सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 21, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 21

१० दशरूपकं [ प्रकाशः १
अथ परिभावना—
परिभावोऽद्भुतावेशः
यथा रत्नावल्याम् (पृ० ४४)—'सागरिका—(दृष्ट्वा सविस्मयम् ।) कधं१
पच्चक्खो जेव अणंगो पूअं पडिच्छेदिता । अहंपि इध ठिदा जेव णं पूजइस्सं ।'
इत्यनेन वत्सराजस्यानङ्गरूपतयापह्नवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोको-
त्तरत्वाद्भुतरसावेशः परिभावना ।
यथा च वेणीसंहारे (पृ० ३०)—'द्रौपदी—किं२ दाणिं एसो पलअजलध-
रत्थणिदमंसलो खणे खणे समरदुंदुभी ताडीअदि त्ति ।' इति लोकोत्तरसमरदुन्दु-
भिध्वनेर्विस्मयरसावेशाद्रौपद्याः परिभावना ॥
अथोद्भेदः—
उद्भेदो गूढभेदनम् ।
यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा 'अस्ता-
पास्त-' (१।२३) इत्यादिना 'उदयनस्य-' इत्यन्तेन बीजानुगुण्येनैवोद्भेदना-
दुद्भेदः ।
यथा च वेणीसंहारे (पृ० २९)—'आर्य, किमिदानीमभ्यवस्यति गुरुः ।'
इत्युपक्रमे '(नेपथ्ये ।)
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद्द्युतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः
क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ ( १।२४)
भीमः—(सहर्षम् ।) जृम्भतां जृम्भतां संप्रत्यप्रतिहतमार्यस्य क्रोधज्योतिः ।'
इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधस्योद्भेदः ॥
अथ करणम्—
करणं प्रकृतारम्भो
यथा रत्नावल्याम् (पृ० ४४)—'३णमो दे कुसुमाउह, ता अमोहदंसणो मे
भविस्ससि त्ति दिट्ठं जं पेक्खिदव्वं । ता जाव ण को वि मं पेक्खइ ता
गमिस्सं ।' इत्यनेनान्तराङ्कप्रकृतनिर्वृत्तदर्शनान्तरारम्भणात्करणम् ।
यथा च वेणीसंहारे (पृ० ३१)—'तत्पाञ्चालि, गच्छामो वयमिदानीं कुरुकुल-
क्षयाय' । सहदेवः—'आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता विक्रमानुरूपमा-
चरितुम् ।' इत्यनेनानन्तराङ्कप्रस्तूयमानसंग्रामारम्भणात्करणमिति । सर्वत्र चेहो-
देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ॥
१ 'कथं प्रत्यक्ष एवानङ्गः पूजां प्रतिच्छेदिता । अहमपीहास्थितैवैनं पूजयिष्यामि ।'
इति च्छाया. २ 'किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभि-
स्ताड्यते ।' इति च्छाया. ३ 'नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति ।
दृष्टं यत्प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तद्गमिष्यामि ।' इति च्छाया.