बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 492, कुल 760 में से
संदर्भ में पढ़ें४६४ बृहत्संहिता
इष्टानिष्टव्यञ्जकमतः परं हेषितं समवधार्यम्।
तच्च चलितप्रसारितशिरोधरोद्भूतमिष्टफलम् ।।
ग्रासान्तर्वक्त्राणामुच्चैः स्निग्धानुनादि गम्भीरम्।
द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः ।।
खलिनान्नपानधर्मस्वाम्युपकरणाभिनन्दिता चैषाम्।
सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वे विलोकयताम्।। इति।।९।।
अधुनाशुभचेष्टितमाह—
वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः ।
सन्ध्यासु दीप्तामवलोकयन्तो हेषन्ति चेद् बन्धपराजयाय ॥१०॥
बाँयें पैर से पृथ्वी को खोदने वाले घोड़े स्वामी के विदेश-गमन के कारण होते हैं
तथा सन्ध्याओं ( सूर्योदय, मध्याह्न, सूर्यास्त और अर्ध रात्रि ) में दीप्त दिशा को देखते
हुये शब्द करें तो स्वामी के बन्धन और पराजय के कारण होते हैं।।१०।।
महीं भूमिं वामैश्च पादैरपसव्यचरणैरभिताडयन्तो घ्नन्तो भर्तुः पत्युः प्रवासाय भवन्ति।
सन्ध्यासु चतसृषु सूर्योदयमध्याह्नास्तमयार्धरात्रिषु। दीप्तां दिशमवलोकयन्तः प्रेक्षमाणा
यदि हेषन्ति शब्दं कुर्वन्ति, तदा बन्धपराजयाय भवन्ति। स्वामिनो बन्धनं पराजयं च कुर्वन्ति
इति ।।१०।।
अन्यदप्याह—
अतीव हेषन्ति किरन्ति वालान् निद्रारताश्च प्रवदन्ति यात्राम् ।
रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः ॥११॥
यदि घोड़े बहुत शब्द करें, पूंछ के बालों को इधर-उधर फैलावें या शयन करें तो
यात्रा को सूचित करते हैं तथा यदि बालों को गिरावें, दीन गदहे की तरह शब्द करें या
धूली-भक्षण करें तो भय के लिये देखे जाते हैं।।११।।
अतीवात्यर्थं हेषन्ति शब्दं कुर्वन्ति, तथा वालान् पुच्छवालान् किरन्ति विक्षिपन्ति।
निद्रारताः स्वप्नशीलाश्च यात्रां गमनं प्रवदन्ति। तथा रोमत्यजो रोमाणि त्यजन्त्युत्सृजन्ति।
दीनखरस्वराः, दीनस्वनाः क्षामशब्दाः। खरस्वना रूक्षध्वनयः। पांशून् मृत्तिका ग्रसन्तो भक्ष-
यन्तो भयाय दृष्टाः। स्वामिनो भयमावेदयन्ति। उक्तं च—
सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश्च।
हेषन्तो भयजनना वधबन्धपराजयकराश्च।।
वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः।
वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय।। इति।।११।।
अथ शुभनिमित्तान्याह—
समुद्भवद्दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः ।
जयाय शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद् बुधः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA