बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
४४६ बृहत्संहिता
यदि कुत्ता गमन करने वाले के दोनों पाँवों को सूंघे तो यात्रा का निषेध करता है।
यदि वहीं पर गमन करने वाला निश्चल होकर स्थित हो जाय तो अभीष्ट अर्थ की सिद्धि
करता है तथा यदि एक स्थान में स्थित गमन करने वाले के जूते को सूँघे तो शीघ्र यात्रा
को सूचित करता है।।१२।।
सारमेयः श्वा यायिनो गच्छतः पादौ चरणौ जिघ्रेत् तदाऽयात्रां गमननिषेधं प्राह कथयति।
निश्चलस्य तत्र स्थितस्यैव वाञ्छितामभीष्टामर्थप्राप्तिं धनागमं प्राह। स्थानस्थितस्यैक-
देशस्थितस्योपानहौ चेद्यदि विजिघ्रेत् तदा क्षिप्रमाश्वेव यात्रां गमनं करोति।।१२।।
अन्यदप्याह—
उभयोरपि जिघ्रणे हि बाह्वोर्विज्ञेयो रिपुचौरसम्प्रयोगः ।
अथ भस्मनि गोपयीत भक्षान् मांसास्थीनि च शीघ्रमग्निकोपः ॥१३॥
यदि गमन करने वाले की दोनों भुजाओं को कुत्ता सूँघे तो शत्रु और चोर का भय
जानना चाहिये। यदि भस्म में अपने खाने की वस्तु, मांस या हड्डी को छिपावे तो शीघ्र
अग्निकोप होता है।।१३।।
उभयोर्द्वयोरपि बाह्वोर्जिघ्रणे रिपुचौरसम्प्रयोगो विज्ञेयः। रिपुः शत्रुः। चौरास्तस्कराः।
एतैः सम्प्रयोगो विज्ञेयो विज्ञातव्यः। अथ वा भस्मनि भस्ममध्ये भक्षानपूपादीन् गोपयीत
स्थगित्वा स्थापयेत्, मांसास्थीनि वा गोपयीत तदा शीघ्रमाश्वेवाग्निकोपो भवति। तथा
च गर्गः—
यदा श्वा जिघ्रति भुजौ यातुर्द्वावपि निर्दिशेत्।
रिपुचौरभयं घोरं तस्मिन्नुत्पातदर्शने।।
आमिषं तु यदाऽऽगृह्य तृणैराच्छाद्य तिष्ठति।
उत्पातं तादृशं दृष्ट्वा विन्द्यादग्निमुपस्थितम्।। इति।।१३।।
अन्यदप्याह—
ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः ।
यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ॥१४॥
पहले कुत्ता गाँव में शब्द करके बाद में श्मशान में जाकर शब्द करे तो प्रधान
पुरुष का नाश होता है। यदि गमन करने वाले के सम्मुख आकर कुत्ता रुदन करे तो
यात्रा को रोकता है।।१४।।
ग्रामे भषित्वा शब्दं कृत्वा बहिर्बाह्ये श्मशाने च यदि भषन्ति शब्दं कुर्वन्ति सार-
मेयास्तदोत्तमस्य प्रधानस्य पुंसो नरस्य मरणं विनाशो भवति। यियासतो यातुमिच्छोरभिमुखः
सम्मुखो विरौति यदा शब्दं कुरुते तदा यात्रां गमनं निरुणद्धि निवर्तयति।।१४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
श्वचक्राध्यायः ४४७
अन्यदप्याह—
उकारवर्णे विरुतेऽर्थसिद्धिरोकारवर्णेन च वामपार्श्वे ।
व्याक्षेपमौकाररुतेन विन्द्यान्निषेधकृत्सर्वरुतैश्च पश्चात् ॥१५॥
यदि कुत्ता उकार वर्ण से या गमन करने वाले के वाम पार्श्व में होकर ओकार वर्ण
से शब्द करे तो अर्थ-सिद्धि और औकार वर्ण से शब्द करे तो आकुलता होती है तथा
गमन करने वाले के पीछे की ओर होकर किसी भी वर्ण से शब्द करे तो उसकी यात्रा
का निषेध करता है॥१५॥
उकारवर्णे विरुते उकाराक्षरेण विरुते उच्चारितेऽर्थानां सिद्धिर्भवति। तथा यातुर्वामपार्श्वे
वामभागे ओकारवर्णेन रुतेऽर्थसिद्धिरेव। औकाररुतेन व्याक्षेपमाकुलतां विन्द्यात्। यातुः
पश्चात् सर्वरुतैः सर्ववर्णानामुच्चारणे निषेधकृद्यात्राप्रतिषेधं करोति॥१५॥
अन्यदप्याह—
खंखेति चोच्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिव ताड्यमानाः ।
श्वानोऽभिधावन्ति च मण्डलेन ते शून्यतां मृत्युभयञ्च कुर्युः ॥१६॥
यदि सभी कुत्ते दण्डों से ताड़ित की तरह ऊँचे स्वर से बार-बार ‘खंख’ शब्द करें
या सभी कुत्ते इकट्ठे होकर एक साथ दौड़ें तो वे नगर की शून्यता और मृत्युभय को
सूचित करते हैं॥१६॥
ये श्वानः कुक्कुरा उच्चैः कृत्वा मुहुर्मुहुः प्रतिक्षणं खंखेति रुवन्ति शब्दं कुर्वन्ति तथैव
मुहुर्मुहु रुवन्ति। अथवा मण्डलेन मण्डलाकृतिना समूहेन परिवर्तुलेन धावन्ति गच्छन्ति
ते नगरस्य शून्यतां शून्यत्वं मृत्युभयं मरणभयं च कुर्युः॥१६॥
अन्यदप्याह—
प्रकाशय दन्तान् यदि लेढि सृक्विणी
तदाशनं मृष्टमुशन्ति तद्विदः ।
यदाननं लेढि पुनर्न सृक्विणी
प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत् ॥१७॥
यदि कुत्ता दाँतों को बाहर निकाल कर ओठ के अन्त भाग को चाटे तो कुत्ते की
चेष्टाओं को जानने वाले मिष्टान्न का लाभ कहते हैं तथा मुँह को जब चाटता हो, उस
समय यदि ओठ के अन्त भाग को नहीं चाटता हो तो भोजन के लिए तैयार पुरुष के
अन्न में विघ्न डालता है॥१७॥
दन्तान् रदान् प्रकाश्य सन्दर्श्य सृक्विणी ओष्ठपर्यन्ते यदि लेढि, तदा तद्विदः
श्वचेष्टितज्ञा मृष्टमशनं भोजनमुशन्ति। यदाननं मुखं लेढि न पुनः सृक्विणी ओष्ठपर्यन्ते
लेढि, तदा प्रवृत्तभोज्येऽपि भोक्तुं प्रवृत्तेऽपि नरेऽन्नविघ्नं करोति। न भोजनं लभत इति॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४४८ बृहत्संहिता
अन्यदप्याह—
ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये ।
ते क्लेशमाख्यान्ति तदीश्वरस्य श्वाऽरण्यसंस्थो मृगवद्विचिन्त्यः ॥१८॥
गाँव या पुर के मध्य में कुत्ते मिल कर बार-बार शब्द करें तो वे गाँव के स्वामी
को क्लेश की सूचना देते हैं। वन में स्थित कुत्ते के फलों का विचार मृग की तरह करना
चाहिये, अर्थात् 'ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः' इत्यादिवत् विचार करना
चाहिये॥१८॥
ये सारमेया ग्रामस्य मध्ये पुरस्य वा संहत्य समेत्य बहवो मुहुर्मुहुः प्रतिक्षणं भषन्ति
शब्दं कुर्वन्ति, ते तदीश्वरस्य ग्रामस्वामिनः पुरस्वामिनो वा क्लेशमाख्यान्ति क्लेशं कथयन्ति।
अरण्यसंस्थः श्वा कुक्कुरो मृगवद्विचिन्त्यः। मृगेण तुल्यं मृगवत्। मृगस्य यच्चेष्टितमुक्तं
तदारण्यस्यास्य सारमेयस्य विचिन्तनीयमिति। 'ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः'
इत्यादि॥१८॥
अन्यदप्याह—
वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा ।
वायोर्गृहे सस्यभयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थे ॥१९॥
भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् ।
अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥२०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने श्वचक्रं
नामैकोननवतितमोऽध्यायः ॥८९॥
यदि वृक्ष के समीप में कुत्ता शब्द करे तो वर्षा होती है, इन्द्रकील के समीप में
शब्द करे तो मन्त्री को पीड़ा, गृह के मध्य या वायव्य कोण में स्थित होकर शब्द करे
तो धान्य को भय और पुरद्वार में स्थित होकर शब्द करे तो पुर को पीड़ा होती है। शय्या
पर शब्द करे तो शय्या पर सोने वाले के लिये होने वाले भय को सूचित करता है, यात्रा
में गमन करने वाले के पीछे शब्द करे तो उसी को भय होता है और मनुष्यों के सभी
वाम भाग में स्थित होकर शब्द करे तो शत्रुओं का भय करता है॥१९-२०॥
इति 'विमला' हिन्दीटीकायां सर्वशाकुने श्वचक्राध्याय एकोननवतितमः ॥८९॥
वृक्षोपग इति । वृक्षोपगे वृक्षसमीपवर्तिनि सारमेये क्रोशति सति तोयपातो जलपातः
स्याद् भवेत्। देवो वर्षतीत्यर्थः। इन्द्रकीले अर्गलासमीपे सचिवस्य मन्त्रिणः पीडा स्याद्
भवेत्। गृहान्तर्गृहमध्ये वायोर्गृहे वा वायव्यां दिशि यदि क्रोशति, तदा सस्यस्य भयं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
श्वचक्राध्यायः ४४९
भवति। गोपुरस्थे पुरद्वारस्थिते पुरस्यैव पीडा भवेत्।
भयं च शय्यास्विति। शय्यास्वास्तरणेषु तदीश्वराणां शयनस्वामिनां भयं कुर्वन्ति।
याने यात्रायां पश्चाद्भषन्तो यातुरेव भयदा भयं ददति। अथशब्दश्चार्थे। जनसन्निवेशे जन-
सन्निधौ जनानामेवापसव्या वामभागस्था भषन्तोऽरीणां शत्रूणां सम्बन्धि भयं प्रवदन्ति कथ-
यन्तीति।।१९-२०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने श्वचक्रं
नामैकोननवतितमोऽध्यायः ।।८९।।
बृ० भ० द्वि०-२९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ शिवारुताध्यायः
अथ शिवारुतं व्याख्यायते। तत्रादावेव श्ववदतिदेशं विशेषं चाह—
श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः ।
हूहू रुतान्ते परतश्च टाटा पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥१॥
सियार फल में कुत्ते के समान है; विशेषता यह है कि शिशिर ऋतु में सियार को
मद की प्राप्ति होती है। अतः उस समय इनका शुभाशुभ फल नहीं होता है। बोलने के
अन्त में 'हूहू' और इसके बाद 'टाटा' शब्द इनके पूर्ण स्वर हैं एवं इनसे अतिरिक्त शब्द
दीप्त हैं॥१॥
शृगालाः श्वभिः सारमेयैः फलेन सदृशास्तुल्याः। यादृशं चेष्टितं फलं च शुनामुक्तं
तादृशमेव शृगालानां विज्ञातव्यम्, किन्त्वयं विशेषः—एषां शृगालानां शिशिरे माघफाल्गुनयो-
र्मदाप्तिर्मदप्रादुर्भावो भवति। तस्मात् तेषां शिशिरे निष्फलता। रुतान्ते रुतावसाने हूहूशब्दः
परतोऽनन्तरं टाटा एष पूर्णः स्वरः। अन्ये सर्वे स्वराः प्रदीप्ता उक्ताः कथिताः ॥१॥
अथात्रैव लोमाशिकायाश्चेष्टितमाह—
लोमाशिकायाः खलुः कक्कशब्दः
पूर्णः स्वभावप्रभवः स तस्याः ।
येऽन्ये स्वरास्ते प्रकृतेरपेताः
सर्वे च दीप्ता इति सम्प्रदिष्टाः ॥२॥
लोमाशिका के स्वभाव से ही उत्पन्न होने वाले 'कक्कु' शब्द पूर्ण हैं, इनसे अन्य
स्वर स्वभाव-विरुद्ध और दीप्त हैं॥२॥
खलुशब्दश्वार्थे। लोमाशिकायाश्च कक्कशब्दः पूर्णः स च लोमाशिकायाः स्वभावप्रभवः
स्वभावादेव प्रभवत्युत्पद्यते। येऽन्ये स्वराः शब्दास्ते प्रकृतेः स्वभावतोऽपेता अपगतास्ते
च सर्वे दीप्ताः सम्प्रदिष्टाः कथिताः॥२॥
अथ शिवाचेष्टितमाह—
पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥३॥
पूर्व और उत्तर दिशा में स्थित शृगाली शुभ फल देने वाली होती है। सर्वत्र शान्त
दिशा में स्थित हो तो श्रेष्ठ होती है तथा धूमित दिशा की तरफ मुख करके दीप्त शब्द
करे तो उस दिशा के स्वामी का नाश करती है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शिवारुताध्यायः ४५१
शिवा शृगालिका पूर्वोदीच्योः पूर्वस्यामुत्तरस्यां च दिशि शस्ता शुभफलदा। सा च
शान्ता शान्तरवा शान्तदिक्स्था च सर्वत्र सर्वस्यां दिशि पूजिता शुभदा। यां दिशमादित्यो
यास्यति सा धूमिता। धूमिताभिमुखी शिवा स्वरदीप्ता च क्रूरशब्दा दिगीश्वरान् हन्ति।
नस्यां दिशि योऽधिपतिस्तं विनाशयतीत्यर्थः ॥३॥
अथ न ज्ञायते कस्यां दिशि क ईश्वरस्तदर्थमाह—
राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
गजाध्यक्षश्च पूर्वाद्वयाः क्षत्रियाद्याश्चतुर्दिशम् ॥४॥
राजा, कुमार, सेनापति, दूत, सेठ, गुप्तचर, ब्राह्मण, राजाध्यक्ष—ये प्रदक्षिणक्रम
से पूर्व आदि आठ दिशाओं के स्वामी होते हैं। क्षत्रिय, वैश्य, शूद्र और ब्राह्मण पूर्व
आदि चार दिशाओं के स्वामी हैं॥४॥
राजा नृपः पूर्वस्यां दिशि। कुमारो राजपुत्र आग्नेय्याम्। नेता सेनापतिर्दक्षिणस्याम्।
दूतो गमागमिको नैर्ऋत्याम्। श्रेष्ठी पश्चिमायाम्। चरो गूढपुरुषो वायव्याम्। द्विजो ब्राह्मण
उत्तरस्याम्। गजाध्यक्षो हस्तिशालाध्यक्ष ऐशान्याम्। एते क्रमेण पूर्वाद्वया ज्ञेयाः। तथा क्षत्रिया-
द्वाश्चतुर्दिशाम्। पूर्वस्यां क्षत्रियाः। दक्षिणस्यां वैश्याः। पश्चिमायां शूद्राः। उत्तरस्यां ब्राह्मणाः।
अन्यदप्याह—
सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्नयशोभना ।
पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ॥५॥
सभी दिशाओं में दीप्त स्वर अशुभ होते हैं; किन्तु दिन में विशेष कर अशुभ होते
हैं। नगर या सेनाओं में दक्षिण भाग में स्थित सूर्योन्मुखी शिवा कष्ट देती है॥५॥
दीप्ता शिवा सर्वासु दिक्ष्वशुभा अनिष्टफला। अह्रि दिवसे विशेषेणातिशयेनाशोभना।
पुरे नगरे सैन्ये सेनायां वा अपसव्या दक्षिणभागस्था सूर्योन्मुखी रव्याभिमुखी शिवा कष्टा
कष्टफला। अशुभैत्यर्थः ॥५॥
अथ रुतविशेषेण फलमाह—
याहीत्यग्निभयं शास्ति टाटेति मृतवेदिका ।
धिग्धिग्दुष्कृतिमाचष्टे सज्व़ाला देशनाशिनी ॥६॥
यदि शिवा 'याहि' शब्द करे तो अग्निभय, 'टाटा' शब्द करे तो मृत्यु, 'धिक् धिक्'
शब्द करे तो अतिकष्ट और अग्नि की ज्वाला मुख से निकालने वाली शिवा देशनाश को
सूचित करती है॥६॥
याहीति रुते शिवा अग्निभयं हुताशनभीतिं शास्ति कथयति। टाटेति रुते मृतवेदिका।
मृतं बन्ध्वादिकं वेदयति कथयति। केचिन्मृतिवेदिकेति पठन्ति। धिग्धिगिति रुते दुष्कृति-
मतिकष्टमाचष्टे कथयति। सज्व़ाला ज्वालासंयुता देशनाशिनी देशान् नाशयति॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४५२ बृहत्संहिता
अत्रैव मतान्तरमाह—
नैव दारुणतामके सज्जवालायाः प्रचक्षते।
अर्काद्यनलवत्तस्या वक्त्रं लालास्वभावतः ॥७७॥
काश्यप आदि मुनियों का मत है कि मुख से ज्वाला निकालने वाली शिवा का
फल भयंकर नहीं है; क्योंकि लार के स्वभाव से सूर्य आदि की ज्वाला की तरह उसका
मुँह भी ज्वालायुत होता है॥७७॥
एके काश्यपादयो मुनयः सज्जवालायाः शिवाया दारुणतां क्रूरतां नैव प्रचक्षते कथयन्ति।
कुतो हेतोः? अर्काद्यनलवदिति। तस्याः शिवाया वक्त्रं मुखं लालास्वभावत अर्काद्यनलवत्।
यथार्कादिको ज्योतिष्मान् पदार्थः स्वभावादेव साग्निकस्तेजस्वी। एवमेतस्या वक्त्रं लाला-
स्वभावादेव साग्निकमिति हेतोस्तस्य नैव दारुणता। तथा च काश्यपः—
नैव दारुणता तस्याः सज्जवालायाः स्वभावतः।
लालायाः साग्निकं वक्त्रमतः सा शुभदा शिवा॥
केचिदाक्रान्तानलवदिति पठन्ति। यथा साग्निकं काष्ठमाक्रान्तं भ्राम्यमाणं साग्निकं
सर्वत्र दृश्यते तद्वत् तस्या वक्त्रं लालास्वभावतः साग्निकमिति। एवं मुखपानीयस्वभावात्
सा सज्जवालेति॥७७॥
अन्यदप्याह—
अन्यप्रतिरुता याम्या सोद्वन्धमृतशंसिनी।
वारुण्यनुरुता सैव शंसते सलिले मृतम् ॥७८॥
यदि अन्य शिवा के साथ दक्षिण भाग में स्थित शिवा शब्द करे तो फाँसी से मृत्यु
को सूचित करती है। यदि अन्य शिवा के साथ पश्चिम भाग में स्थित वही शिवा शब्द
करे तो जल से मृत्यु सूचित करती है॥७८॥
याम्या दक्षिणदिग्भागस्थाऽन्यप्रतिरुताऽन्यया परया शिवाया सैव कृतशब्दा सा शिवोद्वन्ध-
मृतशंसिनी, उद्वन्धनेन मृतं शंसति कथयति। सैव शिवा वारुणी पश्चिमदिक्स्थाऽन्यया-
ऽनुरुता सलिले जले मृतं बन्धादिकं शंसते कथयति॥७८॥
अस्याः शब्दवशेन फलमाह—
अक्षोभः श्रवणं चेष्टं धनप्राप्तिः प्रियागमः।
क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः ॥७९॥
फलमासप्तमादेतद्ग्राह्यं परतो रुतम्।
याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमादृते ॥१ ९ ०॥
यदि शिवा एक बार शब्द करके चुप हो जाय तो अनाकुलता, दो बार शब्द करके
चुप हो जाय तो इष्टश्रवण, तीन बार शब्द करके चुप हो जाय तो अर्थलाभ, चार बार
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शिवारुताध्यायः ४५३
शब्द करके चुप हो जाय तो प्रिय का आगम, पाँच बार शब्द करके चुप हो जाय तो
आकुलता, छः बार शब्द करके चुप हो जाय तो प्रधानों में भेद और सात बार शब्द
करके चुप हो जाय तो सम्पत्ति होती है। इसके बाद आठ बार आदि शब्द अग्राह्य हैं।
दक्षिण दिशा में छठे और पाँचवें फल को छोड़ कर शेष समस्त फलों को उलटा
समझना चाहिये। जैसे एक बार शब्द करे तो क्षोभ, दो बार अनिष्ट-श्रवण, तीन बार
करे तो धनहानि, चार बार करे तो प्रिय-वियोग, पाँच बार करे तो क्षोभ, छः बार करे तो
प्रधानों में भेद और सात बार करे तो सम्पत्ति की हानि होती है।।९-१०।।
अक्षोभ इति । सा शिवा एकं वारमुक्त्वा यदि तूष्णीं करोति, तस्मिन् देशे अक्षोभो-
ऽनाकुलता भवति। द्वितीये एवमुक्त्वा यदि तूष्णीं करोति, तदा श्रवणं चेष्टमिष्टस्याभिप्रेतस्य
श्रवणमाकर्णनम्। एवं तृतीये रावे धनप्राप्तिरर्थलाभः। चतुर्थे प्रियस्य वल्लभस्यागमः।
पञ्चमे क्षोभ आकुलता। षष्ठे प्रधानभेदः। प्रधानानां राजपुरुषाणां परस्परं भेदो भवति। सप्तमे
वाहनानामश्वादीनां च सम्पदो भवन्ति। सम्पदो वृद्धयः।
फलमासप्तमादिति । यदेतत् प्रागुक्तं शिवारुते फलं तदासप्तमाद्रावात् परतो यदि
विरौति, तदा तद्रुतमग्राह्यं निष्फलत्वात्। याम्यायामिति । याम्यायां दक्षिणदिक्स्थितायां
शिवायांतदेव फलं विपर्यस्तं विपरीतगतं ग्राह्यम्, किन्तु षट्पञ्चमादृते षष्ठं पञ्चमं च
वर्जयित्वा। तयोः पूर्वोक्तमेव फलमन्येष्वपि विपर्ययः। अयमर्थः—प्रथमे क्षोभः। द्वितीये
अनिष्टश्रवणम्। तृतीये धनहानिः। चतुर्थे प्रियविप्रयोगः। पञ्चमे क्षोभ एव। षष्ठे प्रधानभेद एव।
सप्तमे वाहनानामसम्पदो हानयः। सप्तमात् परतो न ग्राह्यं निष्फलत्वात्।।९-१०।।
अथाशुभां शिवामाह—
या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम्।
रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥११॥
जिस शिवा के शब्द से मनुष्यों को रोमाञ्च हो, घोड़े मल-मूत्र का त्याग करें तथा
मनुष्यों को भय हो, वह शिवा शुभ नहीं होती है।।११।।
या शिवा रावाच्छब्दान्मनुष्याणां पुरुषाणां रोमाञ्चं रोमहर्षं जनयेदुत्पादयेत्। वाजिनामश्वानां
शकृत् पुरीषमूत्रं जनयेत्। जनानां त्रासं भयं च। सा न शिवप्रदा शिवं श्रेयो न ददाति।।११।।
अथ शुभलक्षणामाह—
मौनं गता प्रतिरुते नरद्विरदवाजिभिः।
या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति ॥१२॥
जो बोलती हुई शिवा मनुष्य, हाथी और घोड़े के प्रतिशब्द से चुप हो जाय, वह
सैन्य और नगर में मंगल करती है।।१२।।
या शिवा नरैर्मनुष्यैः। द्विरदैर्हस्तिभिः। वाजिभिरश्वैः। प्रतिरुते प्रतिवाशिते मौनं गता
तूष्णीं करोति। सा सैन्ये सेनायाम्। पुरे नगरे। शिवं श्रेयः। सम्प्रयच्छति ददाति।।१२।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
४५४ बृहत्संहिता
अन्यद्रुतलक्षणमाह—
भेभेति शिवा भयङ्करी भोभो व्यापदमादिशोच्च सा।
मृतिबन्धनिवेदिनी फिफे हूहू चात्महिता शिवा स्वरे ॥९३॥
जो शिवा 'भेभा' शब्द करे तो भय, 'भोभो' शब्द करे तो मृत्यु और बन्धन तथा
'हू-हू' शब्द करे तो सुनने वाले का श्रेय करती है॥९३॥
भेभा इति रुते शिवा भयङ्करी भवति भयं करोति। भोभो इति रुते सा शिवा व्यापदं
विशेषेणातीवापदमादिशेत् कथयेत्। मृतिबन्धनिवेदिनी फिफे इति । फिफे इति रुते
मृतिं मरणं बन्धनं च निवेदयति कथयति। हूहू इति स्वरं शब्दं रुवन्ती शिवा आत्महिता
भवति। आत्मनः शिवं श्रेयः करोति श्रोतुः॥९३॥
अन्यदप्याह—
शान्ता त्ववर्णात् परमारुवन्ती टाटामुदीर्णामिति वाश्यमाना।
टेटे च पूर्वं परतश्च थेथे तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥९४॥
जो शिवा शान्त दिशा में स्थित होकर पहले अकार का उच्चारण करके बाद में
'आ' आदि वर्णों का उच्चारण करे या 'टाटा' शब्द करे या पहले 'टेटे' शब्द करके फिर
'थेथे' शब्द करे तो ये सभी प्रसन्नतापूर्वक उसके शब्द होते हैं और सभी शुभ फल
प्रदान करने वाले होते हैं॥९४॥
या शिवा शान्ता शान्तदिक्स्था मधुरस्वरा च। अवर्णादकाराक्षरात् परमनन्तरमारुवन्ती।
अकारमादावुच्चार्य पश्चादाकारमुच्चारयतीत्यर्थः। अथवोदीर्णामुद्भटशब्दां टाटामिति वाश्यमाना
रुवन्ती, अथवा पूर्वं प्रथमं टेटे इति रुवन्ती, परतः थेथे तस्याः शिवायास्तद्रुतं स्वतुष्टि-
प्रभवमात्मीयतुष्ट्या प्रभवत्युत्पद्यते। एतच्छोभनम्॥९४॥
अन्यदप्याह—
उच्चैर्घोरं वर्णमुच्चार्य पूर्वं पश्चात् क्रोशेत् क्रोष्टुकस्यानुरूपम्।
या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण ॥९५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने शिवारुतं
नाम नवतितमोऽध्यायः ॥९०॥
जो शिवा बहुत जोर से पहले क्रूर वर्ण का उच्चारण करके बाद में शृगाल की तरह
शब्द करे वह क्षेम, धन का लाभ और प्रिय-समागम को सूचित करती है॥९५॥
इति 'विमला'हिन्दीटीकायां शाकुने शिवारुताध्यायो नवतितमः ॥९०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शिवारुताध्यायः ४५५
या शिवा उच्चैः कृत्वा पूर्वमादौ घोरं क्रूरं वर्णमक्षरमुच्चार्य पश्चादनन्तरात् क्रोष्टुकस्य
शृगालस्यानुरूपं सदृशं क्रोशेद् ब्रूयात्। एवंविधा सा क्षेमं प्राह कथयति। क्षेमं लब्धपालनं
वित्तस्य चाप्तिं लब्धिम्। अथवा प्रोषितेन प्रियेण देशान्तरगतेन प्रियेण वल्लभेन संयोगं
प्राह कथयति।।१५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने शिवारुतं
नाम नवतितमोऽध्यायः ।।९०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृषतरुरुप्रभृतयः। सीमागता ग्रामसीमायां स्थिताः,
तत्र च रुवन्तो वाश्यमानाः। ते च स्थितास्तत्रैव यदि तिष्ठन्ति, तदा सम्प्रति तस्मिन्नेव
दिने भयमावेदयन्ति यदि च दीप्ताः। अथ तस्मात् सीमाप्रदेशाद् व्रजन्तो गच्छन्तस्तदातीतभय-
मतीतमतिक्रान्तं भयमावेदयन्ति। अथ समापतन्तः समागच्छन्तो दीप्ताश्च रुवन्तः। तदैष्य-
भयानि, आगामिभयान्यवेदयन्ति। परितः समन्ततः पुरे भ्रमन्तः शून्यं निर्जनं पुरं कुर्वन्ति॥१॥
All match exactly!
Check L14-L16:
अन्यदप्याह—
ते ग्राम्यसत्त्वैरनुवाश्यमाना भयाय रोधाय भवन्ति वन्यैः ।
द्वाभ्यामपि प्रत्यनुवाशितास्ते वन्दिग्रहायै च मृगा रुवन्ति ॥२॥
All match exactly!
Check L17-L20:
गाँव की सीमा में आये हुये दीप्त शब्द करने वाले उन मृगों के पीछे ग्रामीण जन्तु
शब्द करें तो भय के लिये, वन स्थित अन्य जन्तु शब्द करें
मृगचेष्टिताध्यायः ४५७
यदि वन में रहने वाले जीव पुर के द्वार पर स्थित हों तो शत्रुओं से पुर का रोध,
गृह के अन्दर प्रवेश करें तो पुर का नाश, गृह में प्रसव करें तो मृत्यु, गृह में रहें तो भय
और गृह में प्रवेश करें तो गृहस्वामी का बन्धन होता है।।३।।
इति 'विमला' हिन्दीटीकायां शाकुने मृगचेष्टिताध्याय एकनवतितमः ॥९१॥
वन्ये सत्त्वे वनजाते प्राणिनि द्वारसंस्थे पुरस्य नगरस्यैव रोधो वाच्यः। रोधः परैर्वेष्टनम्।
पुरमध्ये सम्प्रविष्टे पुरस्यैव विनाशो वाच्यो वक्तव्यः। तस्मिन्नेव प्रसूते मृत्युर्मरणं स्याद् भवेत्।
संस्थिते मृते च भयं स्यात्। गेहं याते गृहं प्रविष्टे गृहस्वामिनो बन्धनं सम्प्रदिष्टम्।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने मृगचेष्टितं
नामैकनवतितमोऽध्यायः ॥९१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गवेङ्गिताध्यायः
अथ गवेङ्गितं व्याख्यायते। तदेवाह—
गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान्।
मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः॥१॥
दीन गाय राजा को अमंगल करने वाली, अपने पाँवों से पृथ्वी को कुरेदने वाली
गाय रोग करने वाली, अश्रुपूर्ण नेत्र वाली गाय स्वामी की मृत्यु करने वाली और डरकर
अति शब्द करने वाली गाय चोरों से भय कराने वाली होती है॥१॥
गावो दीना दैन्यं गता म्लानमुखाः पार्थिवस्य राज्ञोऽशिवाय अश्रेयसे भवन्ति। तथा
भूमिमवनिं पादैः खुरैः कुट्टयन्त्यो विदारयन्त्यो रोगान् कुर्वन्ति। अश्रुपूर्णायताक्ष्यः, अश्रुपूर्णे
आयते दीर्घे अक्षिणी यासां तास्तथाभूताः पत्युः स्वामिनो मृत्युं मरणं कुर्वन्ति। तथा भीताः
सभया आरुवन्त्यः अतीव शब्दं कुर्वत्यः तस्करांश्चौरान् कुर्वन्ति॥१॥
अन्यदप्याह—
अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय।
भृशं निरुद्धा यदि मक्षिकाभिस्तदाशु वृष्टिं सरमात्मजैर्वा॥२॥
यदि बिना कारण गाय शब्द करे तो अनर्थ और रात्रि में शब्द करे तो भय करती
है। यदि बैल रात्रि में शब्द करे तो मंगलकारी होता है। यदि गाय बहुत मक्खियों से या
कुत्ते के बच्चों से घिर जाय तो शीघ्र वृष्टि करती है॥२॥
यदकारणं निष्कारणमेव क्रोशति वाशति, तदाऽनर्थो भवति। तस्य जलतृणादिकं
कारणं तद्वर्जमकारणम्। रात्रौ निशि यदि वाशति, तदा भयाय भवति। वृषभो दान्तो रात्रौ
वाच्यमानः शिवाय श्रेयसे भवति। भृशमत्यर्थं यदि मक्षिकाभिर्निरुद्धा व्याप्ता, सरमात्मजैः
श्वभिर्वा निरुद्धा व्याप्ता तदा आशु शीघ्रमेव वृष्टिं करोति॥२॥
अन्यदप्याह—
आगच्छन्त्यो वेश्मबम्भारवेण
संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः।
आर्द्राङ्ग्यो वा हृष्टरोमण्यः प्रहृष्टा
धन्या गावः स्युर्महिष्योऽपि चैवम्॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने गवेङ्गितं
नाम द्विनवतितमोऽध्यायः॥९२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गवेङ्गिताध्यायः ४५९
मधुर शब्द करती हुई गाय घर में आये तो गायों की गोष्ठ की वृद्धि के लिये होती
है तथा जल से आर्द्र शरीर वाली और रोमाञ्चों से युक्त गाय गोष्ठवृद्धि के लिये धन्य
कही गई है। इसी तरह महिषी ( भैंस ) भी फल देती है।।३।।
इति 'विमला' हिन्दीटीकायां शाकुने गवेङ्गिताध्यायो द्विनवतितमः ॥९२॥
वेश्म गृहमागच्छन्त्यो बम्भारवेण मधुरस्वरेण संयुक्ता गा गावः संसेवन्त्यो निषेवन्त्यो
गवां गोष्ठवृद्ध्यै गोष्ठसंवर्धनाय धन्याः प्रशस्ताः स्युर्भवन्ति। अर्थवशाद्विभक्तिलिङ्गवचन-
विपरिणामः। गोवृद्धिं कुर्वन्ति। केचिदागव्यूतेरिति पठन्ति। गव्यूतिः क्रोशद्वयम्। तस्माद्
बम्भारवेणेति पूर्ववद्योज्यम्। आर्द्राङ्ग्यो वेति। आर्द्राणि जलेन क्लिन्नानि अङ्गानि अवयवानि
यासाम्। हृष्टरोमण्यः सञ्जातपुलकाः। प्रहृष्टा हर्षसंयुक्ताः। एवंविधाश्च गोष्ठवृद्ध्यै धन्याः।
महिष्योऽपि चैवम्। एवमनेन प्रकारेण—'आगच्छन्त्यो वेश्मबम्भारवेण' इत्यादिकेन।
तथा—'दीनाः पार्थिवास्याशिवाय' इत्यादिकेन शुभाशुभेन महिष्योऽपि स्युर्भवेयुरिति।
यद्गवामिङ्गितं तन्महिषीणामित्यर्थः ॥३॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने गवेङ्गितं
नाम द्विनवतितमोऽध्यायः ॥९२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथाश्वेङ्गिताध्यायः
अथाश्वेङ्गितं व्याख्यायते। तच्चाह—
उत्सर्गान्न शुभदमासनात् परस्थ
वामे च ज्वलनमतोऽपरं प्रशस्तम्।
सर्वाङ्गज्वलनमवृद्धिदं हयानां
द्वे वर्षे दहनकणाश्च धूपनं वा ॥१॥
यह निश्चित है कि घोड़ों के आसनस्थान से पश्चिम या वाम भाग में ज्वलन पैदा हो
तो शुभ नहीं होता। इससे विरुद्ध ( पूर्व या दक्षिण ) भाग में ज्वलन पैदा हो तो शुभ
होता है। उत्पातवश घोड़ों के समस्त अवयवों में जो ज्वलन पैदा होता है, उसको सर्वाङ्ग
ज्वलन कहते हैं। यह सर्वाङ्ग ज्वलन अवृद्धिकारी होता है। जिस घोड़े के दो वर्ष तक
शरीर से अग्निकण या धूआँ निकले तो वह भी अवृद्धिकारी होता है।।१।।
उत्सर्गान्न शुभदमिति । हयानामश्वानामुत्सर्गादयं नियमो यत्रापवादो नास्ति। आसनात्
परस्थम्, आस्यते यस्मिन्नित्यासनं पर्याणस्थानम्। तस्मादपरस्थं पश्चिमभागे स्थितं ज्वलनं
न शुभदमप्रशस्तम्। वामे च वामभागे वामपार्श्वे तस्मादेवासनस्थानान्न शुभदम्। अतोऽस्मादपरं
प्राग्भागे दक्षिणे च प्रशस्तमिष्टतरम्। अश्वानामुत्पातवशेन ज्वलारूपमवयवेषु दृश्यते तत्
सर्वाङ्गज्वलनम्। तत् सर्वाङ्गानां समस्तावयवानां ज्वलनमवृद्धिदम्। अवृद्धिं विनाशं ददाति।
उक्तं च—
तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनमेवम्।
नेष्टमितरत्र शस्तं वामेतरपार्श्वयोस्तद्वत् ।। इति।
द्वे वर्षे दहनकणाश्च धूपनं वेति । यस्य हयस्य द्वे वर्षे वर्षद्वयमविच्छिन्नं कृत्वा
दहनकणा अग्निविस्फुलिङ्गा धूपनं धूमो वा दृश्यते तदा तस्यावृद्धिदमेव।।१।।
अथान्येष्वप्याह—
अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥२॥
यदि घोड़ों का लिङ्ग प्रदीप्त हो तो राजा के अन्तःपुर का नाश, पेट प्रदीप्त हो तो
खजाने का नाश, गुदा और पूँछ प्रदीप्त हो तो पराजय तथा मुँह और शिर प्रदीप्त हो तो
जय होती है।।२।।
अश्वानां मेढ़े लिङ्गे प्रदीप्ते राज्ञोऽन्तःपुरं नाशमुपैति विनाशं प्राप्नोति। उदरे जठरे
प्रदीप्ते ज्वलिते कोशो गञ्जः क्षयं नाशं याति। पायावुपस्थे पुच्छे लाङ्गूले च प्रदीप्ते पराजयः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अश्वेङ्गिताध्यायः ४६१
स्याद् भवेत्। वक्त्रं मुखम्। उत्तमाङ्गं शिरः। वक्त्रोत्तमाङ्गज्वलने जयश्च भवति।।२।।
अथान्येष्वङ्गेष्वप्याह—
स्कन्धासनांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम्।
ललाटवक्षोऽक्षिभुजे च धूमः पराभवाय ज्वलनं जयाय ॥३॥
घोड़े के कन्धा, आसन, ग्रीवा के पार्श्व भाग प्रदीप्त हों तो जय, पाँव प्रदीप्त हो तो
स्वामी का वध, ललाट, छाती, आँख और भुजा धूमयुत हो तो पराजय तथा प्रदीप्त हो
तो जय के लिये होता है।।३।।
स्कन्धावंसौ। आसनं पर्याणस्थानम्। ग्रीवापार्श्वगौ तदंसौ। एतेषां स्कन्धासनांसानां
ज्वलनं जयाय भवति। पादाः शफाः। पादज्वलनं स्वामिनो बन्धाय प्रदिष्टं कथितम्। तत्र
स्वामिनो बन्धनं भवति। ललाटेत्यादि। ललाटं मुखपृष्ठभागः। वक्षमुरःप्रदेशः। अक्षिणी
नेत्रे। भुजौ बाहू। एषामन्यतमेऽङ्गेऽश्वानां यदि धूमो दृश्यते तदा पराभवाय भवति। शत्रोः
सकाशात् पराभव उत्पद्यते। एतेषामन्यतमेऽङ्गे ज्वलनं जयाय भवति।।३।।
अन्यदप्याह—
नासापुटप्रोथशिरोऽश्रुपातनेत्रे च रात्रौ ज्वलनं जयाय।
पलाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ॥४॥
रात्रि के समय घोड़े के नासारन्ध्र, प्रोथ ( नासामध्य भाग ), शिर, अश्रुपात ( गण्डाधो
भाग ) और नेत्र प्रदीप्त हों तो जय के लिये होता है। पलाश के समान लोहित, कृष्ण,
शुक्ल-कृष्ण, कपोत के समान, तोते के समान या सफेद वर्ण वाले घोड़े के एक, दो
या अनेक अंगों में सदा ज्वलन हो तो शुभ होता है।।४।।
नासापुटौ नासारन्ध्रौ। प्रोथो नासामध्यभागः। शिरो मूर्धा। अश्रुपातोऽश्रुणः पातो
यत्र। गण्डाधोभागः। नेत्रे चक्षुषी। एतेषामन्यतमस्य रात्रौ निशि ज्वलनं जयाय भवति। पलाशः
पलाशवर्णः। ताम्रो लोहितवर्णः। असितः कृष्णः। कर्बुरः शुक्लकृष्णवर्णो व्यामिश्रः। कपोत-
वर्ण इत्यर्थः। एषां वर्णानां तथा तस्य शुकवर्णस्य सितस्य श्वेतवर्णस्य चैतेषामङ्गानामेकतमे
द्वयोर्बहुषु वा ज्वलनं नित्यं सर्वकालं दिने निशायां चेष्टं शोभनं भवति। उक्तं च—
सममन्यत्पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः।
राष्ट्रभयशोकसम्भ्रमसपत्नवक्त्रापमर्दकराः ॥
प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्।
अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा।।
नित्यं च वालकिरणे दाहज्वालास्फुलिङ्गानाम्।
स्कन्धासनांसदेशे धूमा बन्धाय चरणेषु।।
वक्षोऽक्षिललाटभुजे त्वश्वानां हेषितं च वदनेभ्यः।
ज्वालोत्पत्तिर्जयदा धूमोत्पत्तिस्त्वभावाय।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४६२ बृहत्संहिता
नासापुटाश्रुपातप्रोथशिरोलोचने च रजनीषु।
विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम्।।
विजयाय सदैव हि सुशुक्लशुकवर्णयोर्ज्वलनमेषु।
एवं च यथासम्भवमन्येष्वपि वाहनेषु फलम्।। इति।।४।।
अन्यदपि चेष्टितमाह—
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना
कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः।
अस्वप्नश्च विरोधिनां निशि दिवा निद्रालसध्यानता
सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ।।५।।
बिना कारण घास और पानी से विरक्ति, गिरना, पसीने का आना, काँपना, मुँह से
खून निकलना, रात्रि में किसी से द्वेष करते हुये जागना, दिन में नींद, आलस्य और
चिन्ता का आना, साद ( सुस्ती होना ), नीचे मुख करना, ऊपर देखना—घोड़े की ये
सभी चेष्टायें अशुभ होती हैं।।५।।
प्रद्वेषो यवसेति। यवसस्य तृणादेरम्भसामपां च। प्रद्वेषो विरक्तौ। तथा प्रपतनं
प्रपातः। स्वेदो घर्मः। निमित्तं कारणम्। तस्माद्विना तद्व्यतिरेकेण। कम्पो वा निमित्ताद्विना।
वदनान्मुखाद्वा कणादि रक्तस्य शोणितस्य पतनं स्रावः। अस्वप्नश्च विरोधिनां निशीति।
निशि रात्रौ विरोधिनां वैरं कुर्वतामस्वप्नो जागरणम्। दिवा दिवसे निद्रालसत्वं ध्यानता
चिन्ता। सादो वक्षाधः। अधोमुखताऽनूर्ध्वनिरीक्षणम्। वाजिनामश्वानामिदं विचेष्टितं चेष्टितं
नेष्टमशुभं स्मृतमुक्तम्। उक्तं च—
निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु।
निशासु चान्योन्यविरोधनिद्रानष्टास्तुरङ्गा न शिवाय भर्तुः।। इति।।५।।
अन्यदपि चेष्टितमाह—
आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः।
उपवाह्यतुरङ्गमस्य वा कल्पस्यैव विपन्नशोभना ।।६।।
पर्याण ( तंग तरहा, पुरुष आदि ) से युत घोड़े के ऊपर दूसरे घोड़े का चढ़ना,
नीरोग और उपवाह्य ( सवार को पीठ पर लेकर चलते-चलते कुछ नहीं खाने वाले )
घोड़े का विपत्ति में आना शुभ नहीं होता है।।६।।
वाजिनोऽश्वस्य पर्याणादियुतस्य पर्याणसंयुक्तस्य। आदिग्रहणात् पुरुषसहितस्य। अन्य-
वाजिनामन्याश्वानामारोहणम्। पर्याणादियुतश्चान्योऽश्व आरोहति तन्न शोभनम्। उपवा-
ह्यतुरङ्गमस्य चेति। यस्मिन्नारुह्य गमनं प्रत्युपवाह्यते तस्योपवाह्यतुरङ्गमस्याश्वस्य कल्प-
स्यारोग्यस्य विपन्नशोभना नेष्टेति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अश्वेङ्गिताध्यायः ४६३
अधुना हेषितलक्षणमाह—
क्रौञ्चवद्रिपुवधाय हेषितं ग्रीवया त्वचलया च सोन्मुखम्।
स्निग्धमुच्चमनुनादि हृष्टवद्ग्रासरुद्धवदनैश्च वाजिभिः ॥७॥
घोड़े का क्रौञ्चपक्षी की तरह शब्द करना तथा गर्दन को स्थिर और ऊपर मुख
करके शब्द करना, उच्च स्वर से बार-बार मधुर शब्द करना या ग्रास से मुख बन्द
रहने पर भी आनन्दपूर्वक शब्द करना शत्रु के वध के लिये होता है॥७॥
क्रौञ्चः पक्षी। यस्य हेषितं शब्दितं क्रौञ्चपक्षिसदृशं तद्रिपुबधाय शत्रुविनाशाय। तथा
ग्रीवया कन्धरया त्वचलया स्थिरया च सोन्मुखं सह ऊर्ध्वेन मुखेन वर्तत इति सोन्मुखम्,
तदपि रिपुबधायैव। स्निग्धं मधुरमुच्चमुच्चैः कृत्वा स्पष्टतरम्। अनुनादि घण्टाशब्दवदनुनदति
पश्चाच्छब्दं करोति। हृष्टवत् परितोषयुक्तैर्ग्रासरुद्धवदनैः। ग्रासेन कवलेन रुद्धं वदनं मुखं
येषां तैस्तथाभूतैस्तद्धेषितं रिपुवधायैव भवति॥७॥
अन्यदप्याह—
पूर्णपात्रदधिविप्रदेवतागन्धपुष्पफलकाञ्चनादि वा।
द्रव्यमिष्टमथवा परं भवेद्धेषतां यदि समीपतो जयः ॥८॥
यदि शब्द करते हुये घोड़े के पास में किसी शुभ द्रव्य से पूर्ण पात्र, दही, ब्राह्मण,
देवता, सुगन्धित द्रव्य, फूल, फल, सोना आदि (रजत, मणि, मोती आदि) या अन्य
शुभ द्रव्य आ जायँ तो जय होती है॥८॥
पूर्णं च तत् पात्रं च पूर्णपात्रम्। पात्रं भाजनम्। पूर्णं केनचिच्छुभद्रव्येण सर्षपाक्षत-
तण्डुलादिकेनेति। दधि क्षीरविकारः। विप्रो ब्राह्मणः। देव एव देवता। गन्धः सुगन्धद्रव्यविशेषः।
अगुरुकर्पूरकस्तूरिकादिः। पुष्पाणि कुसुमानि। फलं श्रीफलादि। काञ्चनं सुवर्णम्। आदिग्रहणाद्
रजतमणिमुक्ताफलादि। अथवा परमन्यदिष्टं शुभद्रव्यं सिद्धार्थगोरोचनादि वा। हेषतां शब्दं
कुर्वतामश्वानां यदि समीपतः सन्निकर्षे निकटे भवेत्, तदा जयो भवति॥८॥
अन्यदप्याह—
भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा।
सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः ॥९॥
खाने की सामग्री, जल और लगाम को आनन्दपूर्वक ग्रहण करने वाले, स्वामी की
इच्छा के अनुकूल चलने वाले तथा दक्षिण पार्श्व में दृष्टि रखने वाले घोड़े अभीष्ट फल
प्रदान करने वाले होते हैं॥९॥
भक्ष्यं भक्षणीयं द्रव्यम्। पानं जलम्। खलिनं कविका। एतानि यद्यभिनन्दयन्ति, अथवा
पत्युर्भर्तुरौपयिकं यदुपयुज्यते तदभिनन्दयन्ति। अथवा सव्यपार्श्वे आत्मीयदक्षिणपार्श्वे गतदृष्टयो
वीक्ष्यमाणाः। एवंविधास्तुरङ्गमा वाञ्छितार्थफलदा वाञ्छितस्याभीष्टस्यार्थस्य फलं ददति।
उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४६४ बृहत्संहिता
इष्टानिष्टव्यञ्जकमतः परं हेषितं समवधार्यम्।
तच्च चलितप्रसारितशिरोधरोद्भूतमिष्टफलम् ।।
ग्रासान्तर्वक्त्राणामुच्चैः स्निग्धानुनादि गम्भीरम्।
द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः ।।
खलिनान्नपानधर्मस्वाम्युपकरणाभिनन्दिता चैषाम्।
सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वे विलोकयताम्।। इति।।९।।
अधुनाशुभचेष्टितमाह—
वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः ।
सन्ध्यासु दीप्तामवलोकयन्तो हेषन्ति चेद् बन्धपराजयाय ॥१०॥
बाँयें पैर से पृथ्वी को खोदने वाले घोड़े स्वामी के विदेश-गमन के कारण होते हैं
तथा सन्ध्याओं ( सूर्योदय, मध्याह्न, सूर्यास्त और अर्ध रात्रि ) में दीप्त दिशा को देखते
हुये शब्द करें तो स्वामी के बन्धन और पराजय के कारण होते हैं।।१०।।
महीं भूमिं वामैश्च पादैरपसव्यचरणैरभिताडयन्तो घ्नन्तो भर्तुः पत्युः प्रवासाय भवन्ति।
सन्ध्यासु चतसृषु सूर्योदयमध्याह्नास्तमयार्धरात्रिषु। दीप्तां दिशमवलोकयन्तः प्रेक्षमाणा
यदि हेषन्ति शब्दं कुर्वन्ति, तदा बन्धपराजयाय भवन्ति। स्वामिनो बन्धनं पराजयं च कुर्वन्ति
इति ।।१०।।
अन्यदप्याह—
अतीव हेषन्ति किरन्ति वालान् निद्रारताश्च प्रवदन्ति यात्राम् ।
रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः ॥११॥
यदि घोड़े बहुत शब्द करें, पूंछ के बालों को इधर-उधर फैलावें या शयन करें तो
यात्रा को सूचित करते हैं तथा यदि बालों को गिरावें, दीन गदहे की तरह शब्द करें या
धूली-भक्षण करें तो भय के लिये देखे जाते हैं।।११।।
अतीवात्यर्थं हेषन्ति शब्दं कुर्वन्ति, तथा वालान् पुच्छवालान् किरन्ति विक्षिपन्ति।
निद्रारताः स्वप्नशीलाश्च यात्रां गमनं प्रवदन्ति। तथा रोमत्यजो रोमाणि त्यजन्त्युत्सृजन्ति।
दीनखरस्वराः, दीनस्वनाः क्षामशब्दाः। खरस्वना रूक्षध्वनयः। पांशून् मृत्तिका ग्रसन्तो भक्ष-
यन्तो भयाय दृष्टाः। स्वामिनो भयमावेदयन्ति। उक्तं च—
सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश्च।
हेषन्तो भयजनना वधबन्धपराजयकराश्च।।
वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः।
वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय।। इति।।११।।
अथ शुभनिमित्तान्याह—
समुद्भवद्दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः ।
जयाय शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद् बुधः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ानोऽपि कषा- Wait, in L30: "पुरीषं" or "पूरीषं"? It's "पुरीषं" (short u). Wait, "ताड्यमानोऽपि" - yes. दिभिर्नानुलोमयायी अनुलोमामभीष्टां दिशं न गमनशीलः। अकार्यभीतः, अकार्यादनिमित्ताद् Wait, comma afterअकार्यभीतः,-> yes, there is a comma! भीतः। महिषसूकरादिभिर्विना भयमाशङ्कते। अश्रुविलोचनोऽश्रुपरिपूर्णनयनः। स भर्तुः पत्युः शिवं श्रेयो नाभिधत्ते न ददाति।।१४।। बृ० भ० द्वि०-३०`
- Final Polish:
Line numbers must be consecutive and reflect the physical lines on the page.
Check L1 to L34:
Header: L1
Paragraph 1 (Hindi): L2-L5 (4 lines)
Paragraph 2 (Sanskrit comm): L6-L10 (5 lines)
Intro line: L11 (1 line)
Verse 13: L12-L15 (4 lines)
Hindi