सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 31, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 31

२० दशरूपकं [ प्रकाशः १
अथोद्वेगः—
उद्वेगोऽरिकृता भीतिः
यथा रत्नावल्याम् (पृ० १४९)—'सागरिका—(आत्मगतम् ।) कहं
अकिदपुण्णेहिं अत्तणो इच्छाइए मरिउं पि ण पारीअदि ।' इत्यनेन वासवदत्तातः
सागरिकाया भयमिति उद्वेगः । यो हि यस्यापकारी स तस्यारिः ।
यथा च वेणीसंहारे (पृ० ९६)—'सूतः—(श्रुत्वा सभयम् ।) कथमासन्न
एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च महाराजः ।
भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यो दुःशासन इवास्मिन्न-
प्यनार्यमाचरिष्यति ।' इत्यरिकृता भीतिरुद्वेगः ॥
अथ संभ्रमः—
शङ्कात्रासौ च संभ्रमः ।
यथा रत्नावल्याम् (पृ० १४१)—'विदूषकः—(पश्यन् ।) को उण एसा ।
(ससंभ्रमम् ।) कथं देवी वासवदत्ता अत्ताणं वावादेदि । राजा—(ससंभ्रम-
मुपसर्पन् ।) कासौ कासौ ।' इत्यनेन वासवदत्तावुद्धिगृहीतायाः सागरिकाया
मरणशङ्कया संभ्रम इति ।
यथा च वेणीसंहारे (पृ० ९३)—'(नेपथ्ये कलकलः ।) अश्वत्थामा—
(ससंभ्रमम् ।) मातुल मातुल, कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं
शरवर्षैर्दुर्योधनराधेयावभिद्रवति । सर्वथा पीतं शोणितं दुःशासनस्य भीमेन ।'
इति शङ्का । तथा '(प्रविश्य संभ्रान्तः सप्रहारः) सूतः—त्रायतां त्रायतां
कुमारः ।' इति त्रासः । इत्येताभ्यां त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां
पाण्डवविजयप्राप्त्याशान्वितः संभ्रम इति ॥ .—
अथाक्षेपः—
गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ ४२ ॥
यथा रत्नावल्याम्(पृ० १३९)—'राजा—वयस्य, देवीप्रसादनं मुक्त्वा नान्य-
मत्रोपायं पश्यामि ।' पुनः क्रमान्तरे (पृ० १४८) 'सर्वथा देवीप्रसादनं प्रति
निष्प्रत्याशीभूताः स्मः ।' पुनः (पृ० १५०) 'तत्किमिह स्थितेन देवीमेव गत्वा
प्रसाद्यामि ।' इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भबीजोद्भेदा-
दाक्षेपः ।
यथा च वेणीसंहारे(पृ० १०३)—'सुन्दरकः—अहवा किमेत्थ देव्वं उआल-
हामि । तस्स क्खु एदं णिब्भच्छिदविदुरवणबीअस्स परिभूदपिदामहहिदोवदेसं-
१ 'कथमकृतपुण्यैरात्मन इच्छया मर्तुमपि न पार्यते ।' इति च्छाया. २ 'का
पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति ।' इति च्छाया. ३ 'अथवा
किमत्र दैवमुपालभे । तस्य खल्वेतन्निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामहहि-
तोपदेशाङ्कुरस्य शकुनिप्रोत्साहनारूढमूलस्य कूटविषशाखिनः पाञ्चालीकेशग्रहणकुसु-
मस्य फलं परिणमति ।' इति च्छाया.