दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
DevanagariHindipublished168 पृष्ठ
पृष्ठ 28, कुल 168 में से
संदर्भ में पढ़ेंपृष्ठ 28श्लो० ३६-३९] अवलोकसमेतम् । १७
श्लो० ३६-३९] अवलोकसमेतम् । १७
(सगर्वम् ।) कीस^१ ण भविस्सदि, जस्स दे उवहसिदविहप्फदिवुद्धिबिहवो अहं
अमच्चो । राजा—तथापि कथमिति श्रोतुमिच्छामि । विदूषकः—( कर्णे कथ-
यति ।) ऐव्वं^२ ।' इत्यनेन यथा विदूषकेण सागरिकासमागमः सूचितः, तथैव
निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थकथनात् मार्ग इति ॥
अथ रूपम्—
रूपं वितर्कवद्वाक्यं
यथा रत्नावल्याम् (पृ० १२४)—‘राजा—अहो किमपि कामिजनस्य
स्वगृहिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः । तथा हि,—
प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता
घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो
रमयतितरां संकेतस्था तथापि हि कामिनी ॥ ( ३।९ )
कथं चिरयति वसन्तकः ? किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः ।'
इत्यनेन रत्नावलीसमागमप्राप्त्याशानुगुण्येनैव देवीशङ्कायाश्च वितर्कात् रूपमिति ॥
अथोदाहरणम्—
सोत्कर्षं स्यादुदाहृतिः ।
यथा रत्नावल्याम् (पृ० ११५)—'विदूषकः—(सहर्षम् ।) हीँ^३ ही भोः,
कोसबीरज्जलाहेणावि ण तादिसो वअस्सस्स परितोसो आसि, यादिसो मम सआ-
सादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि ।' इत्यनेन रत्नावलीप्राप्तिवा-
र्तापि कौशाम्बीराज्यलाभादतिरिच्यत इत्युत्कर्षाभिधानात् उदाहृतिरिति ॥
अथ क्रमः—
क्रमः संचिन्त्यमानाप्तिर्
यथा रत्नावल्याम् (पृ० १२८)—‘राजा—उपनतप्रियासमागमोत्सवस्यापि
मे किमिदमत्यर्थमुत्ताम्यति चेतः । अथवा,—
तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः॥ ( ३।१० )
विदूषकः—( आकर्ण्य ।) भोदि^४ सागरिए, एसो पिअवअस्सो तुमं जेव उद्दि-
सिअ उक्कं ठाणिब्भरं मंतेदि । ता णिवेदेमि से तुहागमणं ।' इत्यनेन वत्सरा-
जस्य सागरिकासमागममभिलषत एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः ॥
१ 'कथं ण भविष्यति, यस्य त उपहसितबृहस्पतिबुद्धिबिभवोऽहमात्यः ।' इति
च्छाया. २ 'एवम्' इति च्छाया. ३ 'ही ही भोः, कौशाम्बीराज्यलाभेनपि
न तादृशो वयस्यस्य परितोष आसीत्, यादृशो मम सकाशात्प्रियवचनं श्रुत्वा
भविष्यतीति तर्कयामि ।' इति च्छाया. ४ 'भवति सागरिके, एष प्रियवयस्यस्त्वामे-
वोद्दिश्योत्कण्ठानिर्भरं मन्त्रयति । तन्निवेदयामि तस्मै तवागमनम् ।' इति च्छाया.