सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 16, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 16

तस्येतिवृत्तस्य किं फलमित्याह—
कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ॥ १६ ॥
धर्मार्थकामाः फलम् । तच्च शुद्धमेकैकमेकानुबन्धं द्वित्र्यनुबन्धं वा ॥
तत्साधनं व्युत्पादयति—
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
स्तोकोद्दिष्टः कार्यसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद्बी-
जम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायण-
व्यापारो विष्कम्भके न्यस्तः—यौगंधरायणः—कः संदेहः । (‘द्वीपादन्य-
स्माद्’ (१।६) इति पठति ।) इत्यादिना ‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ’
(१।७) इत्यन्तेन ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुधिष्ठिरोत्साहो
बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ॥
अवान्तरबीजस्य संज्ञान्तरमाह—
अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम् ॥ १७ ॥
यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्त-
रकार्यहेतुः—‘उदयनस्येन्दोरिवोद्दीक्षते । सागरिका—(श्रुत्वा ।) कंहं एसो
सो उदयणणरिंदो जस्स अहं तादेण दिण्णा ।’ (रत्ना० १।२३) इत्यादि ।
विन्दुर्जले तैलविन्दुवत्प्रसारित्वात् ॥
इदानीं पताकार्यं प्रसङ्गाद्व्युत्क्रमोक्तं क्रमार्थमुपसंहरन्नाह—
बीजविन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १८ ॥
:अर्थप्रकृतयः=प्रयोजनसिद्धिहेतवः ॥
अन्यदवस्थापञ्चकमाह—
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १९ ॥
यथोद्देशं लक्षणमाह—
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
‘इदमहं संपादयामि’ इत्यध्यवसायमात्रमारम्भ इत्युच्यते । यथा रत्नाव-
ल्याम् (१।७)—‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे ।’
इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भो यौगंधरायणमुखेन दर्शितः ॥
अथ प्रयत्नः—
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ २० ॥
तस्य फलस्याप्राप्तावुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्नावल्या-
मालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—‘तँहावि णत्थि अण्णो दंसणु-
१ ‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया. २ ‘दैवे-
नेत्थं’ इति पाठः । ३ ‘तथापि नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथा
समीहितं करिष्यामि ।’ इति च्छाया.