दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 14, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ५–११] अवलोकसमेतम् । ३
अन्यद्भावाश्रयं नृत्यं
रसाश्रयान्नाट्याद्भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभे-
दान्नृत्यमिति नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात्तत्कारिषु च नर्तकव्यपदे-
शाल्लोकेऽपि चात्र प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेद-
लाच्छ्रीगदितादेरवधारणोपपत्तिः । नाटकादि च रसविषयम् । रसस्य च
पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थहेतुकत्वाद्व्याक्यार्थाभिनयात्मकत्वं रसा-
श्रयमित्यनेन दर्शितम् । नाट्यमिति च ‘नट अवस्पन्दने’ इति नटेः किंचि-
च्चलनार्थत्वात्सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । यथा च
गात्रविक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्तादन्यन्नृत्यं तथा वाक्यार्थाभि-
नयात्मकान्नाट्यात्पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ॥
प्रसङ्गान्नृत्तं व्युत्पादयति—
नृत्तं ताललयाश्रयम् ।
तालः=चञ्चत्पुटादिः, लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशन्यो
नृत्तमिति ॥
अनन्तरोक्तं द्वितयं व्याचष्टे—
आद्यं पदार्थाभिनयो मार्गो देशी तथा परम् ॥ ९ ॥
नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं च देशीति ॥
द्विविधस्यापि द्वैविध्यं दर्शयति—
मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १० ॥
सुकुमारं द्वयमपि लास्यम्, उद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्योप-
योगं दर्शयति—तच्च नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवान्तरपदार्थाभि-
नयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ॥
अनुकारात्मकत्वेन रूपाणामभेदात्किंकृतो भेद इत्याशङ्क्याह—
वस्तु नेता रसस्तेषां भेदको
वस्तुभेदान्नायकभेदाद्रसभेदाद्रूपाणामन्योन्यं भेद इति ॥
वस्तुभेदमाह—
वस्तु च द्विधा ।
कथमित्याह—
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ ११ ॥
प्रधानभूतमाधिकारिकम् । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं
प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ॥