बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 488, कुल 760 में से
संदर्भ में पढ़ेंअथाश्वेङ्गिताध्यायः
अथाश्वेङ्गितं व्याख्यायते। तच्चाह—
उत्सर्गान्न शुभदमासनात् परस्थ
वामे च ज्वलनमतोऽपरं प्रशस्तम्।
सर्वाङ्गज्वलनमवृद्धिदं हयानां
द्वे वर्षे दहनकणाश्च धूपनं वा ॥१॥
यह निश्चित है कि घोड़ों के आसनस्थान से पश्चिम या वाम भाग में ज्वलन पैदा हो
तो शुभ नहीं होता। इससे विरुद्ध ( पूर्व या दक्षिण ) भाग में ज्वलन पैदा हो तो शुभ
होता है। उत्पातवश घोड़ों के समस्त अवयवों में जो ज्वलन पैदा होता है, उसको सर्वाङ्ग
ज्वलन कहते हैं। यह सर्वाङ्ग ज्वलन अवृद्धिकारी होता है। जिस घोड़े के दो वर्ष तक
शरीर से अग्निकण या धूआँ निकले तो वह भी अवृद्धिकारी होता है।।१।।
उत्सर्गान्न शुभदमिति । हयानामश्वानामुत्सर्गादयं नियमो यत्रापवादो नास्ति। आसनात्
परस्थम्, आस्यते यस्मिन्नित्यासनं पर्याणस्थानम्। तस्मादपरस्थं पश्चिमभागे स्थितं ज्वलनं
न शुभदमप्रशस्तम्। वामे च वामभागे वामपार्श्वे तस्मादेवासनस्थानान्न शुभदम्। अतोऽस्मादपरं
प्राग्भागे दक्षिणे च प्रशस्तमिष्टतरम्। अश्वानामुत्पातवशेन ज्वलारूपमवयवेषु दृश्यते तत्
सर्वाङ्गज्वलनम्। तत् सर्वाङ्गानां समस्तावयवानां ज्वलनमवृद्धिदम्। अवृद्धिं विनाशं ददाति।
उक्तं च—
तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनमेवम्।
नेष्टमितरत्र शस्तं वामेतरपार्श्वयोस्तद्वत् ।। इति।
द्वे वर्षे दहनकणाश्च धूपनं वेति । यस्य हयस्य द्वे वर्षे वर्षद्वयमविच्छिन्नं कृत्वा
दहनकणा अग्निविस्फुलिङ्गा धूपनं धूमो वा दृश्यते तदा तस्यावृद्धिदमेव।।१।।
अथान्येष्वप्याह—
अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥२॥
यदि घोड़ों का लिङ्ग प्रदीप्त हो तो राजा के अन्तःपुर का नाश, पेट प्रदीप्त हो तो
खजाने का नाश, गुदा और पूँछ प्रदीप्त हो तो पराजय तथा मुँह और शिर प्रदीप्त हो तो
जय होती है।।२।।
अश्वानां मेढ़े लिङ्गे प्रदीप्ते राज्ञोऽन्तःपुरं नाशमुपैति विनाशं प्राप्नोति। उदरे जठरे
प्रदीप्ते ज्वलिते कोशो गञ्जः क्षयं नाशं याति। पायावुपस्थे पुच्छे लाङ्गूले च प्रदीप्ते पराजयः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA