सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 30, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 30

श्लो० ३९-४१ ] अवलोकसमेतम् । १९
अथ तोटकम्—
संरब्धं तोटकं वचः ॥ ४० ॥
यथा रत्नावल्याम् (पृ० १४७)—वासवदत्ता—(उपसृत्य ।) १अज्जउत्त,
जुत्तमिणं सरिसमिणं । (पुनः सरोषम् ।) अज्जउत्त, उट्ठेहि । किं अज्जवि
आदिजाईए सेवादुक्खमणुभवीअदि । कंचणमाले, एदेण जेव पासेण बंधिअ
आणेहि एगं दुट्ठवम्हणं । एदं पि दुट्ठकण्णअं अग्गदो करेहि । इत्यनेन वासवद-
त्तासंरब्धवचसा सागरिकासमागमान्तरायभूतेनानियतप्राप्तिकारणं तोटकमुक्तम् ॥
यथा च वेणीसंहारे (३।३४)—
‘प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशाम् ।’
इत्यादिना,
‘धृतायुधो यावदहं तावदन्यैः किमायुधैः ।’ (३।४६)
इत्यन्तेनान्योन्यं कर्णश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिणा पाण्डवविजय-
प्राप्त्याशान्वितं तोटकमिति ॥
ग्रन्थान्तरे तु—
तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः ।
यथा रत्नावल्याम् (पृ० १३५)—‘राजा—देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः
किं विज्ञापयामि,—
आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
क्रोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥’
(३।१४)
संरब्धवचनं यत्तु तोटकं तदुदाहृतम् ॥ ४१ ॥
यथा रत्नावल्याम् (पृ० १३४)—‘राजा—प्रिये वासवदत्ते, प्रसीद प्रसीद ।
वासवदत्ता—(अश्रूणि धारयन्ती ।) २अज्जउत्त, मा एवं भण । अण्णसं-
कंताई खु एदाई अक्खराई ति ।’
यथा च वेणीसंहारे (पृ० १०५)—‘राजा—अये सुन्दरक, कच्चित्कुशलमङ्ग-
राजस्य ? पुरुषः—३कुसलं सरीरमेत्तकेण । राजा—किं तस्य किरीटिना हता
धौरेयाः, क्षत्तः सारथिः, भग्नो वा रथः ? पुरुषः—४देवे, ण भग्गो रहो ।
भग्गो से मणोरहो । राजा—(ससंभ्रमम् ।) कथम् ?’ इत्येवमादिना
संरब्धवचसा तोटकमिति ॥
१ ‘आर्यपुत्र, युक्तमिदं सदृशमिदम् । आर्यपुत्र, उत्तिष्ठ । किमद्याप्यभिजात्याः सेवा-
दुःखमनुभूयते । काञ्चनमाले, एतेनैव पाशेन बद्ध्वानयैनं दुष्टब्राह्मणम् । एतामपि दुष्टक-
न्यकामग्रतः कुरु ।’ इति च्छाया. २ ‘आर्यपुत्र, मैवं भण । अन्यसंक्रान्तानि खल्वे-
तान्यक्षराणीति ।’ इति च्छाया. ३ ‘कुशलं शरीरमात्रकेण ।’ इति च्छाया. ४ ‘देव, न
भग्नो रथः । भग्नोऽस्य मनोरथः ।’ इति च्छाया.