दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 13, कुल 168 में से
संदर्भ में पढ़ें[Header: २ दशरूपकं [ प्रकाशः १ ]
पार्वती कृतवती, तस्य सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य तु
दशरूपस्य संक्षेपः क्रियत इत्यर्थः ॥
विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—
व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ ५ ॥
व्याकीर्णे विक्षिप्ते विस्तीर्णे च रसशास्त्रे मन्दबुद्धीनां पुंसां मतिमोहो भवति,
तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ॥
इदं प्रकरणं दशरूपज्ञानफलम् । दशरूपं किंफलमित्याह—
आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादुपराङ्मुखाय ॥६॥
तत्र केचित् 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं
च साधुकाव्यनिषेवणम् ॥' ( भामहः ) इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वे-
नेच्छन्ति तन्निरासेन स्वसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां फलम् ,
न पुनरितिहासादिवत्त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठम् ॥
'नाट्यानां लक्षणं संक्षिपामि' ( १।४ ) इत्युक्तम् , किं पुनस्तन्नाट्यमित्याह—
अवस्थानुकृतिर्नाट्यं
काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन तादात्म्यापत्तिर्ना-
ट्यम् ॥
रूपं दृश्यतयोच्यते ।
तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ॥
रूपकं तत्समारोपाद्
नटे रामाद्यवस्थारोपेण वर्तमानत्वाद्रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्त-
मानस्य शब्दत्रयस्य 'इन्द्रः पुरन्दरः शक्रः' इतिवत्प्रवृत्तिनिमित्तभेदो दर्शितः ॥
दशधैव रसाश्रयम् ॥ ७ ॥
रसानाश्रित्य वर्तमानं दशप्रकारकम् । एवेत्यवधारणं शुद्धाभिप्रायेण, नाटिकायाः
संकीर्णत्वेन वक्ष्यमाणत्वात् ॥
तानेव दशभेदानुद्दिशति—
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ ८ ॥
ननु, 'डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः । काव्यं च सप्त नृत्यस्य
भेदाः स्युस्तेऽपि भाणवत् ॥' इति रूपकान्तराणामपि भावादवधारणानुपप-
त्तिरित्याशङ्क्याह—