दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 29, कुल 168 में से
संदर्भ में पढ़ें(३।११)
L9: इत्यादिना 'इह तदप्यस्त्येव बिम्बाधरे ।' (३।१३) इत्यन्तेन वासवदत्तया
L10: वत्सराजभावस्य ज्ञातत्वात् क्रमान्तरमिति ॥
L11: अथ संग्रहः—
L12: संग्रहः सामदानोक्तिर्
L13: यथा रत्नावल्याम् (पृ० ११७)—'साधु वयस्य, साधु । इदं ते पारितोषिकं
L14: कटकं ददामि ।' इत्याभ्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः
L15: संग्रहात् संग्रह इति ॥
L16: अथानुमानम्—
L17: अभ्यूहो लिङ्गतोऽनुमा ।
L18: यथा रत्नावल्याम् (पृ० १३७)—'राजा—धिक् मूर्ख, त्वत्कृत एवायमा-
L19: पतितोऽस्माकमनर्थः । कुतः,—
L20: समारूढा प्रीतिः प्रणयबहुमानात्प्रतिदिनं
L21: व्यलीकं वीक्ष्येहं कृतमकृतपूर्वं खलु मया ।
L22: प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ
L23: प्रकृष्टस्य प्रेम्णः स्खलितम