सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 15, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 15

४ दशरूपकं [ प्रकाशः १
निरुत्याधिकारिकं लक्षयति—
अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्याधिकारिकम् ॥ १२ ॥
फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, तेनाधिकारेणाधि-
कारिणा वा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ॥
प्रासङ्गिकं व्याचष्टे—
प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्स्वप्रयोजनसिद्धिस्तत्प्रासङ्गिकमि-
तिवृत्तं प्रसङ्गनिर्वृत्तेः ॥
प्रासङ्गिकमपि पताका-प्रकरीभेदाद्द्विविधमित्याह—
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १३ ॥
दूरं यदनुवर्तते प्रासङ्गिकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवा-
साधारणनायकचिह्नवत्तादुपकारित्वात् । यदल्पं सा प्रकरी, श्रवणादिवृत्ता-
न्तवत् ॥
पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति—
प्रस्तुतागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् ।
पताकास्थानकं तुल्यसंविधानविशेषणम् ॥ १४ ॥
प्राकरणिकस्य भाविनोऽर्थस्य सूचकं रूपं पताकावद्भवतीति पताकास्थान-
कम् । तच्च तुल्येतिवृत्ततया तुल्यविशेषणतया च द्विप्रकारम्,—अन्योक्तिसमा-
सोक्तिभेदात् । यथा रत्नावल्याम् ( ३।६ )—
‘यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥’
यथा च तुल्यविशेषणतया,—
‘उद्दामोत्कलिकां विपाण्डुरुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥’ ( रत्ना० २।४ )
एवमाधिकारिकद्विविधप्रासङ्गिकभेदात्त्रिविधस्यापि त्रैविध्यमाह—
प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तन्त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ॥ १५ ॥
मिश्रं च संकरात्ताभ्यां दिव्यमर्त्यादिभेदतः ।
इति निगदव्याख्यातम् ॥
१ ‘अतिव्यापि’ इति पाठः. २ ‘अविरतैः’ इति पाठः । ३ ‘नान्तो’, ‘त्रेधा’
इति पाठौ.