दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 12, कुल 168 में से
संदर्भ में पढ़ें॥ श्रीः ॥
श्रीधनंजयविरचितं
दशरूपकम् ।
धनिककृतयावलोकाख्यया व्याख्यया समेतम् ।
प्रथमः प्रकाशः ।
इह सदाचारं प्रमाणयद्भिर्निर्विघ्नेन प्रकरणस्य समाप्त्यर्थमिष्टयोः प्रकृताभि-
मतदेवतयोर्नमस्कारः क्रियते श्लोकद्वयेन—
नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन घनध्वानो निबिड-
ध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः ।
अत्र खण्डश्लेषाक्षिष्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य ताण्डवे
यथा मेघध्वनिः पुष्करायत इति प्रतीतेः ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ २ ॥
एकत्र मत्स्यकूर्मादिप्रतिमानामुद्देशेन, अन्यत्रानुकृतिरूपनाटकादिना यस्य
भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति तस्मै विष्णवेऽभिमताय प्रकृताय
भरताय च नमः ॥
श्रोतुः प्रवृत्तिनिमित्तं प्रदर्श्यते—
कस्यचिदेव कदाचिद्द्यया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ ३ ॥
तं कंचिद्विषयं प्रकरणादिरूपं कदाचिदेव कस्यचिदेव कवेः सरस्वती योज-
यति । येन प्रकरणादिना विषयेणान्यो जनो विदग्धो भवति ॥
स्वप्रवृत्तिविषयं दर्शयति—
उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि-
श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किंतु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि॥४॥
यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार
करणाङ्गहारानकरोत्, हरस्ताण्डवमुद्धतं नृत्तं कृतवान्, लास्यं सुकुमारं नृत्तं