन्यो दर्शनो-
पाय इति ।' इति च्छाया. ५ 'सखि, अधिकं मे संतापो बाधते ।' इति च्छाया.

wait, is there a space around parentheses?
In line 2: रिका—( तानि क्षिपन्ती । ) संहि, अवणेहि एदाईं । किं अआरणे अत्ताणं
Wait, look at ( तानि क्षिपन्ती । ):
Is the closing parenthesis right after क्षिपन्ती ।? Yes, ( तानि क्षिपन्ती । )
Wait, look at किं अआरणे:
किं अआरणे अत्ताणं
Line 3:
आयासेसि ? णं भणामि,—
Line 4:
दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा ।
Line 5:
पिअसहि विसमं पेम्मं मरणं सरणं णवर एक्कं ॥१’ ( रत्ना० २।१ )
Line 6:
इत्यनेन सागरिकाया बीजान्वयेन शीतोपचारविधूननात् विधूतम् ।
Line 7:
यथा च वेणीसंहारे ( पृ० ४१-५१ ) भानुमत्या दुःखप्रदर्शनेन दुर्योधनस्या-
Line 8:
निष्टशङ्कया पाण्डवविजयशङ्कया वा रतेः विधूननमिति ॥
Line 9:
अथ शमः—
Line 10:

नानुरागबीजोद्घाट-
Wait, look at भङ्गीपद्विहस्य in line 3:
Wait, is it भङ्गीपद्विहस्य or भङ्गीमुद्विहस्य or भङ्गीषद्विहस्य or भङ्गीपद्विहस्य?
Look at the characters:
भ - ङ्गी - ? - द्वि - ह - स्य
Look at the third character:
It's ष? No, look at षद्विहस्य!
Wait, "सभ्रूभङ्गीषद्विहस्य" -> सभ्रूभङ्गी + ईषत् + विहस्य = सभ्रूभङ्गीषद्विहस्य!
Yes! ईषद्विहस्य -> षद्विहस्य!
Wait, look at the letter: is it ष?
It is ष! A प with a diagonal cross-stroke inside: ष!
So: भङ्गीषद्विहस्य ।)
Yes, "सभ्रूभङ्गीषद्विहस्य" (smiling slightly with a knit of the eyebrow). Exactly: सभ्रूभङ्गी + ईषद्विहस्य = सभ्रूभङ्गीषद्विहस्य!

Wait, let's look at इत्यनेनानुरागबीजोद्घाट-:
Line 3 ends with: `इत्यनेनानुराग

श्लो० ३४-३५ ] अवलोकसमेतम् । १५
अथ पुष्पम्—
पुष्पं वाक्यं विशेषवत् ॥ ३४ ॥
यथा रत्नावल्याम् (पृ० ९७)—'(राजा सागरिकां हस्ते गृहीत्वा स्पर्शं
नाटयति ।) विदूषकः—१भो एसा अपुव्वा सिरी तुए समासादिदा ।
राजा—वयस्य, सत्यम्,—
श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष खेदच्छद्मामृतद्रवः ॥' (२।१८)
इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुगोद्घाटनात् पुष्पम् ॥
अथोपन्यासः—
२उपन्यासस्तु सोपायं
यथा रत्नावल्याम् (पृ० ९३)—'सुसङ्गता—३भट्टा, अलं संकाए । मए वि
भट्ठिणो पसाएण कीलिदं एव्व । ता किं कण्णाभरणकेण । अदो वि मे गरुओ
पसाओ, जं कीस

१६ दशरूपकं [ प्रकाशः १
एतानि च त्रयोदश प्रतिमुखसन्ध्यङ्गानि मुखसंध्युपक्षिप्तविन्दुलक्षणावान्तरबीज-
महाबीजप्रयत्नानुगतानि विधेयानि । एतेषां च मध्ये परिसर्पप्रशमवज्रोपन्यास-
पुष्पाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति ॥
अथ गर्भसंधिमाह—
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान्न वा स्यात्प्राप्तिसंभवः ॥ ३६ ॥
प्रतिमुखसंधौ लक्ष्यालक्ष्यतयो स्तोकोद्भिन्नस्य बीजस्य सविशेषोद्भेदपूर्वकः
सान्तरायो लाभः पुनर्विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं
वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याद्यात्मको गर्भसंधिरिति । तत्र चौत्सर्गि-
कत्वेन प्राप्तायाः पताकाया अनियमं दर्शयति—‘पताका स्यान्न वा’ इत्यनेन ।
प्राप्तिसंभवस्तु स्यादेवेति दर्शयति—‘स्यात्’ इति । यथा रत्नावल्यां तृतीयेऽङ्के
वत्सराजस्य वासवदत्तालक्षणापायेन तद्वेषपरिग्रहसागरिकाभिसरणोपायेन च
विदूषकवचसा सागरिकाप्राप्त्याशा प्रथमं पुनर्वासवदत्तया विच्छेदः पुनः प्राप्तिः
पुनर्विच्छेदः पुनरपायनिवारणोपायान्वेषणं (रत्ना० पृ० १३९) ‘नास्ति देवी-
प्रसादनं मुक्त्वाऽन्य उपायः’ इत्यनेन दर्शितमिति ॥
स च द्वादशाङ्गो भवति, तान्युद्दिशति—
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
संग्रहश्चानुमानं च तोटकाधिबले तथा ॥ ३७ ॥
उद्वेगसंभ्रमाक्षेपा लक्षणं च प्रणीयते ।
यथोद्देशं लक्षणमाह—
अभूताहरणं छद्म
यथा रत्नावल्याम् (पृ० १०९)—१‘साधु रे अमच्च वसंतअ, साधु । अदिसइदो
तुए अमच्चो जोगंधराअणो इमाए संधिविग्गहचिंताए ।’ इत्यादिना प्रवेशकेन
गृहीतवासवदत्तावेषायाः सागरिकाया वत्सराजाभिसरणं छद्म विदूषकसुसङ्गता-
कृतकाञ्चनमालानुवादद्वारेण दर्शितमिति अभूताहरणम् ॥
अथ मार्गः—
मार्गस्तत्त्वार्थकीर्तनम् ॥ ३८ ॥
यथा रत्नावल्याम् (पृ० ११६)—‘विदूषकः—२दिट्ठिआ वड्ढसि समीहिदब्भ-
धिकाए कज्जसिद्धीए । राजा—वयस्य, कुशलं प्रियायाः ? विदूषकः—३अइरेण
सअं जेव्व पेक्खिअ जाणिहिसि । राजा—दर्शनमपि भविष्यति ? विदूषकः—
१ ‘साधु रे अमात्य वसन्तक, साधु । अतिशयितस्त्वयामात्यो यौगन्धरायणो-
ऽनया संधिविग्रहचिन्तया ।’ इति च्छाया । २ ‘दिष्ट्या वर्धसे समीहिताभ्यधिकया
कार्यसिद्ध्या ।’ इति च्छाया । ३ ‘अचिरेण स्वयमेव प्रेक्ष्य ज्ञास्यसि ।’ इति च्छाया ।

श्लो० ३६-३९] अवलोकसमेतम् । १७
(सगर्वम् ।) कीस^१ ण भविस्सदि, जस्स दे उवहसिदविहप्फदिवुद्धिबिहवो अहं
अमच्चो । राजा—तथापि कथमिति श्रोतुमिच्छामि । विदूषकः—( कर्णे कथ-
यति ।) ऐव्वं^२ ।' इत्यनेन यथा विदूषकेण सागरिकासमागमः सूचितः, तथैव
निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थकथनात् मार्ग इति ॥
अथ रूपम्—
रूपं वितर्कवद्वाक्यं
यथा रत्नावल्याम् (पृ० १२४)—‘राजा—अहो किमपि कामिजनस्य
स्वगृहिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः । तथा हि,—
प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता
घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो
रमयतितरां संकेतस्था तथापि हि कामिनी ॥ ( ३।९ )
कथं चिरयति वसन्तकः ? किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः ।'
इत्यनेन रत्नावलीसमागमप्राप्त्याशानुगुण्येनैव देवीशङ्कायाश्च वितर्कात् रूपमिति ॥
अथोदाहरणम्—
सोत्कर्षं स्यादुदाहृतिः ।
यथा रत्नावल्याम् (पृ० ११५)—'विदूषकः—(सहर्षम् ।) हीँ^३ ही भोः,
कोसबीरज्जलाहेणावि ण तादिसो वअस्सस्स परितोसो आसि, यादिसो मम सआ-
सादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि ।' इत्यनेन रत्नावलीप्राप्तिवा-
र्तापि कौशाम्बीराज्यलाभादतिरिच्यत इत्युत्कर्षाभिधानात् उदाहृतिरिति ॥
अथ क्रमः—
क्रमः संचिन्त्यमानाप्तिर्
यथा रत्नावल्याम् (पृ० १२८)—‘राजा—उपनतप्रियासमागमोत्सवस्यापि
मे किमिदमत्यर्थमुत्ताम्यति चेतः । अथवा,—
तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः॥ ( ३।१० )
विदूषकः—( आकर्ण्य ।) भोदि^४ सागरिए, एसो पिअवअस्सो तुमं जेव उद्दि-
सिअ उक्कं ठाणिब्भरं मंतेदि । ता णिवेदेमि से तुहागमणं ।' इत्यनेन वत्सरा-
जस्य सागरिकासमागममभिलषत एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः ॥

१ 'कथं ण भविष्यति, यस्य त उपहसितबृहस्पतिबुद्धिबिभवोऽहमात्यः ।' इति
च्छाया. २ 'एवम्' इति च्छाया. ३ 'ही ही भोः, कौशाम्बीराज्यलाभेनपि
न तादृशो वयस्यस्य परितोष आसीत्, यादृशो मम सकाशात्प्रियवचनं श्रुत्वा
भविष्यतीति तर्कयामि ।' इति च्छाया. ४ 'भवति सागरिके, एष प्रियवयस्यस्त्वामे-
वोद्दिश्योत्कण्ठानिर्भरं मन्त्रयति । तन्निवेदयामि तस्मै तवागमनम् ।' इति च्छाया.

(३।११)
L9: इत्यादिना 'इह तदप्यस्त्येव बिम्बाधरे ।' (३।१३) इत्यन्तेन वासवदत्तया
L10: वत्सराजभावस्य ज्ञातत्वात् क्रमान्तरमिति ॥
L11: अथ संग्रहः—
L12: संग्रहः सामदानोक्तिर्
L13: यथा रत्नावल्याम् (पृ० ११७)—'साधु वयस्य, साधु । इदं ते पारितोषिकं
L14: कटकं ददामि ।' इत्याभ्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः
L15: संग्रहात् संग्रह इति ॥
L16: अथानुमानम्—
L17: अभ्यूहो लिङ्गतोऽनुमा ।
L18: यथा रत्नावल्याम् (पृ० १३७)—'राजा—धिक् मूर्ख, त्वत्कृत एवायमा-
L19: पतितोऽस्माकमनर्थः । कुतः,—
L20: समारूढा प्रीतिः प्रणयबहुमानात्प्रतिदिनं
L21: व्यलीकं वीक्ष्येहं कृतमकृतपूर्वं खलु मया ।
L22: प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ
L23: प्रकृष्टस्य प्रेम्णः स्खलितम

श्लो० ३९-४१ ] अवलोकसमेतम् । १९
अथ तोटकम्—
संरब्धं तोटकं वचः ॥ ४० ॥
यथा रत्नावल्याम् (पृ० १४७)—वासवदत्ता—(उपसृत्य ।) १अज्जउत्त,
जुत्तमिणं सरिसमिणं । (पुनः सरोषम् ।) अज्जउत्त, उट्ठेहि । किं अज्जवि
आदिजाईए सेवादुक्खमणुभवीअदि । कंचणमाले, एदेण जेव पासेण बंधिअ
आणेहि एगं दुट्ठवम्हणं । एदं पि दुट्ठकण्णअं अग्गदो करेहि । इत्यनेन वासवद-
त्तासंरब्धवचसा सागरिकासमागमान्तरायभूतेनानियतप्राप्तिकारणं तोटकमुक्तम् ॥
यथा च वेणीसंहारे (३।३४)—
‘प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशाम् ।’
इत्यादिना,
‘धृतायुधो यावदहं तावदन्यैः किमायुधैः ।’ (३।४६)
इत्यन्तेनान्योन्यं कर्णश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिणा पाण्डवविजय-
प्राप्त्याशान्वितं तोटकमिति ॥
ग्रन्थान्तरे तु—
तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः ।
यथा रत्नावल्याम् (पृ० १३५)—‘राजा—देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः
किं विज्ञापयामि,—
आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
क्रोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥’
(३।१४)
संरब्धवचनं यत्तु तोटकं तदुदाहृतम् ॥ ४१ ॥
यथा रत्नावल्याम् (पृ० १३४)—‘राजा—प्रिये वासवदत्ते, प्रसीद प्रसीद ।
वासवदत्ता—(अश्रूणि धारयन्ती ।) २अज्जउत्त, मा एवं भण । अण्णसं-
कंताई खु एदाई अक्खराई ति ।’
यथा च वेणीसंहारे (पृ० १०५)—‘राजा—अये सुन्दरक, कच्चित्कुशलमङ्ग-
राजस्य ? पुरुषः—३कुसलं सरीरमेत्तकेण । राजा—किं तस्य किरीटिना हता
धौरेयाः, क्षत्तः सारथिः, भग्नो वा रथः ? पुरुषः—४देवे, ण भग्गो रहो ।
भग्गो से मणोरहो । राजा—(ससंभ्रमम् ।) कथम् ?’ इत्येवमादिना
संरब्धवचसा तोटकमिति ॥
१ ‘आर्यपुत्र, युक्तमिदं सदृशमिदम् । आर्यपुत्र, उत्तिष्ठ । किमद्याप्यभिजात्याः सेवा-
दुःखमनुभूयते । काञ्चनमाले, एतेनैव पाशेन बद्ध्वानयैनं दुष्टब्राह्मणम् । एतामपि दुष्टक-
न्यकामग्रतः कुरु ।’ इति च्छाया. २ ‘आर्यपुत्र, मैवं भण । अन्यसंक्रान्तानि खल्वे-
तान्यक्षराणीति ।’ इति च्छाया. ३ ‘कुशलं शरीरमात्रकेण ।’ इति च्छाया. ४ ‘देव, न
भग्नो रथः । भग्नोऽस्य मनोरथः ।’ इति च्छाया.

२० दशरूपकं [ प्रकाशः १
अथोद्वेगः—
उद्वेगोऽरिकृता भीतिः
यथा रत्नावल्याम् (पृ० १४९)—'सागरिका—(आत्मगतम् ।) कहं
अकिदपुण्णेहिं अत्तणो इच्छाइए मरिउं पि ण पारीअदि ।' इत्यनेन वासवदत्तातः
सागरिकाया भयमिति उद्वेगः । यो हि यस्यापकारी स तस्यारिः ।
यथा च वेणीसंहारे (पृ० ९६)—'सूतः—(श्रुत्वा सभयम् ।) कथमासन्न
एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च महाराजः ।
भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यो दुःशासन इवास्मिन्न-
प्यनार्यमाचरिष्यति ।' इत्यरिकृता भीतिरुद्वेगः ॥
अथ संभ्रमः—
शङ्कात्रासौ च संभ्रमः ।
यथा रत्नावल्याम् (पृ० १४१)—'विदूषकः—(पश्यन् ।) को उण एसा ।
(ससंभ्रमम् ।) कथं देवी वासवदत्ता अत्ताणं वावादेदि । राजा—(ससंभ्रम-
मुपसर्पन् ।) कासौ कासौ ।' इत्यनेन वासवदत्तावुद्धिगृहीतायाः सागरिकाया
मरणशङ्कया संभ्रम इति ।
यथा च वेणीसंहारे (पृ० ९३)—'(नेपथ्ये कलकलः ।) अश्वत्थामा—
(ससंभ्रमम् ।) मातुल मातुल, कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं
शरवर्षैर्दुर्योधनराधेयावभिद्रवति । सर्वथा पीतं शोणितं दुःशासनस्य भीमेन ।'
इति शङ्का । तथा '(प्रविश्य संभ्रान्तः सप्रहारः) सूतः—त्रायतां त्रायतां
कुमारः ।' इति त्रासः । इत्येताभ्यां त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां
पाण्डवविजयप्राप्त्याशान्वितः संभ्रम इति ॥ .—
अथाक्षेपः—
गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ ४२ ॥
यथा रत्नावल्याम्(पृ० १३९)—'राजा—वयस्य, देवीप्रसादनं मुक्त्वा नान्य-
मत्रोपायं पश्यामि ।' पुनः क्रमान्तरे (पृ० १४८) 'सर्वथा देवीप्रसादनं प्रति
निष्प्रत्याशीभूताः स्मः ।' पुनः (पृ० १५०) 'तत्किमिह स्थितेन देवीमेव गत्वा
प्रसाद्यामि ।' इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भबीजोद्भेदा-
दाक्षेपः ।
यथा च वेणीसंहारे(पृ० १०३)—'सुन्दरकः—अहवा किमेत्थ देव्वं उआल-
हामि । तस्स क्खु एदं णिब्भच्छिदविदुरवणबीअस्स परिभूदपिदामहहिदोवदेसं-
१ 'कथमकृतपुण्यैरात्मन इच्छया मर्तुमपि न पार्यते ।' इति च्छाया. २ 'का
पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति ।' इति च्छाया. ३ 'अथवा
किमत्र दैवमुपालभे । तस्य खल्वेतन्निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामहहि-
तोपदेशाङ्कुरस्य शकुनिप्रोत्साहनारूढमूलस्य कूटविषशाखिनः पाञ्चालीकेशग्रहणकुसु-
मस्य फलं परिणमति ।' इति च्छाया.